५ उमासंहिता, अध्याय 20: कालज्ञानवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 78 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.२५. पञ्चविंशोऽध्यायः ।
कालज्ञानवर्णनम् ।
व्यास उवाच ।
सनत्कुमार सर्वज्ञ त्वत्सकाशान्मया मुने ।
स्त्रीस्वभावः श्रुतः प्रीत्या कालज्ञानं वदस्व मे ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
सनत्कुमार उवाच ।
इदमेव पुरापृच्छत् पार्वती परमेश्वरम् ।
श्रुत्वा नानाकथां दिव्यां प्रसन्ना सुप्रणम्य तम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
पार्वत्युवाच ।
भगवंस्त्वत्प्रसादेन ज्ञातं मे सकलं मतम् ।
यथार्चनं तु ते देव यैर्मन्त्रैश्च यथाविधि ॥ ३॥
अद्यापि संशयस्त्वेकः कालचक्रं प्रति प्रभो ।
मृत्युचिह्नं यथा देव किं प्रमाणं यथायुषः ॥ ४॥
सर्वं कथय मे नाथ यद्यहं तव वल्लभा ।
इति पृष्टस्तया देव्या प्रत्युवाच महेश्वरः ॥ ५॥
ईश्वर उवाच ।
सत्यं ते कथयिष्यामि शास्त्रं सर्वोत्तमं प्रिये ।
येन शास्त्रेण देवेशि नरैः कालः प्रबुध्यते ॥ ६॥
अहः पक्षं तथा मासमृतुं चायनवत्सरौ ।
स्थूलसूक्ष्मगतैश्चिह्नैर्बहिरन्तर्गतैस्तथा ॥ ७॥
तत्तेऽहं सम्प्रवक्ष्यामि शृणु तत्त्वेन सुन्दरि ।
लोकानामुपकारार्थं वैराग्यार्थमुमेऽधुना ॥ ८॥
अकस्मात्पाण्डुरं देहमूर्ध्वरागं समन्ततः ।
तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये ॥ ९॥
मुखं कर्णौ तथा चक्षुर्जिह्वास्तम्भो यदा भवेत् ।
तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये ॥ १०॥
रौरवानुगतं भद्रे ध्वनिं नाकर्णयेद् द्रुतम् ।
षण्मासाभ्यन्तरे मृत्युर्ज्ञातव्यः कालवेदिभिः ॥ ११॥
रविसोमाग्निसंयोगाद्यदोद्योतं न पश्यति ।
कृष्णं सर्वं समस्तं च षण्मासं जीवितं तथा ॥ १२॥
वामहस्तो यदा देवि सप्ताहं स्पन्दते प्रिये ।
जीवितं तु तदा तस्य मासमेकं न संशयः ॥ १३॥
उन्मीलयन्ति गात्राणि तालुकं शुष्यते यदा ।
जीवितं तु तदा तस्य मासमेकं न संशयः ॥ १४॥
नासा तु स्रवते यस्य त्रिदोषे पक्षजीवितम् ।
वक्त्रं कण्ठं च शुष्येत षण्मासान्ते गतायुषः ॥ १५॥
स्थूलजिह्वा भवेद्यस्य द्विजाः क्लिद्यन्ति भामिनि ।
षण्मासाज्जायते मृत्युश्चिह्नैस्तैरुपलक्षयेत् ॥ १६॥
अम्बुतैलघृतस्थं तु दर्पणे वरवर्णिनि ।
न पश्यति यदात्मानं विकृतं पलमेव च ॥ १७॥
षण्मासायुः स विज्ञेयः कालचक्रं विजानता ।
अन्यच्च शृणु देवेशि येन मृत्युर्विबुद्ध्यते ॥ १८॥
शिरोहीनां यदा छायां स्वकीयामुपलक्षयेत् ।
अथवा छायया हीनो मासमेकं न जीवति ॥ १९॥
आङ्गिकानि मयोक्तानि मृत्युचिह्नानि पार्वति ।
बाह्यस्थानि ब्रुवे भद्रे चिह्नानि शृणु साम्प्रतम् ॥ २०॥
रश्मिहीनं यदा देवि भवेत्सोमार्कमण्डलम् ।
दृश्यते पाटलाकारं मासार्धेन विपद्यते ॥ २१॥
अरुन्धतीं महायानमिन्दुं लक्षणवर्जितम् ।
अदृष्टतारको योऽसौ मासमेकं स जीवति ॥ २२॥
दृष्टे ग्रहे च दिङ्मोहः षण्मासाज्जायते ध्रुवम् ।
उतथ्यं न ध्रुवं पश्येद्यदि वा रविमण्डलम् ॥ २३॥
रात्रौ धनुर्यदा पश्येन्मध्याह्ने चोल्कपातनम् ।
वेष्ट्यते गृध्रकाकैश्च षण्मासायुर्न संशयः ॥ २४॥
ऋषयः स्वर्गपन्थाश्च दृश्यन्ते नैव चाम्बरे ।
षण्मासायुर्विजनीयात्पुरुषैः कालवेदिभिः ॥ २५॥
अकस्माद्राहुणा ग्रस्तं सूर्यं वा सोममेव च ।
दिक्चक्रं भ्रान्तवत्पश्येत्षण्मासान्म्रियते स्फुटम् ॥ २६॥
नीलाभिर्मक्षिकाभिश्च ह्यकस्माद् वेष्ट्यते पुमान् ।
मासमेकं हि तस्यायुर्ज्ञातव्यं परमार्थतः ॥ २७॥