५ उमासंहिता, अध्याय 24: सर्गवर्णनं, Verse 1
५.३० ॥
श्रीगणेशाय नमः ॥
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.३० ॥
श्रीगणेशाय नमः ॥
५.३०. त्रिंशोऽध्यायः ।
सर्गवर्णनम् १ ।
सूत उवाच ।
संसृष्टासु प्रजास्वेव आपवोऽथ प्रजापतिः ।
लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ।
धर्मेणैव महात्मा स शतरूपाप्यजायत ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
सा तु वर्षशतं तप्त्वा तपः परमदुश्चरम् ।
भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥ ३॥
स वै स्वायम्भुवो जज्ञे पुरुषो मनुरुच्यते ।
तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ॥ ४॥
वैराजात्पुरुषाद्वीरा शतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ वीरकायामजायताम् ॥ ५॥
काम्या नाम महाभागा कर्दमस्य प्रजापतेः ।
काम्यापुत्रास्त्रयस्त्वासन्संराट्साक्षिरविट्प्रभुः ॥ ६॥
उत्तानपादोऽजनयत्पुत्रान् शक्रसमान् प्रभुः ।
ध्रुवं च तनयं दिव्यमात्मानन्दसुवर्चसम् ॥ ७॥
धर्मस्य कन्या सुश्रोणी सुनीतिर्नाम विश्रुता ।
उत्पन्ना चापि धर्मेण ध्रुवस्य जननी तथा ॥ ८॥
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि कानने ।
तपस्तेपे स बालस्तु प्रार्थयन्स्थानमव्ययम् ॥ ९॥
तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः ।
अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ॥ ५.३०.१०॥
तस्मात् पुष्टिश्च धान्यश्च ध्रुवात्पुत्रौ व्यजायताम् ।
पुष्टिरेवं समुत्थायाः पञ्चपुत्रानकल्मषान् ॥ ११॥
रिपुं रिपुञ्जयं विप्रं वृकलं वृषतेजसम् ।
रिपोरेवं च महिषी चाक्षुषं सर्वतोदिशम् ॥ १२॥
अजीजनत्पुष्करिण्यां वरुणं चाक्षुषो मनुः ।
मनोरजायन्त दश नड्वलायां महौजसः ॥ १३॥
कन्यायां हि मुनिश्रेष्ठ वैराजस्य प्रजापतेः ।
पुरुर्मासः शतद्युम्नस्तपस्वी सत्यवित्कविः ॥ १४॥
अग्निष्टोमोऽतिरात्रश्चातिमन्युः सुयशा दश ।
पूरोरजनयत्पुत्रान् षडाग्नेयी महाप्रभान् ॥ १५॥
अङ्गं सुमनसं ख्यातिं सृतिमङ्गिरसं गयम् ।
अङ्गात्सुनीथा भार्या वै वेनमेकमसूयत ॥ १६॥
अपचारेण वेनस्य कोपस्तेषां महानभूत् ।
हुङ्कारेणैव तं जघ्नुर्मुनयो धर्मतत्पराः ॥ १७॥
अथ प्रजार्थमृषयः प्रार्थिताश्च सुनीथया ।
सारस्वतास्तदा तस्य ममन्थुर्दक्षिणं करम् ॥ १८॥
वेनस्य पाणौ मथिते सम्बभूव ततः पृथुः ।
स धन्वी कवची जातस्तेजसादित्यसन्निभः ॥ १९॥
अवतारः स विष्णोर्हि प्रजापालनहेतवे ।
धर्मसंरक्षणार्थाय दुष्टानां दण्डहेतवे ॥ ५.३०.२०॥
पृथुर्वैन्यस्तदा पृथ्वीमरक्षत्क्षत्रपूर्वजः ।
राजसूयाभिषिक्तानामाद्यः स वसुधापतिः ॥ २१॥
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ।
तेनेयं गौर्मुनिश्रेष्ठ दुग्धा सर्वहिताय वै ॥ २२॥
सर्वेषां वृत्तिदश्चाभूद्देवर्षिसुररक्षसाम् ।
मनुष्याणां विशेषेण शतयज्ञकरो नृपः ॥ २३॥
पृथोः पुत्रौ तु जज्ञाते धर्मज्ञौ भुवि पार्थिवौ ।
विजिताश्वश्च हर्यक्षो महावीरौ सुविश्रुतौ ॥ २४॥
शिखण्डिनी चाजनयत्पुत्रं प्राचीनबर्हिषम् ।
प्राचीनाग्राः कुशास्तस्य पृथिवीतलचारिणः ॥ २५॥
समुद्रतनया तेन धर्मतः सुविवाहिता ।
रेजेऽधिकतरं राजा कृतदारो महाप्रभुः ॥ २६॥
समुद्रतनयायास्तु दश प्राचीनबर्हिषः ।
बभूवुस्तनया दिव्या बहुयज्ञकरस्य वै ॥ २७॥