५ उमासंहिता, अध्याय 22: कालवञ्चनशिवप्राप्तिवर्णनं, Verse 1
५.२७ ॥
श्रीगणेशाय नमः ॥
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.२७ ॥
श्रीगणेशाय नमः ॥
५.२७. सप्तविंशोऽध्यायः ।
कालवञ्चनशिवप्राप्तिवर्णनम् ।
देव्युवाच ।
वायोस्तु पदमाप्नोति योगाकाशसमुद्भवम् ।
तन्मे सर्वं समाचक्ष्व प्रसन्नस्त्वं यदि प्रभो ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
शङ्कर उवाच ।
पुरा मे सर्वमाख्यातं योगिनां हितकाम्यया ।
कालं जिगाय यः सम्यग्वायोर्लिङ्गं यथा भवेत् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तेन ज्ञात्वा दिनं योगी प्राणायामपरः स्थितः ।
स जयत्यागतं कालं मासार्धेनैव सुन्दरि ॥ ३॥
हृत्स्थो वायुः सदा वह्नेर्दीपकः सोऽनुपावकः ।
स बाह्याभ्यन्तरो व्यापी वायुः सर्वगतो महान् ॥ ४॥
ज्ञानविज्ञानमुत्साहः सर्वं वायोः प्रवर्तते ।
येनेह निर्जितो वायुस्तेन सर्वमिदं जगत् ॥ ५॥
धारणायां सदा तिष्ठेज्जरामृत्युजिघांसया ।
योगी योगरतः सम्यग्धारणाध्यानतत्परः ॥ ६॥
लोहकारो यथा भस्त्रामापूर्यमुखतो मुने ।
साधयेद्वायुना कर्म तद्वद्योगी समभ्यसेत् ॥ ७॥
देवः सहस्रको नेत्रपादहस्तसहस्रकः ।
पृथवीं हि सर्वमावृत्य सोऽग्रे तिष्ठेद्दशाङ्गुलम् ॥ ८॥
गायत्रीं शिरसा सार्द्धं जपेद् व्याहृतिपूर्विकाम् ।
त्रिवारमायतप्राणाः प्राणायामः स उच्यते ॥ ९॥
गतागता निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते योगध्यानपरायणाः ॥ ५.२७.१०॥
शतमब्दं तपस्तप्त्वा कुशाग्रापः पिबेद् द्विजः ।
तदाप्नोति फलं देवि प्राणानां धारणैकया ॥ ११॥
यो द्विजः कल्यमुत्थाय प्राणायामैकमाचरेत् ।
सर्वं पापं निहन्त्याशु ब्रह्मलोकं स गच्छति ॥ १२॥
योऽतन्द्रितः सदैकान्ते प्रणायामपरो भवेत् ।
जरां मृत्युं विनिर्जित्य वायुगः खेचरीति सः ॥ १३॥
सिद्धस्य भजते रूपं कान्तिं मेधां पराक्रमम् ।
शौर्यं वायुसमो गत्या सौख्यं श्लाघ्यं परं सुखम् ॥ १४॥
एतत्कथितमशेषं वायोः सिद्धिं यदाप्नुते योगी ।
यत्तेजसोऽपि लभते तत्ते वक्ष्यामि देवेशि ॥ १५॥
स्थित्वा सुखासने स्वे शेते जनवचनहीने तु ।
शशिरवियुतया तेजः प्रकाशयन्मध्यमे देशे ॥ १६॥
वह्निगतं भ्रूमध्ये प्रकाशते यस्त्वतन्द्रितो योगी ।
दीपैर्हीनध्वान्ते पश्येन्न्यूनमसंशयं लोके ॥ १७॥
नेत्रे करशाखाभिः किञ्चित्सम्पीड्य यत्नतो योगी ।
तारं पश्यन्ध्यायेन्मुहूर्तमर्द्धं तमे९कभावोऽपि ॥ १८॥
ततस्तु तमसि ध्यायन्पश्यति ज्योतिरैश्वरम् ।
श्वेतं रक्तं तथा पीतं कृष्णमिन्द्रधनुष्प्रभम् ॥ १९॥
भुवोर्मध्ये ललाटस्थं बालार्कसमतेजसम् ।
तं विदित्वा तु कामाङ्गी क्रीडते कामरूपधृक् ॥ ५.२७.२०॥
कारणप्रशमावेशं परकायप्रवेशनम् ।
अणिमादिगुणावाप्तिर्मनसा चावलोकनम् ॥ २१॥
दूरश्रवणविज्ञानमदृश्यं बहुरूपधृक् ।
सतताभ्यासयोगेन खेचरत्वं प्रजायते ॥ २२॥
श्रुताध्ययनसम्पन्ना नानाशास्त्रविशारदाः ।
ज्ञानिनोऽपि विमुह्यन्ते पूर्वकर्मवशानुगाः ॥ २३॥
पश्यन्तोऽपि न पश्यन्ति शृण्वाना बधिरा यथा ।
यथान्धा मानुषा लोके मूढाः पापविमोहिताः ॥ २४॥
वेदाहमेतं पुरुषं महान्त- मादित्यवर्णं तमसः परस्तात् ।
तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते प्रायणाय ॥ २५॥
एष ते कथितः सम्यक्तेजसो विधिरुत्तमः ।
कालं जित्वा यथा योगी चामरत्वं प्रपद्यते ॥ २६॥
पुनः परतरं वक्ष्ये यथा मृत्युर्न जायते ।
सावधानतया देवि शृणुष्वैकाग्रमानसा ॥ २७॥