५ उमासंहिता, अध्याय 11: पुराणमाहात्म्यवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.१३. त्रयोदशोऽध्यायः ।
पुराणमाहात्म्यवर्णनम् ।
सनत्कुमार उवाच ।
तपस्तपति योऽरण्ये वन्यमूलफलाशनः ।
योऽधीते ऋचमेकां हि फलं स्यात्तत्समं मुने ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
श्रुतेरध्ययनात्पुण्यं यदाप्नोति द्विजोत्तमः ।
तदध्यापनतश्चापि द्विगुणं फलमश्नुते ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
जगद्यथा निरालोकं जायतेऽशशिभास्करम् ।
विना तथा पुराणं ह्यध्येयमस्मान्मुने सदा ॥ ३॥
तप्यमानं सदाज्ञानान्निरये योऽपि शास्त्रतः ।
सम्बोधयति लोकं तं तस्मात् पूज्यः पुराणगः ॥ ४॥
सर्वेषां चैव पात्राणां मध्ये श्रेष्ठः पुराणवित् ।
पतनात् त्रायते यस्मात् तस्मात्पात्रमुदाहृतम् ॥ ५॥
मर्त्यबुद्धिर्न कर्तव्या पुराणज्ञे कदाचन ।
पुराणज्ञः सर्ववेत्ता ब्रह्मा विष्णुर्हरो गुरुः ॥ ६॥
धनं धान्यं हिरण्यं च वासांसि विविधानि च ।
देयं पुराणविज्ञाय परत्रेह च शर्मणे ॥ ७॥
यो ददाति महाप्रीत्या पुराणज्ञाय सज्जनः ।
पात्राय शुभवस्तूनि स याति परमां गतिम् ॥ ८॥
महीं गां वा स्यन्दनांश्च गजानश्वांश्च शोभनान् ।
यः प्रयच्छति पात्राय तस्य पुण्यफलं शृणु ॥ ९॥
अक्षयान्सर्वकामांश्च परत्रेह च जन्मनि ।
अश्वमेधमखस्यापि स फलं लभते पुमान् ॥ १०॥
महीं ददाति यस्तस्मै कृष्टां फलवतीं शुभाम् ।
स तारयति वै वंश्यान्दश पूर्वान् दशापरान् ॥ ११॥
इह भुक्त्वाखिलान् कामानन्ते दिव्यशरीरवान् ।
विमानेन च दिव्येन शिवलोकं स गच्छति ॥ १२॥
न यज्ञैस्तुष्टिमायान्ति देवाः प्रोक्षणकैरपि ।
बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः ॥ १३॥
शम्भोरायतने यस्तु कारयेद्धर्मपुस्तकम् ।
विष्णोरर्कस्य कस्यापि शृणु तस्यापि तत्फलम् ॥ १४॥
राजसूयाश्वमेधानां फलमाप्नोति मानवः ।
सूर्यलोकं च भित्त्वाशु ब्रह्मलोकं स गच्छति ॥ १५॥
स्थित्वा कल्पशतान्यत्र राजा भवति भूतले ।
भुङ्क्ते निष्कण्टकं भोगान्नात्र कार्या विचारणा ॥ १६॥
अश्वमेधसहस्रस्य यत्फलं समुदाहृतम् ।
तत्फलं समावाप्नोति देवाग्रे यो जपं चरेत् ॥ १७॥
इतिहासपुराणाभ्यां शम्भोरायतने शुभे ।
नान्यत्प्रीतिकरं शम्भोस्तथान्येषां दिवौकसाम् ॥ १८॥
तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम् ।
तथास्य श्रवणं प्रेम्णा सर्वकामफलप्रदम् ॥ १९॥
पुराणश्रवणात् शम्भोर्निष्पापो जायते नरः ।
भुक्त्वा भोगान् सुविपुलान् शिवलोकमवाप्नुयात् ॥ २०॥
राजसूयेन यत्पुण्यमग्निष्टोमशतेन च ।
तत्पुण्यं लभते शम्भोः कथाश्रवणमात्रतः ॥ २१॥
सर्वतीर्थावगाहेन गवां कोटिप्रदानतः ।
तत् फलं लभते शम्भोः कथाश्रवणतो मुने ॥ २२॥
ये शृण्वन्ति कथां शम्भोः सदा भुवनपावनीम् ।
ते मनुष्या न मन्तव्या रुद्रा एव न संशयः ॥ २३॥
शृण्वतां शिवसत्कीर्तिं सतां कीर्तयतां च ताम् ।
पादाम्बुजरजांस्येव तीर्थानि मुनयो विदुः ॥ २४॥
गन्तुं निःश्रेयसं स्थानं येऽभिवाञ्छन्ति देहिनः ।
कथां पौराणिकीं शैवीं भक्त्या शृण्वन्तु ते सदा ॥ २५॥
कथां पौराणिकीं श्रोतुं यद्यशक्तः सदा भवेत् ।
नियतात्मा प्रतिदिनं शृणुयाद्वा मुहूर्तकम् ॥ २६॥
यदि प्रतिदिनं श्रोतुमशक्तो मानवो भवेत् ।
पुण्यमासादिषु मुने शृणुयाच्छाङ्करीं कथाम् ॥ २७॥