Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं

Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 1

५.१४. चतुर्दशोऽध्यायः ।

सामान्यदानवर्णनम् ।

सनत्कुमार उवाच ।

शस्तानि घोरदानानि महादानानि नित्यशः ।

पात्रेभ्यस्तु प्रदेयानि आत्मानं तारयन्ति च ॥ १॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 2

हिरण्यदानं गोदानं भूमिदानं द्विजोत्तम ।

गृह्णन्तो वै पवित्राणि तारयन्ति स्वमेव तम् ॥ २॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 3

सुवर्णदानं गोदानं पृथिवीदानमेव च ।

एतानि श्रेष्ठदानानि कृत्वा पापैः प्रमुच्यते ॥ ३॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 4

तुलादानानि शस्तानि गावः पृथ्वी सरस्वती ।

द्वे तु तुल्यबले शस्ते ह्यधिका च सरस्वती ॥ ४॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 5

नित्य ह्यनुडुहो गावच्छत्रं वस्त्रमुपानहौ ।

देयानि याचमानेभ्यः पानमन्नं तथैव च ॥ ५॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 6

सङ्कल्पविहितो योऽर्थो ब्राह्मणेभ्यः प्रदीयते ।

अर्थिभ्योऽपीडितेभ्यश्च मनस्वी तेन जायते ॥ ६॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 7

कनकं च तिला नागाः कन्या दासी गृहं रथः ।

मणयः कपिला गावो महादानानि वै दश ॥ ७॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 8

गृहीत्वैतानि सर्वाणि ब्राह्मणो ज्ञानवित्सदा ।

वदान्यांस्तारयेत्सद्यो ह्यात्मानं च न संशयः ॥ ८॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 9

सुवर्णं ये प्रयच्छन्ति नराः शुद्धेन चेतसा ।

देवतास्तं प्रयच्छन्ति समन्तादिति मे श्रुतम् ॥ ९॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 10

अग्निर्हि देवताः सर्वाः सुवर्णं च हुताशनः ।

तस्मात् सुवर्णं दत्त्वा च दत्ताः स्युः सर्वदेवताः ॥ १०॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 11

पृथ्वीदानं महाश्रेष्ठं सर्वकामफलप्रदम् ।

सौवर्णं च विशेषेण यत्कृतं पृथुना पुरा ॥ ११॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 12

दीयमानां प्रपश्यन्ति पृथ्वीं रुक्मसमन्विताम् ।

सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम् ॥ १२॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 13

अथान्यच्च प्रवक्ष्यामि दानं सर्वोत्तमं मुने ।

कान्तारं यन्न पश्यन्ति यमस्य बहुदुःखदम् ॥ १३॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 14

कुर्यात् कान्तारदानं हि विधिना शुद्धमानसः ।

न्यायार्जितेन द्रव्येण वित्तशाठ्यविवर्जितः ॥ १४॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 15

तिलप्रस्थमयीं कृत्वा धेनुं सर्वगुणान्विताम् ।

धेनुवत्सं सुवर्णं च सुदिव्यं सर्वलक्षणम् ॥ १५॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 16

पद्ममष्टदलं कृत्वा कुङ्कुमाक्ताक्षतैः शुभैः ।

पूजयेत्तत्र रुद्रादीन्सर्वान्देवान्सुभक्तितः ॥ १६॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 17

एवं सम्पूज्य तां दद्याद् ब्राह्मणाय स्वशक्तितः ।

सरत्नां सहिरण्यां च सर्वाभरणभूषिताम् ॥ १७॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 18

ततो नक्तं समश्नीयाद्दीपान् दद्यात्तु विस्तरात् ।

कार्तिक्यामिति कर्तव्यं पूर्णिमायां प्रयत्नतः ॥ १८॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 19

एवं यः कुरुते सम्यग्विधानेन स्वशक्तितः ।

यममार्गभयं घोरं नरकं च न पश्यति ॥ १९॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 20

कृत्वा पापान्यशेषाणि सबन्धुः ससुहृज्जनः ।

दिवि सङ्क्रीडते व्यास यावदिन्द्राश्चतुर्दश ॥ २०॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 21

विधितो गोश्च दानं वै सर्वोत्तममिह स्मृतम् ।

न तेन सदृशं व्यास परं दानं प्रकीर्तितम् ॥ २१॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 22

प्रयच्छते यः कपिलां सवत्सां स्वर्णश‍ृङ्गिकाम् ।

कांस्यपात्रां रौप्यखुरां सर्वलक्षणलक्षिताम् ॥ २२॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 23

तैस्तैर्गुणैः कामदुघा भूत्वा सा गौरुपैति तम् ।

प्रदातारं नरं व्यास परत्रेह च जन्मनि ॥ २३॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 24

यद्यदिष्टतमं लोके तदस्ति दयितं गृहे ।

तत्तद् गुणवते देयं तदेवाक्षयमिच्छता ॥ २४॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 25

तुलापुरुषदानं हि दानानां दानमुत्तमम् ।

तुलासंरोहणं कार्यं यदीच्छेच्छ्रेय आत्मनः ॥ २५॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 26

यत्कृत्वा मुच्यते पापैर्वधबन्धकृतोद्भवैः ।

तुलादानं महत्पुण्यं सर्वपापक्षयङ्करम् ॥ २६॥

Shiva Purana

५ उमासंहिता, अध्याय 12: सामान्यदानवर्णनं, Verse 27

कृत्वा पापान्यशेषाणि तुलादानं करोति यः ।

सर्वैस्तु पातकैर्मुक्तः स दिवं यात्यसंशयम् ॥ २७॥