५ उमासंहिता, अध्याय 8: सामान्यतो नरकगतिवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 98 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.८. अष्टमोऽध्यायः ।
नरकलोकवर्णनम् ।
चित्रगुप्त उवाच ।
भो भो दुष्कृतकर्माणः परद्रव्यापहारकाः ।
गर्विता रूपवीर्येण परदारावमर्दकाः ॥ १॥
५.९. नवमोऽध्यायः ।
नरकगतिवर्णनम् ।
सनत्कुमार उवाच ।
एषु पापाः प्रपच्यन्ते शोष्यन्ते नरकाग्निषु ।
यातनाभिर्विचित्राभिरास्वकर्मक्षयाद् भृशम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
यत् स्वयं क्रियते कर्म तदिदं भुज्यते पुनः ।
तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् ॥ २॥
स्वमलप्रक्षयाद्यद्वदग्नौ धास्यन्ति धातवः ।
तत्र पापक्षयात्पापा नराः कर्मानुरूपतः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
इदानीं किं प्रलप्यध्वं पीड्यमानाः स्वकर्मभिः ।
भुज्यन्तां स्वानि कर्माणि नास्ति दोषो हि कस्यचित् ॥ ३॥
सुगाढं हस्तयोर्बद्ध्वा ततः शृङ्खलया नराः ।
महावृक्षाग्रशाखासु लम्ब्यन्ते यमकिङ्करैः ॥ ३॥
सनत्कुमार उवाच ।
एवं ते पृथिवीपालाः सम्प्राप्तास्तत्समीपतः ।
स्वकीयैः कर्मभिघौरैर्दुष्कर्मबलदर्पिणः ॥ ४॥
ततस्ते सर्वयत्नेन क्षिप्ता दोलन्ति किङ्करैः ।
दोम्यन्तश्चातिवेगेन विसंज्ञा यान्ति योजनम् ॥ ४॥
तानपि क्रोधसंयुक्तश्चित्रगुप्तो महाप्रभुः ।
संशिक्षयति धर्मज्ञो यमराजानुशिक्षया ॥ ५॥
अन्तरिक्षस्थितानां च लोहभारशतं पुनः ।
पादयोर्बध्यते तेषां यमदूतैर्महाबलैः ॥ ५॥
चित्रगुप्त उवाच ।
भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः ।
अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ॥ ६॥
तेन भारेण महता प्रभृशं ताडिता नराः ।
ध्यायन्ति स्वानि कर्माणि तूष्णीं तिष्ठन्ति निश्चलाः ॥ ६॥
राज्यभोगेन मोहेन बलादन्यायतः प्रजाः ।
यद्दण्डिताः फलं तस्य भुज्यतामधुना नृपाः ॥ ७॥
ततोऽङ्कुशैरग्निवर्णैर्लोहदण्डैश्च दारुणैः ।
हन्यन्ते किङ्करैघोरैः समन्तात्पापकर्मिणः ॥ ७॥
क्व तद्राज्यं कलत्रं च यदर्थमशुभं कृतम् ।
तत्सर्वं सम्परित्यज्य यूयमेकाकिनः स्थिताः ॥ ८॥
ततः क्षारेण दीप्तेन वह्नेरपि विशेषतः ।
समन्ततः प्रलिप्यन्ते तीव्रेण तु पुनः पुनः ॥ ८॥
पश्यामि तद्बलं नष्टं येन विध्वंसिताः प्रजाः ।
यमदूतैर्योज्यमाना अधुना कीदृशं भवेत् ॥ ९॥
द्रुतेनात्यन्तलिप्तेन कृत्ताङ्गा जर्जरीकृताः ।
पुनर्विदार्य चाङ्गानि शिरसः प्रभृति क्रमात् ॥ ९॥
सनत्कुमार उवाच ।
एवं बहुविधैर्वाक्यैरुपलब्धा यमेन ते ।
स्वानि कर्माणि शोचन्ति तूष्णीं तिष्ठन्ति पार्थिवाः ॥ १०॥
वृन्ताकवत्प्रपच्यन्ते तप्तलोहकटाहकैः ।
विष्ठापूर्णे तथा कूपे कृमीणां निचये पुनः ॥ १०॥
इति कर्म समुद्दिश्य नृपाणां धर्मराड् यमः ।
तत्पापपङ्कशुद्ध्यर्थमिदं दूतान् ब्रवीति च ॥ ११॥
मेदोऽसृक्पूयपूर्णायां वाप्यां क्षिप्यन्ति ते पुनः ।
भक्ष्यन्ते कृमिभिस्तीक्ष्णैर्लोहतुण्डैश्च वायसैः ॥ ११॥
यमराज उवाच ।
भो भोश्चण्ड महाचण्ड गृहीत्वा नृपतीन्बलात् ।
नियमेन विशुद्यध्वं क्रमेण नरकाग्निषु ॥ १२॥
श्वभिर्देंशैर्वृकैर्व्याघ्रै रौद्रैश्च विकृताननैः ।
पच्यन्ते मत्स्यवच्चापि प्रदीप्ताङ्गारराशिषु ॥ १२॥
सनत्कुमार उवाच ।
ततः शीघ्रं समादाय नृपान् सङ्गृह्य पादयोः ।
भ्रामयित्वा तु वेगेन निक्षिप्योर्ध्वं प्रगृह्य च ॥ १३॥
भिन्नाः शूलैः सुतीक्ष्णैश्च नराः पापेन कर्मणा ।
तैलयन्त्रेषु चाक्रम्य घोरैः कर्मभिरात्मनः ॥ १३॥
सर्वप्रायेण महतातीव तप्ते शिलातले ।
आस्फालयन्ति तरसा वज्रेणेव महाद्रुमान् ॥ १४॥