५ उमासंहिता, अध्याय 18: संसारचिकित्सायां देहाशुचित्वबाल्याद्यवस्थादुःखवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 68 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.२३. त्रयोविंशोऽध्यायः ।
देहाशुचित्वबाल्याद्यवस्थादुःखवर्णनम् ।
सनत्कुमार उवाच ।
शृणु व्यास महाबुद्धे देहस्याशुचितां मुने ।
महत्त्वं च स्वभावस्य समासात्कथयाम्यहम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
शुक्रशोणितसंयोगाद्देहः सञ्जायते यतः ।
नित्यं विण्मूत्रसम्पूर्णस्तेनायमशुचिः स्मृतः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
यथान्तर्विष्ठया पूर्णः शुचिमान्न बहिर्घटः ।
शोध्यमानो हि देहोऽयं तेनायमशुचिस्ततः ॥ ३॥
सम्प्राप्याति पवित्राणि पञ्चगव्यं हवींषि च ।
अशुचित्वं क्षणाद्यान्ति किमन्यदशुचिस्ततः ॥ ४॥
हृद्यान्यप्यन्नपानानि यं प्राप्य सुरभीणि च ।
अशुचित्वं प्रयान्त्याशु किमन्यदशुचिस्ततः ॥ ५॥
हे जनाः किन्न पश्यन्ति यन्निर्याति दिने दिने ।
स्वदेहात्कश्मलं पूतिस्तदाधारः कथं शुचिः ॥ ६॥
देहः सशोध्यमानोऽपि पञ्चगव्यकुशाम्बुभिः ।
घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति ॥ ७॥
स्रोतांसि यस्य सततं प्रभवन्ति गिरेरिव ।
कफमूत्रपुरीषाद्यैः स देहः शुध्यते कथम् ॥ ८॥
सर्वाशुचिनिधानस्य शरीरस्य न विद्यते ।
शुचिरेकः प्रदेशोऽपि विण्मूत्रस्य दृतेरिव ॥ ९॥
सृष्ट्वात्मदेहस्रोतांसि मृत्तोयैः शोध्यते करः ।
तथाप्यशुचिभाण्डस्य न विभ्रश्यति किं करः ॥ १०॥
कायः सुगन्धधूपाद्यैर्यत्नेनापि सुसंस्कृतः ।
न जहाति स्वभावं स श्वपुच्छमिव नामितम् ॥ ११॥
यथा जात्यैव कृष्णोर्थः शुक्लः स्स्यान्नह्युपायतः ।
संशोद्ध्यमानापि तथा भवेन्मूर्तिर्न निर्मला ॥ १२॥
जिघ्रन्नपि स्वदुर्गन्धं पश्यन्नपि स्वकं मलम् ।
न विरज्येत लोकोऽयं पीडयन्नपि नासिकाम् ॥ १३॥
अहो मोहस्य माहात्म्यं येनेदं छादितं जगत् ।
शीघ्रं पश्यन् स्वकं दोषं कायस्य न विरज्यते ॥ १४॥
स्वदेहस्य विगन्धेन न विरज्येत यो नरः ।
विरागकारणं तस्य किमेतदुपदिश्यते ॥ १५॥
सर्वस्यैव जगन्मध्ये देह एवाशुचिर्भवेत् ।
तन्मलावयवस्पर्शाच्छुचिरप्यशुचिर्भवेत् ॥ १६॥
गन्धलेपापनोदार्थ शौचं देहस्य कीर्तितम् ।
द्वयस्यापगमाच्छुद्धिः शुद्धस्पर्शाद्विशुध्यति ॥ १७॥
गङ्गातोयेन सर्वेण मृद्भारैः पर्वतोपमैः ।
आमृत्योराचरेच्छौचं भावदुष्टो न शुध्यति ॥ १८॥
तीर्थस्नानैस्तपोभिर्वा दुष्टात्मा नैव शुध्यति ।
श्वदृतिः क्षालिता तीर्थे किं शुद्धिमधिगच्छति ॥ १९॥
अन्तर्भावप्रदुष्टस्य विशतोऽपि हुताशनम् ।
न स्वर्गो नापवर्गश्च देहनिर्दहनं परम् ॥ २०॥
सर्वेण गाङ्गेन जलेन सम्यङ् मृत्पर्वतेनाप्यथ भावदुष्टः ।
आजन्मनः स्नानपरो मनुष्यो न शुध्यतीत्येव वयं वदामः ॥ २१॥
प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं महान्तम् ।
प्रविश्य दग्धस्त्वपि भावदुष्टो न धर्ममाप्नोति फलं न चान्यत् ॥ २२॥
गङ्गादितीर्थेषु वसन्ति मत्स्या देवालये पक्षिगणाश्च नित्यम् ।
भावोज्झितास्ते न फलं लभन्ते तीर्थावगाहाच्च तथैव दानात् ॥ २३॥
भावशुद्धिः परं शौचं प्रमाणे सर्वकर्मसु ।
अन्यथालिङ्ग्यते कान्ता भावेन दुहितान्यथा ॥ २४॥
मनसो भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु ।
अन्यथैव सुतं नारी चिन्तयत्यन्यथा पतिम् ॥ २५॥
पश्यध्वमस्य भावस्य महाभाग्यमशेषतः ।
परिष्वक्तोऽपि यन्नार्या भावहीनं न कामयेत् ॥ २६॥
नाद्याद्विविधमन्नाद्यं भक्ष्याणि सुरभीणि च ।
यदि चिन्तां समाधत्ते चित्ते कामादिषु त्रिषु ॥ २७॥