५ उमासंहिता, अध्याय 14: ब्रह्माण्डवर्णने नरकोद्धारवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.१६. षोडशोऽध्यायः ।
नरकोद्धारवर्णनम् ।
सनत्कुमार उवाच ।
तेषां मूर्धोपरिष्टाद्वै नरकांस्तान् श्रुणुष्व च ।
मत्तो मुनिवरश्रेष्ठ पच्यन्ते यत्र पापिनः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
रौरवः शूकरो रोधस्तालो विवसनस्तथा ।
महाज्वालस्तप्तकुम्भो लवणोऽपि विलोहितः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
वैतरणी पूयवहा कृमिशः कृमिभोजनः ।
असिपत्रवनं घोरं लालाभक्षश्च दारुणः ॥ ३॥
तथा पूयवहः प्रायो वन्हिज्वालो ह्यधःशिराः ।
सन्दंशः कालसूत्रश्च तमश्चावीचिरोधनः ॥ ४॥
श्वभोजनोऽथ रुष्टश्च महारौरवशाल्मली ।
इत्याद्या बहवस्तत्र नरका दुःखदायकाः ॥ ५॥
पच्यन्ते तेषु पुरुषाः पापकर्मरतास्तु ये ।
क्रमाद्वक्ष्ये तु तान् व्यास सावधानतया शृणु ॥ ६॥
कूटसाक्ष्यं तु यो वक्ति विना विप्रान् सुरांश्च गाः ।
सदानृतं वदेद्यस्तु स नरो याति रौरवम् ॥ ७॥
भ्रूणहा स्वर्णहर्ता च गोरोधी विश्वघातकः ।
सुरापो ब्रह्महन्ता च परद्रव्यापहारकः ॥ ८॥
यस्तत्सङ्गी स वै याति मृतो व्यास गुरोर्वधात् ।
तप्तकुम्भे स्वसुर्मातुर्गोश्चैव दुहितुस्तथा ॥ ९॥
साध्व्या विक्रयकृच्चाथ वार्द्धकी केशविक्रयी ।
तप्तलोहेषु पच्यन्ते यश्च भक्तं परित्यजेत् ॥ १०॥
अवमन्ता गुरूणां यः पश्चाद्भोक्ता नराधमः ।
देवदूषयिता चैव देवविक्रयिकश्च यः ॥ ११॥
अगम्यगामी यश्चान्ते याति सप्तबलं द्विज ।
चौरो गोघ्नो हि पतितो मर्यादादूषकस्तथा ॥ १२॥
देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ।
स याति कृमिभक्षं वै कृमीनत्ति दुरिष्टिकृत् ॥ १३॥
पितृदेवसुरान् यस्तु पर्यश्नाति नराधमः ।
लालाभक्षं स यात्यज्ञो यः शास्त्रकूटकृन्नरः ॥ १४॥
यश्चान्त्यजेन संसेव्यो ह्यसद्ग्राही तु यो द्विजः ।
अयाज्ययाजकश्चैव तथैवाभक्ष्यभक्षकः ॥ १५॥
रुधिरौघे पतन्त्येते सोमविक्रयिणश्च ये ।
मधुहा ग्रामहा याति क्रूरां वैतरणीं नदीम् ॥ १६॥
नवयौवनमत्ताश्च मर्यादाभेदिनश्च ये ।
ते कृम्यं यान्त्यशौचाश्च कुलटाजीविनश्च ये ॥ १७॥
असिपत्रवनं याति वृक्षच्छेदी वृथैव यः ।
क्षुरभ्रका मृगव्याधा वह्निज्वाले पतन्ति ते ॥ १८॥
भ्रष्टाचारो हि यो विप्रः क्षत्रियो वैश्य एव च ।
यात्यन्ते द्विज तत्रैव यः श्वपाकेषु वह्निदः ॥ १९॥
व्रतस्य लोपका ये च स्वाश्रमाद्विच्युताश्च ये ।
सन्दंशयातनामध्ये पतन्ति भृशदारुणे ॥ ५.१६.२०॥
वीर्यं स्वप्नेषु स्कन्देयुर्ये नरा ब्रह्मचारिणः ।
पुत्रा नाध्यापिता यैश्च ते पतन्ति श्वभोजने ॥ २१॥
एते चान्ये च नरकाः शतशोऽथ सहस्रशः ।
येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ २२॥
तथैव पापान्येतानि तथान्यानि सहस्रशः ।
भुज्यन्ते यानि पुरुषैर्नरकान्तरगोचरैः ॥ २३॥
वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः ।
कर्मणा मनसा वाचा निरये तु पतन्ति ते ॥ २४॥
अधःशिरोभिर्दृश्यन्ते नारका दिवि दैवतैः ।
देवानधोमुखान् सर्वानधः पश्यन्ति नारकाः ॥ २५॥
स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः ।
धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥ २६॥
यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः ।
पापकृद्याति नरकं प्रायश्चित्तपराङ्मुखः ॥ २७॥