Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 1

५.३३ ॥

श्रीगणेशाय नमः ॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 1

५.३३. त्रयस्त्रिंशत्तमोऽध्यायः ।

कश्यपवंशवर्णनम् २ ।

सूत उवाच ।

एष मन्वन्तरे तात सर्गः स्वारोचिषे स्मृतः ।

वैवस्वते तु महति वारुणे वित ते क्रतौ ॥ १॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 2

जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ।

पूर्वं यानथ ब्रह्मर्षीनुत्पन्नान् सप्त मानसान् ॥ २॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 3

पुत्रान्वै कल्पयामास स्वयमेव पितामहः ।

तेषां विरोधो देवानां दानवानां महाॠषे ॥ ३॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 4

दितिर्विनष्टपुत्रा तु कश्यपं समुपस्थिता ।

स कश्यपः प्रसन्नात्मा सम्गयगाराधितस्तया ॥ ४॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 5

वरेणच्छन्दयामास सा च वव्रे वरं तदा ।

पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ॥ ५॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 6

स तस्यै च वरं प्रादात्प्रार्थितं सुमहातपाः ।

ब्रह्मचर्य्यादिनियमं प्राह चैव शतं समाः ॥ ६॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 7

धारयामास गर्भं तु शुचिः सा वरवर्णिनी ।

ब्रह्मचर्य्यादिनियमं दितिर्दध्रे तथैव वै ॥ ७॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 8

ततस्त्वाधाय सो दित्यां गर्भं तं शंसितव्रतः ।

जगाम कश्यपस्तप्तुं तपः संहृष्टमानसः ॥ ८॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 9

तस्याश्चैवान्तरं प्रेप्सुः सोऽभवत्पाकशासनः ।

ऊनवर्षे शते चास्या ददर्शान्तरमेव सः ॥ ९॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 10

अकृत्वा पादयोः शौचं दितिरर्वाक्षिरास्तदा ।

निद्रामाहारयामास भाविनोऽर्थस्य गौरवात् ॥ ५.३३.१०॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 11

एतस्मिन्नन्तरे शक्रस्तस्याः कुक्षिं प्रविश्य सः ।

वज्रपाणिस्तु तं गर्भं सप्तधा हि न्यकृन्तत ॥ ११॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 12

स पाट्यमानो गर्भोऽथ वज्रेण प्ररुरोद ह ।

रुदन्तं सप्तधैकैकं मा रोदीरिति तान्पुनः ।

चकर्त वज्रपाणिस्तान्नेव मम्रुस्तथापि ते ॥ १२॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 13

ते तमूचुः पाट्यमानाः सर्वे प्राञ्जलयो मुने ।

नो जिघांससि किं शक्र भ्रातरो मरुतस्तव ॥ १३॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 14

इन्द्रेण स्वीकृतास्ते हि भ्रातृत्वे सर्व एव च ।

तत्यजुर्द्दैत्यभावं ते विप्रर्षे शङ्करेच्छया ॥ १४॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 15

मरुतो नाम ते देवा बभूवुः सुमहाबलाः ।

खगा एकोनपञ्चाशत्सहाया वज्रपाणिनः ॥ १५॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 16

तेषामेव प्रवृद्धानां हरिः प्रादात्प्रजापतिः ।

क्रमशस्तानि राज्यानि पृथुपूर्वं श‍ृणुष्व तत् ॥ १६॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 17

अरिष्टः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः ।

पर्जन्यस्तु धनाध्यक्षस्तस्य सर्वमिदं जगत् ॥ १७॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 18

भूतसर्गमिमं सम्यगवोचं ते महामुने ।

विभागं श‍ृणु राज्यानां क्रमशस्तं ब्रुवेऽधुना ॥ १८॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 19

अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः ।

ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ १९॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 20

द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा ।

यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥ ५.३३.२०॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 21

अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम् ।

आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥ २१॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 22

प्रजापतीनां दक्षं तु मरुतामथ वासवम् ।

दैत्यानां दानवानां च प्रह्लादममितौजसम् ॥ २२॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 23

वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् ।

मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम् ॥ २३॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 24

यक्षाणां राक्षसानां च पार्थिवानां तथैव च ।

सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ॥ २४॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 25

शैलानां हिमवन्तं च नदीनामथ सागरम् ।

मृगाणामथ शार्दूलं गोवृषं तु गवामपि ॥ २५॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 26

वनस्पतीनां वृक्षाणां वटं राज्येऽभ्यषेचयत् ।

इति दत्तं प्रजेशेन राज्यं सर्वत्र वै क्रमात् ॥ २६॥

Shiva Purana

५ उमासंहिता, अध्याय 26: कश्यपवंशवर्णनं, Verse 27

पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः ।

स्थापयामास सर्वात्मा राज्ये विश्वपतिर्विभुः ॥ २७॥