५ उमासंहिता, अध्याय 19: स्त्रीस्वभाववर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.२४. चतुर्विंशोऽध्यायः ।
स्त्रीस्वभाववर्णनम् ।
व्यास उवाच ।
कुत्सितं योषिदर्थं यत्सम्प्रोक्तं पञ्चचूडया ।
तन्मे ब्रूहि समासेन यदि तुष्टोऽसि मे मुने ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
सनत्कुमार उवाच ।
स्त्रीणां स्वभावं वक्ष्यामि शृणु विप्र यथातथम् ।
यस्य श्रवणमात्रेण भवेद्वैराग्यमुत्तमम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
स्त्रियो मूलं हि दोषाणां लघुचित्ताः सदा मुने ।
तदासक्तिर्न कर्तव्या मोक्षेप्सुभिरतन्द्रितैः ॥ ३॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादं पुंश्चल्या पञ्चचूडया ॥ ४॥
लोकान् परिचरन् धीमान् देवर्षिर्नारदः पुरा ।
ददर्शाप्सरसं बालां पञ्चचूडामनुत्तमाम् ॥ ५॥
पप्रच्छाप्सरसं सुभ्रूं नारदो मुनिसत्तमः ।
संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे ॥ ६॥
एवमुक्ता तु सा विप्रं प्रत्युवाच वराप्सरा ।
विषये सति वक्ष्यामि समर्थां मन्यसेऽथ माम् ॥ ७॥
नारद उवाच ।
न त्वामविषये भद्रे नियोक्ष्यामि कथञ्चन ।
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं सुमध्यमे ॥ ८॥
सनत्कुमार उवाच ।
एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा ।
प्रत्युवाच मुनीशं तं देवर्षिं मुनिसत्तमम् ॥ ९॥
पञ्चचूडोवाच ।
मुने शृणु न शक्या स्त्री सती वै निन्दितुं स्त्रिया ।
विदितास्ते स्त्रियो याश्च यादृश्यश्च स्वभावतः ॥ १०॥
न मामर्हसि देवर्षे नियोक्तुं प्रश्नमीदृशम् ।
इत्युक्त्वा साभवत्तूष्णीं पञ्चचूडाप्सरोवरा ॥ ११॥
अथ देवर्षिवर्यो हि श्रुत्वा तद्वाक्यमुत्तमम् ।
प्रत्युवाच पुनस्तां वै लोकानां हितकाम्यया ॥ १२॥
नारद उवाच ।
मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते ।
इति जानीहि सत्यं त्वं वदातस्तत्सुमध्यमे ॥ १३॥
सनत्कुमार उवाच ।
इत्युक्ता सा कृतमती रभसा चारुहासिनी ।
स्त्रीदोषान् शाश्वतान्सत्यान् भाषितुं सम्प्रचक्रमे ॥ १४॥
पञ्चचूडोवाच ।
कुलीना नाथवन्त्यश्च रूपवन्त्यश्च योषितः ।
मर्यादाषु न तिष्ठन्ति स दोषः स्त्रीषु नारद ॥ १५॥
न स्त्रीभ्यः किञ्चिदन्यद्वै पापीयस्तरमस्ति हि ।
स्त्रियो मूलं हि पापानां तथा त्वमपि वेत्थ ह ॥ १६॥
समाज्ञातानर्थवतः प्रतिरूपान् यथेप्सितान् ।
पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम् ॥ १७॥
असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो ।
पापीयसो नरान् यद्वै लज्जां त्यक्त्वा भजामहे ॥ १८॥
स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति ।
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥ १९॥
अनर्थित्वान्मनुष्याणां भयात्पतिजनस्य च ।
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥ २०॥
नासां कश्चिदमान्योऽस्ति नासां वयसि निश्चयः ।
सुरूपं वा कुरूपं वा पुमांसमुपभुञ्जते ॥ २१॥
न भयादथ वाक्रोशान्नार्थहेतोः कथञ्चन ।
न ज्ञातिकुलसम्बन्धात् स्त्रियस्तिष्ठन्ति भर्तृषु ॥ २२॥
यौवने वर्तमानानामिष्टाभरणवाससाम् ।
नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः ॥ २३॥
या हि शश्वद् बहुमता रक्ष्यन्ते दयिताः स्त्रियः ।
अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामने ॥ २४॥
पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः ।
स्त्रीणामगम्यो लोकेषु नास्ति कश्चिन्महामुने ॥ २५॥
यदि पुंसां गतिर्ब्रह्मन् कथञ्चिन्नोपपद्यते ।
अप्यन्योऽन्यं प्रवर्तन्ते न च तिष्ठन्ति भर्तृषु ॥ २६॥
अलाभात्पुरुषाणां च भयात्परिजनस्य च ।
वधबन्धभयाच्चैव ता भग्नाशा हि योषितः ॥ २७॥