५ उमासंहिता, अध्याय 9: नरकगतिभोगवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.१०. दशमोऽध्यायः ।
नरकगतिभोगवर्णनम् ।
सनत्कुमार उवाच ।
मिथ्यागमं प्रवृत्तस्तु द्विजिह्वाख्यं च गच्छति ।
जिह्वार्धकोशविस्तीर्णहलैस्तीक्ष्णैः प्रपीड्यते ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
निर्भर्त्सयति यः क्रूरो मातरं पितरं गुरुम् ।
विष्ठाभिः कृमिमिश्राभिर्मुखमापूर्य हन्यते ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
ये शिवायतनारामवापीकूपतडागकान् ।
विद्रवन्ति द्विजस्थानं नरास्तत्र रमन्ति च ॥ ३॥
कामायोद्वर्तनाभ्यङ्ग स्नानपानाम्बुभोजनम् ।
क्रीडनं मैथुनं द्यूतमाचरन्ति मदोद्धताः ॥ ४॥
पेचिरे विविधैर्धोरैरिक्षुयन्त्रादिपीडनैः ।
निरयाग्निषु पच्यन्ते यावदाभूतसम्प्लवम् ॥ ५॥
तेन तेनैव रूपेण ताड्यन्ते पारदारिकाः ।
गाढमालिङ्ग्य ते नारीं सुतप्तां लोहनिर्मिताम् ॥ ६॥
पूर्वाकाराश्च पुरुषाः प्रज्वलन्ति समन्ततः ।
दुश्चारिणीं स्त्रियं गाढमालिङ्गन्ति रुदन्ति च ॥ ७॥
ये शृण्वन्ति सतां निन्दां तेषां कर्णप्रपूरणम् ।
अग्निवर्णैरयःकीलैस्तप्तैस्ताम्रादिनिर्मितैः ॥ ८॥
त्रपुसीसारकूटाद्भिः क्षीरेण च पुनःपुनः ।
सुतप्ततीक्ष्णतैलेन वज्रलेपेन वा पुनः ॥ ९॥
क्रमादापूर्य कर्णांस्तु नरकेषु च यातनाः ।
अनुक्रमेण सर्वेषु भवन्त्येताः समन्ततः ॥ १०॥
सर्वेन्द्रियाणामप्येवं क्रमात्पापेन यातनाः ।
भवन्ति घोराः प्रत्येकं शरीरेण कृतेन च ॥ ११॥
स्पर्शदोषेण ये मूढाः स्पृशन्ति च परस्त्रियम् ।
तेषां करोऽग्निवर्णाभिः पांसुभिः पूर्यते भृशम् ॥ १२॥
तेषां क्षारादिभिः सर्वैः शरीरमनुलिप्यते ।
यातनाश्च महाकष्टाः सर्वेषु नरकेषु च ॥ १३॥
कुर्वन्ति पित्रोर्भृकुटिं करनेत्राणि ये नराः ।
वक्त्राणि तेषां सान्तानि कीर्यन्ते शङ्कुभिर्दृढम् ॥ १४॥
यैरिन्द्रियैर्नरा ये च विकुर्वन्ति परस्त्रियम् ।
इन्द्रियाणि च तेषां वै विकुर्वन्ति तथैव च ॥ १५॥
परदारांश्च पश्यन्ति लुब्धाः स्तब्धेन चक्षुषा ।
सूचीभिश्चाग्निवर्णाभिस्तेषां नेत्रप्रपूरणम् ॥ १६॥
क्षाराद्यैश्च क्रमात्सर्वा इहैव यमयातनाः ।
भवन्ति मुनिशार्दूल सत्यं सत्यं न संशयः ॥ १७॥
देवाग्निगुरुविप्रेभ्यश्चानिवेद्य प्रभुञ्जते ।
लोहकीलशतैस्तप्तैस्तज्जिह्वास्यं च पूर्यते ॥ १८॥
ये देवारामपुष्पाणि लोभात्सङ्गृह्य पाणिना ।
जिघ्रन्ति च नरा भूयः शिरसा धारयन्ति च ॥ १९॥
आपूर्यते शिरस्तेषां तप्तैर्लोहस्य शङ्कुभिः ।
नासिका चातिबहुलैस्ततः क्षारादिभिर्भृशम् ॥ २०॥
ये निन्दन्ति महात्मानं वाचकं धर्मदेशिकम् ।
देवाग्निगुरुभक्तांश्च धर्मशास्त्रं च शाश्वतम् ॥ २१॥
तेषामुरसि कण्ठे च जिह्वायां दन्तसन्धिषु ।
तालुन्योष्ठे नासिकायां मूर्ध्नि सर्वाङ्गसन्धिषु ॥ २२॥
अग्निवर्णास्तु तप्ताश्च त्रिशाखा लोहशङ्कवः ।
आखिद्यन्ते च बहुशः स्थानेष्वेतेषु मुद्गरैः ॥ २३॥
ततः क्षारेण दीप्तेन पूर्यते हि समन्ततः ।
यातनाश्च महत्यो वै शरीरस्याति सर्वतः ॥ २४॥
अशेषनरकेष्वेव क्रमन्ति क्रमशः पुनः ।
ये गृह्णन्ति परद्रव्यं पद्भ्यां विप्रं स्पृशन्ति च ॥ २५॥
शिवोपकरणं गां च ज्ञानादिलिखितं च यत् ।
हस्तपादादिभिस्तेषामापूर्यन्ते समन्ततः ॥ २६॥
नरकेषु च सर्वेषु विचित्रा बहुयातनाः ।
भवन्ति बहुशः कष्टाः पाणिपादसमुद्भवाः ॥ २७॥