५ उमासंहिता, अध्याय 21: कालवञ्चनवर्णनं, Verse 1
५.२६ ॥
श्रीगणेशाय नमः ॥
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.२६ ॥
श्रीगणेशाय नमः ॥
५.२६. षड्विंशोऽध्यायः ।
कालवञ्चनवर्णनम् ।
देव्युवाच ।
कथितं तु त्वया देव कालज्ञानं यथार्थतः ।
कालस्य वञ्चनं ब्रूहि यथा तत्त्वेन योगिनः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
कालस्तु सन्निकृष्टो हि वर्तते सर्वजन्तुषु ।
यथा चास्य न मृत्युश्च वञ्चते कालमागतम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तथा कथय मे देव प्रीतिं कृत्वा ममोपरि ।
योगिनां च हिताय त्वं ब्रूहि सर्वसुखप्रद ॥ ३॥
शङ्कर उवाच ।
शृणु देवि प्रवक्ष्यामि पृष्टोऽहं यत्त्वया शिवे ।
समासेन च सर्वेषां मानुषाणां हितार्थतः ॥ ४॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
एतेषां हि समायोगः शरीरं पाञ्चभौतिकम् ॥ ५॥
आकाशस्तु ततो व्यापी सर्वेषां सर्वगः स्थितः ।
आकाशे तु विलीयन्ते सम्भवन्ति पुनस्ततः ॥ ६॥
वियोगे तु सदा कस्य स्वं धाम प्रतिपेदिरे ।
तस्या न स्थिरता चास्ति सन्निपातस्य सुन्दरि ॥ ७॥
ज्ञानिनोऽपि तथा तत्र तपोमन्त्रबलादपि ।
ते सर्वे सुविजानन्ति सर्वमेतन्न संशयः ॥ ८॥
देव्युवाच ।
खं तेन यन्नश्यति घोररूपः कालः करालस्त्रिदिवैकनाथः ।
दग्धस्त्वया त्वं पुनरेव तुष्टः स्तोत्रैः स्तुतः स्वां प्रकृतिं स लेभे ॥ ९॥
त्वया स चोक्तः कथया जनाना- मदृष्टरूपः प्रचरिष्यसीति ।
दृष्टस्त्वया तत्र महाप्रभावः प्रभोर्वरात्ते पुनरुत्थितश्च ॥ ५.२६.१०॥
तदद्य भोः काल इहास्थि किञ्चित् निहन्यते येन वदस्व तन्मे ।
त्वं योगिवर्यः प्रभुरात्मतन्त्रः परोपकारात्ततनुर्महेश ॥ ११॥
शङ्कर उवाच ।
न हन्यते देववरैस्तु दैत्यैः सयक्षरक्षोरगमानुषैश्च ।
ये योगिनो ध्यानपराः सदेहा भवन्ति ते घ्नन्ति सुखेन कालम् ॥ १२॥
सनत्कुमार उवाच ।
एतच्छ्रुत्वा त्रिभुवनगुरोः प्राह गौरी विहस्य सत्यं त्वं मे वद कथमसौ हन्यते येन कालः ।
शम्भुस्तामाह सद्यो हिमकरवदने योगिनो ये क्षिपन्ति कालव्यालं सकलमनघास्तच्छृणुष्वैकचित्ताः ॥ १३॥
शङ्कर उवाच ।
पञ्चभूतात्मको देहः सदा युक्तस्तु तद्गुणैः ।
उत्पाद्यते वरारोहे तद्विलीनो हि पार्थिवः ॥ १४॥
आकाशाज्जायते वायुर्वायोस्तेजश्च जायते ।
तेजसोऽम्बु विनिर्द्दिष्टं तस्माद्धि पृथिवी भवेत् ॥ १५॥
पृथिव्यादीनि भूतानि गच्छन्ति क्रमशः परम् ।
धरा पञ्चगुणा प्रोक्ता ह्यापश्चैव चतुर्गुणाः ॥ १६॥
त्रिगुणं च तथा तेजो वायुर्द्विगुण एव च ।
शब्दैकगुणमाकाशं पृथिव्यादिषु कीर्तितम् ॥ १७॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
विजहाति गुणं स्वं स्वं तदा भूतं विपद्यते ॥ १८॥
तदा गुणं विगृह्णाति प्रादुर्भूतं तदुच्यते ।
एवं जानीहि देवेशि पञ्चभूतानि तत्त्वतः ॥ १९॥
तस्माद्धि योगिना नित्यं स्वस्वकालेंऽशजा गुणाः ।
चिन्तनीयाः प्रयत्नेन देवि कालजिगीषुणा ॥ ५.२६.२०॥
देव्युवाच ।
कथं जेजीयते कालो योगिभिर्योगवित्प्रभो ।
ध्यानेन चाथ मन्त्रेण तत्सर्वं कथयस्व मे ॥ २१॥
शङ्कर उवाच ।
शृणु देवि प्रवक्ष्यामि योगिनां हितकाम्यया ।
परज्ञानप्रकथनं न देयं यस्य कस्यचित् ॥ २२॥
श्रद्दधानाय दातव्यं भक्तियुक्ताय धीमते ।
अनास्तिकाय शुद्धाय धर्मनित्याय भामिनि ॥ २३॥
सुश्वासेन सुशय्यायां योगं युञ्जीत योगवित् ।
दीपं विनान्धकारे तु प्रजाः सुप्तेषु धारयेत् ॥ २४॥
तर्जन्या पिहितौ कर्णौ पीडयित्वा मुहूर्त्तकम् ।
तस्मात्संश्रूयते शब्दस्तुदन्वह्निसमुद्भवः ॥ २५॥
सन्ध्यातो भुक्तमेवं हि चावसन्नं क्षणादपि ।
सर्वरोगान्निहत्याशु ज्वरोपद्रवकान्बहून् ॥ २६॥
यश्चोपलक्षयेन्नित्यमाकारं घटिकाद्वयम् ।
जित्वा मृत्युं तथा कामं स्वेच्छया पर्यटेदिह ॥ २७॥