५ उमासंहिता, अध्याय 13: ब्रह्माण्डकथने पाताललोकवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.१५. पञ्चदशोऽध्यायः ।
पाताललोकवर्णनम् ।
व्यास उवाच ।
येनैकेन हि दत्तेन सर्वेषां प्राप्यते फलम् ।
दानानां तन्ममाख्याहि मानुषाणां हितार्थतः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
सनत्कुमार उवाच ।
शृणु काले प्रदत्ताद्वै फलं विन्दन्ति मानवाः ।
एकस्मादपि सर्वेषां दानानां तद्वदामि ते ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
दानानामुत्तमं दानं ब्रह्माण्डं खलु मानवैः ।
दातव्यं मुक्तिकामैस्तु संसारोत्तारणाय वै ॥ ३॥
ब्रह्माण्डे सकले दत्ते यत्फलं लभते नरः ।
तदेकभावादाप्नोति सप्तलोकाधिपो भवेत् ॥ ४॥
यावच्चन्द्रदिवाकरौ नभसि वा यावत् स्थिरा मेदिनी तावत्सोऽपि नरः स्वबान्धवयुतः स्वर्गौकसामोकसि ।
सर्वेष्वेव मनोनुगेषु ककुभिर्ब्रह्माण्डदः क्रीडते पश्चाद्याति पदं सुदुर्लभतरं देवैर्मुदे माधवम् ॥ ५॥
व्यास उवाच ।
भगवन् ब्रहि ब्रह्माण्डं यत्प्रमाणं यदात्मकम् ।
यदाधारं यथाभूतं येन मे प्रत्ययो भवेत् ॥ ६॥
सनत्कुमार उवाच ।
मुने शृणु प्रवक्ष्यामि यदुत्सेधं तु विस्तरम् ।
ब्रह्माण्डं तत्तु सङ्क्षेपाच्छ्रुत्वा पापात्प्रमुच्यते ॥ ७॥
यत्तत्कारणमव्यक्तं व्यक्तं शिवमनामयम् ।
तस्मात्सञ्जायते ब्रह्मा द्विधाभूताद्धि कालतः ॥ ८॥
ब्रह्माण्डं सृजति ब्रह्मा चतुर्दशभवात्मकम् ।
तद्वच्मि क्रमतस्तात समासाच्छृणु यत्नतः ॥ ९॥
पातालानि तु सप्तैव भुवनानि तथोर्ध्वतः ।
उच्छ्रायो द्विगुणस्तस्य जलमध्ये स्थितस्य च ॥ १०॥
तस्याधारः स्थितो नागः स च विष्णुः प्रकीर्तितः ।
ब्रह्मणो वचसां हेतोर्बिभर्ति सकलं त्विदम् ॥ ११॥
शेषस्यास्य गुणान् वक्तुं न शक्ता देवदानवाः ।
योऽनन्तः पठ्यते सिद्धैर्देवर्षिगणपूजितः ॥ १२॥
शिरः सहस्रयुक्तः स सर्वा विद्योतयन्दिशः ।
फणामणिसहस्रेण स्वस्तिकामलभूषणः ॥ १३॥
मदाघूर्णितनेत्रोऽसौ साग्निः श्वेत इवाचलः ।
स्रग्वी किरीटी ह्याभाति यः सदैवैककुण्डलः ॥ १४॥
साभ्रगङ्गाप्रवाहेण श्वेतशैलोपशोभितः ।
नीलवासा मदोद्रिक्तः कैलासाद्रिरिवापरः ॥ १५॥
लाङ्गलासक्तहस्ताग्रो बिभ्रन्मुसलमुत्तमम् ।
योऽर्च्यते नागकन्याभिः स्वर्णवर्णाभिरादरात् ॥ १६॥
सङ्कर्षणात्मको रुद्रो विषानलशिखोज्ज्वलः ।
कल्पान्ते निष्क्रमन्ते यद्वक्त्रेभ्योऽग्निशिखा मुहुः ।
दग्ध्वा जगत्त्रयं शान्ता भवन्तीत्यनुशुश्रुमः ॥ १७॥
आस्ते पातालमूलस्थः सशेषः क्षितिमण्डलम् ।
बिभ्रत्स्वपृष्ठे भूतेशः शेषोऽशेषगुणार्चितः ॥ १८॥
तस्य वीर्यप्रभावश्च साकाङ्क्षैस्त्रिदशैरपि ।
न हि वर्णयितुं शक्यः स्वरूपं ज्ञातुमेव वा ॥ १९॥
आस्ते कुसुममालेव फणामणिशिखारुणा ।
यस्यैषा सकला पृथ्वी कस्तद्वीर्यं वदिष्यति ॥ २०॥
यदा विजृम्भतेऽनन्तो मदाघूर्णितलोचनः ।
तदा चलति भूरेषा साद्रितोयाधिकानना ॥ २१॥
दशसाहस्रमेकैकं पातालं मुनिसत्तम ।
अतलं वितलं चैव सुतलं च रसातलम् ॥ २२॥
तलं तलातलं चाग्र्यं पातालं सप्तमं मतम् ।
भूमेरधः सप्तलोका इमे ज्ञेया विचक्षणैः ॥ २३॥
उच्छ्रायो द्विगुणश्चैषां सर्वेषां रत्नभूमयः ।
रत्नवन्तोऽथ प्रासादा भूमयो हेमसम्भवाः ॥ २४॥
तेषु दानवदैतेया नागानां जातयस्तथा ।
निवसन्ति महानागा राक्षसा दैत्यसम्भवाः ॥ २५॥
प्राह स्वर्गसदोमध्ये पातालानीति नारदः ।
स्वर्लोकादति रम्याणि तेभ्योऽसावागतो दिवि ॥ २६॥
नानाभूषणभूषाश्च मणयो यत्र सुप्रभाः ।
आह्लादकारिणः शुभ्राः पातालं केन तत्समम् ॥ २७॥