Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं

Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 1

२.१.३. तृतीयोऽध्यायः ।

नारदमोहनं वर्णनम् ।

ऋषय ऊचुः ।

सूत सूत महाभाग व्यासशिष्य नमोऽस्तु ते ।

अद्भुतेयं कथा तात वर्णिता कृपया हि नः ॥ १॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 2

मुनौ गते हरिस्तात किञ्चकार ततः परम् ।

नारदोऽपि गतः कुत्र तन्मे व्याख्यातुमर्हसि ॥ २॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 3

व्यास उवाच ।

इत्याकर्ण्य वचस्तेषां सूतः पौराणिकोत्तमः ।

प्रत्युवाच शिवं स्मृत्वा नानासूतिकरं बुधः ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 4

॥

द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 4

सूत उवाच ।

मुनौ यदृच्छया विष्णुर्गते तस्मिन्हि नारदे ।

शिवेच्छया चकाराशु मायां मायाविशारदः ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 5

मुनिमार्गस्य मध्ये तु विरेचे नगरं महत् ।

शतयोजनविस्तारमद्भुतं सुमनोहरम् ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 6

स्वलोकादधिकं रम्यं नानावस्तुविराजितम् ।

नरनारीविहाराढ्यं चतुर्वर्णाकुलं परम् ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 7

तत्र राजा शीलनिधिर्नामैश्वर्यसमन्वितः ।

सुतास्वयम्वरोद्युक्तो महोत्सवसमन्वितः ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 8

चतुर्दिग्भ्यः समायातैः संयुतं नृपनन्दनैः ।

नानावेषैः सुशोभैश्च तत्कन्यावरणोत्सुकैः ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 9

एतादृशं पुरं दृष्ट्वा मोहं प्राप्तोऽथ नारदः ।

कौतुकी तन्नृपद्वारं जगाम मदनैधितः ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 10

आगतं मुनिवर्यं तं दृष्ट्वा शीलनिधिर्नृपः ।

उपवेश्यार्चयाञ्चक्रे रत्नसिंहासने वरे ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 11

अथ राजा स्वतनयां नामतः श्रीमतीं वराम् ।

नारदस्य समानीय पादयोः समपातयत् ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 12

तत्कन्यां प्रेक्ष्य स मुनिर्नारदः प्राह विस्मितः ।

केयं राजन्महाभागा कन्या सुरसुतोपमा ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 13

तस्य तद्वचनं श्रुत्वा राजा प्राह कृताञ्जलिः ।

दुहितेयं मम मुने श्रीमती नाम नामतः ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 14

प्रदानसमयं प्राप्ता वरमन्वेषती शुभम् ।

सा स्वयम्वरसम्प्राप्ता सर्वलक्षणलक्षिता ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 15

अस्या भाग्यं वद मुने सर्वं जातकमादरात् ।

कीदृशं तनयेयं मे वरमाप्स्यति तद्वद ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 16

इत्युक्तो मुनिशार्दूलस्तामिच्छुः कामविह्वलः ।

समाभाष्य स राजानं नारदो वाक्यमब्रवीत् ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 17

सुतेयं तव भूपाल सर्वलक्षणलक्षिता ।

महाभाग्यवती धन्या लक्ष्मीरिव गुणालया ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 18

सर्वेश्वरोऽजितो वीरो गिरीशसदृशो विभुः ।

अस्याः पतिर्ध्रुवं भावी कामजित्सुरसत्तमः ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 19

इत्युक्त्वा नृपमामन्त्र्य ययौ यादृच्छिको मुनिः ।

बभूव कामविवशः शिवमायाविमोहितः ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 20

चित्ते विचिन्त्य स मुनिराप्नुयां कन्यकां कथम् ।

स्वयंवरे नृपालानामेकं मां वृणुयात्कथम् ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 21

सौन्दर्यं सर्वनारीणां प्रियं भवति सर्वथा ।

तद् दृष्ट्वैव प्रसन्ना सा स्ववशा नात्र संशयः ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 22

विधायेत्थं विष्णुरूपं ग्रहीतुं मुनिसत्तमः ।

विष्णुलोकं जगामाशु नारदः स्मरविह्वलः ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 23

प्रणिपत्य हृषीकेशं वाक्यमेतदुवाच ह ।

रहसि त्वां प्रवक्ष्यामि स्ववृत्तान्तमशेषतः ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 24

तथेत्युक्ते तथाभूते शिवेच्छाकार्यकर्तरि ।

ब्रूहीत्युक्तवति श्रीशे मुनिराह च केशवम् ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 25

नारद उवाच ।

त्वदीयो भूपतिः शीलनिधिः स वृषतत्परः ।

तस्य कन्या विशालाक्षी श्रीमती वरवर्णिनी ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 3: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं, Verse 26

जगन्मोहिन्यभिख्याता त्रैलोक्येऽप्यतिसुन्दरी ।

परिणेतुमहं विष्णो तामिच्छाम्यद्य मा चिरम् ॥ २६॥