५ उमासंहिता, अध्याय 27: सर्वमन्वतरानुर्कार्तनं, Verse 1
५.३४ ॥
श्रीगणेशाय नमः ॥
Containing 83 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.३४ ॥
श्रीगणेशाय नमः ॥
५.३४. चतुस्त्रिंशोऽध्यायः ।
सर्वमन्वतरानुर्कार्तनम् ।
शौनक उवाच ।
मन्वन्तराणि सर्वाणि विस्तरेणानुकीर्तय ।
यावन्तो मनवश्चैव श्रोतुमिच्छामि तानहम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
सूत उवाच ।
स्वायम्भुवो मनुश्चैव ततः स्वारोचिषस्तथा ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
एते च मनवः षट् ते सम्प्रोक्ता मुनिपुङ्गव ।
वैवस्वतो मुनिश्रेष्ठ साम्प्रतं मनुरुच्यते ॥ ३॥
सावर्णिश्च मनुश्चैव ततो रौच्यस्तथा परः ।
तथैव ब्रह्मसावर्णिश्चत्वारो मनवस्तथा ॥ ४॥
तथैव धर्मसावर्णी रुद्रसावर्णिरेव च ।
देवसावर्णिराख्यात इन्द्रसावर्णिरेव च ॥ ५॥
अतीता वर्तमानाश्च तथैवानागताश्च ये ।
कीर्तिता मनवश्चापि मयैवैते यथा श्रुताः ॥ ६॥
मुने चतुर्दशैतानि त्रिकालानुगतानि ते ।
प्रोक्तानि निर्मितः कल्पो युगसाहस्रपर्ययः ॥ ७॥
ऋषींस्तेषां प्रवक्ष्यामि पुत्त्रान् देवगणांस्तथा ।
शृणु शौनक सुप्रीत्या क्रमशस्तान्यशस्विनः ॥ ८॥
मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः ।
पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥ ९॥
उत्तरस्यां दिशि तथा मुने सप्तर्षयस्तथा ।
यामा नाम तथा देवा आसन्स्वायम्भुवेऽन्तरे ॥ ५.३४.१०॥
आग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः ।
ज्योतिष्मान्धृतिमान्हव्यः सवनः शुभ्र एव च ॥ ११॥
स्वायम्भुवस्य पुत्रास्ते मनोर्दश महात्मनः ।
कीर्तिता मुनिशार्दूल तत्रेन्द्रो यज्ञ उच्यते ॥ १२॥
प्रथमं कथितं तात दिव्यं मन्वतरं तथा ।
द्वितीयं ते प्रवक्ष्यामि तन्निबोध यथातथम् ॥ १३॥
ऊर्जस्तम्भः परस्तम्भ ऋषभो वसुमांस्तथा ।
ज्योतिष्मान् द्युतिमांश्चैव रोचिष्मान् सप्तमस्तथा ॥ १४॥
एते महर्षयो ज्ञेयास्तत्रेन्द्रो रोचनस्तथा ।
देवाश्च तुषिता नाम स्मृताः स्वारोचिषेंऽतरे ॥ १५॥
हरिघ्नः सुकृतिर्ज्योतिरयोमूर्तिरयस्मयः ।
प्रथितश्च मनस्युश्च नभः सूर्यस्तथैव च ॥ १६॥
स्वारोचिषस्य पुत्रास्ते मनोर्दश महात्मनः ।
कीर्तिता मुनिशार्दूल महावीर्यपराक्रमाः ॥ १७॥
द्वितीयमेतत्कथितं मुने मन्वन्तरं मया ।
तृतीयं तव वक्ष्यामि तन्निबोध यथातथम् ॥ १८॥
वसिष्ठपुत्राः सप्तासन्वासिष्ठा इति विश्रुताः ।
हिरण्यगर्भस्य सुता ऊर्जा नाम महौजसः ॥ १९॥
ऋषयोऽत्र समाख्याताः कीर्त्यमानान्निबोध मे ।
औत्तमेया ऋषिश्रेष्ठ दश पुत्रा मनोः स्मृताः ॥ ५.३४.२०॥
इष ऊर्जित ऊर्जश्च मधुर्माधव एव च ।
शुचिः शुक्रवहश्चैव नभसो नभ एव च ॥ २१॥
ऋषभस्तत्र देवाश्च सत्यवेदश्रुतादयः ।
तत्रेन्द्रः सत्यजिन्नाम त्रैलोक्याधिपतिर्मुने ॥ २२॥
तृतीयमेतत्परमं मन्वतरमुदाहृतम् ।
मन्वतरं चतुर्थं ते कथयामि मुने शृणु ॥ २३॥
गार्ग्यः पृथुस्तथा वाग्मी जयो धाता कपीनकः ।
कपीवान् सप्त ऋषयः सत्या देवगणास्तथा ॥ २४॥
तत्रेन्द्रस्त्रिशिखो ज्ञेयो मनुपुत्रान्मुने शृणु ।
द्यूतिपोतः सौतपस्यस्तपः शूलश्च तापनः ॥ २५॥
तपोरतिरकल्माषो धन्वी खड्गी महानृषिः ।
तामसस्य स्मृता एते दश पुत्रा महाव्रताः ॥ २६॥
तामसस्यान्तरं चैव मनोर्मे कथितं तव ।
चतुर्थं पञ्चमं तात शृणु मन्वन्तरं परम् ॥ २७॥