५ उमासंहिता, अध्याय 23: आदिसर्गवर्णनं, Verse 1
५.२८ ॥
श्रीगणेशाय नमः ॥
Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.२८ ॥
श्रीगणेशाय नमः ॥
५.२८. अष्टाविंशोऽध्यायः ।
छायापुरुषदर्शनवर्णनम् ।
देव्युवाच ।
देवदेव महादेव कथितं कालवञ्चनम् ।
शब्दब्रह्मस्वरूपं च योगलक्षणमुत्तमम् ॥ १॥
५.२९. एकोनत्रिंशोऽध्यायः ।
आदिसर्गवर्णनम् ।
शौनक उवाच ।
श्रुतं मे महदाख्यानं यत्त्वया परिकीर्तितम् ।
सनत्कुमारकालेयसंवादं परमार्थदम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
कथितं ते समासेन छायिकं ज्ञानमुत्तमम् ।
विस्तरेण समाख्याहि योगिनां हितकाम्यया ॥ २॥
अतोऽहं श्रोतुमिच्छामि यथा सर्गस्तु ब्रह्मणः ।
समुत्पन्नं तु मे ब्रूहि यथा व्यासाच्च ते श्रुतम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
शङ्कर उवाच ।
शृणु देवि प्रवक्ष्यामि छायापुरुषलक्षणम् ।
यज्ज्ञात्वा पुरुषः सम्यक्सर्वपापैः प्रमुच्यते ॥ ३॥
सूत उवाच ।
मुने शृणु कथां दिव्यां सर्वपापप्रणाशिनीम् ।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतविस्तराम् ॥ ३॥
सूर्यं हि पृष्ठतः कृत्वा सोमं वा वरवर्णिनि ।
शुक्लाम्बरधरः स्त्रग्वी गन्धधूपादिवासितः ॥ ४॥
यश्चैनां पाठयेत्तां च शृणुयाद्वाप्यभीक्ष्णशः ।
स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥ ४॥
संस्मरेन्मे महामन्त्रं सर्वकामफलप्रदम् ।
नवात्मकं पिण्डभूतं स्वां छायां सन्निरीक्षयेत् ॥ ५॥
प्रधानं पुरुषो यत्तन्नित्यं सदसदात्मकम् ।
प्रधानपुरुषो भूत्वा निर्ममे लोकभावनः ॥ ५॥
दृष्ट्वा तां पुनराकाशे श्वेतवर्णस्वरूपिणीम् ।
स पश्यत्येकभावस्तु शिवं परमकारणम् ॥ ६॥
स्रष्टारं सर्वभूतानां नारायणपरायणम् ।
तं वै विद्धि मुनिश्रेष्ठ ब्रह्माणममितौजसम् ॥ ६॥
ब्रह्मप्राप्तिर्भवेत्तस्य कालविद्भिरितीरितम् ।
ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ॥ ७॥
यस्मादकल्पयत्कल्पाः समग्राः शुचयो यतः ।
भवन्ति मुनिशार्दूल नमस्तस्मै स्वयम्भुवे ॥ ७॥
शिरोहीनं यदा पश्येत्षड्भिर्मासैर्भवेत्क्षयः ।
समस्तं वाङ्मयं तस्य योगिनस्तु यथा तथा ॥ ८॥
तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च ।
नमस्कृत्य प्रवक्ष्यामि भूयः सर्गमनुत्तमम् ॥ ८॥
शुक्ले धर्मं विजानीयात्कृष्णे पापं विनिर्दिशेत् ।
रक्ते बन्धं विजानीयात्पीते विद्विषमादिशेत् ॥ ९॥
ब्रह्मा स्रष्टा हरिः पाता संहर्ता च महेश्वरः ।
तस्य सर्गस्य नान्योऽस्ति काले काले तथा गते ॥ ९॥
विवाहो बन्धुनाशः स्याद्द्वितुण्डे चैव क्षुद्भयम् ।
विकटौ नश्यते भार्या विजङ्घे धनमेव हि ॥ ५.२८.१०॥
पादाभावे विदेशः स्यादित्येतत्कथितं मया ।
तद्विचार्यं प्रयत्त्नेन पुरुषेण महेश्वरि ॥ ११॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ ११॥
सम्यक्तं पुरुषं दृष्ट्वा सन्निवेश्यात्मनात्मनि ।
जपेन्नवात्मकं मन्त्रं हृदयं मे महेश्वरि ॥ १२॥
हिरण्यवर्णमभवत्तदण्डमुदकेशयम् ।
तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति विश्रुतः ॥ १२॥
वत्सरे विगते मन्त्री तन्नास्ति यन्न साधयेत् ।
अणिमादिगुणानष्टौ खेचरत्वं प्रपद्यते ॥ १३॥
हिरण्यगर्भो भगवानुषित्वा परिवत्सरम् ।
तदण्डमकरोद् द्वैधं दिवं भूमिं च निर्ममे ॥ १३॥
पुनरन्यत्प्रवक्ष्यामि शक्तिं ज्ञातुं दुरासदाम् ।
प्रत्यक्षं दृश्यते लोके ज्ञानिनामग्रतः स्थितम् ॥ १४॥
अधोऽधोर्ध्वं प्रयुक्तानि भुवनानि चतुर्द्दश ।
तयोः शकलयोर्मध्य आकाशममृजत्प्रभुः ॥ १४॥