५ उमासंहिता, अध्याय 28: मन्वन्तरकीर्तने वैवस्वतवर्णनं, Verse 1
५.३५ ॥
श्रीगणेशाय नमः ॥
Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.३५ ॥
श्रीगणेशाय नमः ॥
५.३५. पचत्रिंशोऽध्यायः ।
मन्वन्तरकीर्तने वैवस्वतवर्णनम् ।
सूत उवाच ।
विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यां महाऋषेः ।
तस्य भार्याभवत्संज्ञा त्वाष्ट्री देवी सुरेणुका ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
मुनेऽसहिष्णुना तेन तेजसा दुस्सहेन च ।
भर्तृरूपेण नातुष्यद्रूपयौवनशालिनी ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
आदित्यस्य हि तद्रूपमसहिष्णुः सुतेजसः ।
दह्यमाना तदोद्वेगमकरोद्वरवर्णिनी ॥ ३॥
ऋषेऽस्यां त्रीण्यपत्यानि जनयामास भास्करः ।
संज्ञायां तु मनुः पूर्वं श्राद्धदेवः प्रजापतिः ॥ ४॥
यमश्च यमुना चैव यमलौ सम्बभूवतुः ।
एवं हि त्रीण्यपत्यानि तस्यां जातानि सूर्यतः ॥ ५॥
संवर्तुलं तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः ।
असहन्ती ततश्छायामात्मनः सासृजच्छुभाम् ॥ ६॥
मायामयी तु सा संज्ञामवोचद्भक्तितः सुभे ।
किं करोमीह कार्यं ते कथयस्व शुचिस्मिते ॥ ७॥
संज्ञोवाच अहं यास्यामि भद्रं ते ममैव भवनं पितुः ।
त्वयैतद्भवने सत्यं वस्तव्यं निर्विकारतः ॥ ८॥
इमौ मे बालकौ साधू कन्या चेयं सुमध्यमा ।
पालनीयाः सुखेनैव मम चेदिच्छसि प्रियम् ॥ ९॥
छायोवाच ।
आकेशग्रहणाद्देवि सहिष्येऽहं सुदुष्कृतम् ।
नाख्यास्यामि मतं तुभ्यं गच्छ देवि यथासुखम् ॥ ५.३५.१०॥
सूत उवाच ।
इत्युक्ता साऽगमद्देवी व्रीडिता सन्निधौ पितुः ।
पित्रा निर्भर्त्सिता तत्र नियुक्ता सा पुनः पुनः ॥ ११॥
अगच्छद्वडवा भूत्वाच्छाद्य रूपं ततः स्वकम् ।
कुरुंस्तदोत्तरान् प्राप्य नृणान्येव चचार ह ॥ १२॥
संज्ञां तां तु रविर्मत्वा छायायां सुसुतं तदा ।
जनयामास सावर्णिं मनुं वै सविता किल ॥ १३॥
संज्ञानु प्रार्थिता छाया सा स्वपुत्रेऽपि नित्यशः ।
चकाराभ्यधिकं स्नेहं न तथा पूर्वजे सुते ॥ १४॥
मनुस्तस्याक्षमत्तं यमस्तं नैव चक्षमे ।
स सरोषस्तु बाल्याच्च भाविनोऽर्थस्य गौरवात् ॥ १५॥
छायां सन्तर्जयामास पदा वैवस्वतो यमः ।
तं शशाप ततः क्रोधाच्छाया तु कलुषीकृता ॥ १६॥
चरणः पततामेष तवेति भृशरोषतः ।
यमस्ततः पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् ॥ १७॥
भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विचेष्टितः ।
मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ॥ १८॥
स्नेहमस्मास्वपाकृत्य कनीयांसं बिभर्ति सा ।
तस्मान्मयोद्यतः पादस्तद्भवान् क्षन्तुमर्हति ॥ १९॥
शप्तोऽहमस्मि देवेश जनन्या तपतांवर ।
तव प्रसादाच्चरणो न पतेन्मम गोपते ॥ ५.३५.२०॥
सवितोवाच ।
असंशयं पुत्र महद्भविष्यत्यत्र कारणम् ।
येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् ॥ २१॥
न शक्यते तन्मिथ्या वै कर्तुं मातृवचस्तव ।
कृमयो मांसमादाय गमिष्यन्ति महीतले ॥ २२॥
तद्वाक्यं भविता सत्यं त्वं च त्रातौ भविष्यसि ।
कुरु तात न सन्देहं मनश्चाश्वास्य स्वं प्रभो ॥ २३॥
सूत उवाच ।
इत्युक्त्वा तनयं सूर्यो यमसंज्ञं मुनीश्वर ।
आदित्यश्चाब्रवीत्तान्त्तु छायां क्रोधसमन्वितः ॥ २४॥
सूर्य उवाच ।
हे प्रिये कुमते चण्डि किं त्वयाचरितं किल ।
किन्तु मेऽभ्यधिकः स्नेह एतदाख्यातुमर्हसि ॥ २५॥
सूत उवाच ।
सा रवेर्वचनं श्रुत्वा यथातथ्यं न्यवेदयत् ।
निर्दग्धा कामरविणा सान्त्वयामास वै तदा ॥ २६॥
तस्यास्तद् वचनं श्रुत्वा सूर्याऽगात्तवष्टुरन्तिकम् पप्रच्छ तं क्व संज्ञेति त्वष्टा सूर्यमथाब्रवीत् ॥ २७॥