५ उमासंहिता, अध्याय 15: ब्रह्माण्डकथने जम्बूद्वीपवर्षवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.१७. सप्तदशोऽध्यायः ।
जम्बूद्वीपवर्षवर्णनम् ।
सनत्कुमार उवाच ।
पाराशर्य सुसङ्क्षेपाच्छृणु त्वं वदतो मम ।
मण्डलं च भुवः सम्यक् सप्तद्वीपादिसंयुतम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
जम्बूः प्लक्षः शाल्मलिश्च कुशः क्रौञ्चश्च शाककः ।
पुष्करः सप्तमः सर्वे समुद्रैः सप्तभिर्वृताः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
लवणेक्षुरसौ सर्पिर्दधिदुग्धजलाशयाः ।
जम्बुद्वीपः समस्तानामेतेषां मध्यतः स्थितः ॥ ३॥
तस्यापि मेरुः कालेय मध्ये कनकपर्वतः ।
प्रविष्टः षोडशाधस्ताद्योजनैस्तस्य चोच्छ्रयः ॥ ४॥
चतुरशीतिमानैस्तैर्द्वात्रिंशन्मूर्ध्नि विस्तृतः ।
भूमिपृष्ठस्थशैलोऽयं विस्तरस्तस्य सर्वतः ॥ ५॥
मूले षोडशसाहस्त्र कर्णिकाकारसंस्थितः ।
हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे ॥ ६॥
नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ।
दशसाहस्रिका ह्येते रत्नवन्तोऽरुणप्रभाः ॥ ७॥
सहस्रयोजनोत्सेधास्तावद्विस्तारिणश्च ते ।
भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् ॥ ८॥
हरिवर्षं ततोऽन्यद्वै मेरोर्दक्षिणतो मुने ।
रम्यकं चोत्तरे पार्श्वे तस्यांशे तु हिरण्मयम् ॥ ९॥
उत्तरे कुरवश्चैव यथा वै भारतं तथा ।
नवसाहस्रमेकैकमेतेषां मुनिसत्तम ॥ १०॥
इलावृतं तु तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः ।
मेरोश्चतुर्दिशं तत्र नवसाहस्रमुच्छ्रितम् ॥ ११॥
इलावृतमृषिश्रेष्ठ चत्वारश्चात्र पर्वताः ।
विष्कम्भा रचिता मेरोर्योजिताः पुनरुच्छ्रिताः ॥ १२॥
पूर्वे हि मन्दरो नाम दक्षिणे गन्धमादनः ।
विपुलः पश्चिमे भागे सुपार्श्वश्चोत्तरे स्थितः ॥ १३॥
कदम्बो जम्बुवृक्षश्च पिप्पलो वट एव च ।
एकादशशतायामाः पादपा गिरिकेतवः ॥ १४॥
जम्बूद्वीपस्य नाम्नो वै हेतुं शृणु महामुने ।
विराजन्ते महावृक्षास्तत्स्वभावं वदामि ते ॥ १५॥
महागजप्रमाणानि जम्ब्वास्तस्याः फलानि च ।
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ १६॥
रसेन तेषां विख्याता तत्र जम्बूनदीति वै ।
परितो वर्तते तत्र पीयते तन्निवासिभिः ॥ १७॥
न स्वेदो न च दौर्गन्ध्यं न जरा चेन्द्रियग्रहः ।
तस्यास्तटे स्थितानां तु जनानां तन्न जायते ॥ १८॥
तीरमृत्स्नां च सम्प्राप्य सुखवायुविशोषिताम् ।
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ १९॥
भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे ।
वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्य इलावृतम् ॥ २०॥
वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनः ।
विभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥ २१॥
अरुणोदं महाभद्रं शीतोदं मानसं स्मृतम् ।
सरांस्येतानि चत्वारि देवभोग्यानि सर्वशः ॥ २२॥
शीताञ्जनः कुरुङ्गश्च कुररो माल्यवांस्तथा ।
एकैकप्रमुखा मेरोः पूर्वतः केसराचलाः ॥ २३॥
त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा ।
निषधः कपिलाद्याश्च दक्षिणे केसराचलाः ॥ २४॥
सिनीवासः कुसुम्भश्च कपिलो नारदस्तथा ।
नागादयश्च गिरयः पश्चिमे केसराचलाः ॥ २५॥
शङ्खचूडोऽथ ऋषभो हंसो नाम महीधरः ।
कालञ्जराद्याश्च तथा उत्तरे केसराचलाः ॥ २६॥
मेरोरुपरि मध्ये हि शातकौम्भं विधेः पुरम् ।
चतुर्दशसहस्राणि योजनानि च सङ्ख्यया ॥ २७॥