Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं

Containing 80 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 1

२.१.४. चतुर्थोऽध्यायः ।

नारदय विष्णूपदेशवर्णनम् ।

ऋषय ऊचुः ।

सूत सूत महाप्राज्ञ वर्णिता ह्यद्भुता कथा ।

धन्या तु शाम्भवी माया तदधीनं चराचरम् ॥ १॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 2

गतयोर्गणयोः शम्भोः स्वयमात्मेच्छया विभोः ।

किञ्चकार मुनिः क्रुद्धो नारदः स्मरविह्वलः ॥ २॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 3

सूत उवाच ।

विमोहितो मुनिर्दत्त्वा तयोः शापं यथोचितम् ।

जले मुखं निरीक्ष्याथ स्वरूपं गिरिशेच्छया ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 4

॥

द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 4

शिवेच्छया न प्रबुद्धः स्मृत्वा हरिकृतच्छलम् ।

क्रोधं दुर्विषहं कृत्वा विष्णुलोकं जगाम ह ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 5

उवाच वचनं क्रुद्धः समिद्ध इव पावकः ।

दुरुक्तिगर्भितं व्यङ्गं नष्टज्ञानः शिवेच्छया ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 6

नारद उवाच ।

हे हरे त्वं महादुष्टः कपटी विश्वमोहनः ।

परोत्साहं न सहसे मायावी मलिनाशयः ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 7

मोहिनीरूपमादाय कपटं कृतवान्पुरा ।

असुरेभ्योऽपाययस्त्वं वारुणीममृतं न हि ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 8

चेत्पिबेन्न विषं रुद्रो दयां कृत्वा महेश्वरः ।

भवेन्नष्टाखिला माया तव व्याजरते हरे ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 9

गतिः सकपटा तेऽतिप्रिया विष्णो विशेषतः ।

साधुस्वभावो न भवान्स्वतन्त्रः प्रभुणा कृतः ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 10

कृतं समुचितं नैव शिवेन परमात्मना ।

तत्प्रभावबलं ध्यात्वा स्वतन्त्रकृतिकारकः ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 11

त्वद्गतिं सुसमाज्ञाय पश्चात्तापमवाप सः ।

विप्रं सर्वोपरि प्राह स्वोक्तवेदप्रमाणकृत् ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 12

तज्ज्ञात्वाहं हरे त्वाद्य शिक्षयिष्यामि तद्बलात् ।

यथा न कुर्याः कुत्रापीदृशं कर्म कदाचन ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 13

अद्यापि निर्भयस्त्वं हि सङ्गं नापस्तरस्विना ।

इदानीं लप्स्यसे विष्णो फलं स्वकृतकर्मणः ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 14

इत्थमुक्त्वा हरिं सोऽथ मुनिर्मायाविमोहितः ।

शशाप क्रोधनिर्विण्णो ब्रह्मतेजः प्रदर्शयन् ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 15

स्त्रीकृते व्याकुलं विष्णो मामकार्षीर्विमोहकः ।

अन्वकार्षीः स्वरूपेण येन कापट्यकार्यकृत् ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 16

तद्रूपेण मनुष्यस्त्वं भव तद्दुःखभुग्घरे ।

यन्मुखं कृतवान्मे त्वं ते भवन्तु सहायिनः ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 17

त्वं स्त्रीवियोगजं दुःखं लभस्व परदुःखदः ।

मनुष्यगतिकः प्रायो भवाज्ञानविमोहितः ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 18

इति शप्त्वा हरिं मोहान्नारदोऽज्ञानमोहितः ।

विष्णुर्जग्राह तं शापं प्रशंसन् शाम्भवीमजाम् ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 19

अथ शम्भुर्महालीलो निश्चकर्ष विमोहिनीम ।

स्वमायां मोहितो ज्ञानी नारदोऽप्यभवद्यया ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 20

अन्तर्हितायां मायायां पूर्ववन्मतिमानभूत् ।

नारदो विस्मितमनाः प्राप्तबोधो निराकुलः ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 21

पश्चात्तापमवाप्याति निनिन्द स्वं मुहुर्मुहुः ।

प्रशशंस तदा मायां शाम्भवीं ज्ञानिमोहिनीम् ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 22

अथ ज्ञात्वा मुनिःसर्वं मायाविभ्रममात्मनः ।

अपतत्पादयोर्विष्णोर्नारदो वैष्णवोत्तमः ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 23

हर्युपस्थापितः प्राह वचनं नष्टदुर्मतिः ।

मया दुरुक्तयः प्रोक्ता मोहितेन कुबुद्धिना ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 24

दत्तः शापोऽपि ते नाथ वितथं कुरु तं प्रभो ।

महत्पापमकार्षं हि यास्यामि निरयं ध्रुवम् ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 25

कमुपायं हरे कुर्यां दासोऽहं ते तमादिश ।

येन पापकुलं नश्येन्निरयो न भवेन्मम ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 4: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदाय विष्णूपदेशवर्णनं, Verse 26

इत्युक्त्वा स पुनर्विष्णोः पादयोर्मुनिसत्तमः ।

पपात सुमतिर्भक्त्या पश्चात्तापमुपागतः ॥ २६॥