५ उमासंहिता, अध्याय 7: नरकलोकमार्गयमदूतस्वरूपवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.७. सप्तमोऽध्यायः ।
नरकलोकमार्गयमदूतस्वरूपवर्णनम् ।
सनत्कुमार उवाच ।
अथ पापैर्नरा यान्ति यमलोकं चतुर्विधैः ।
सन्त्रासजननं घोरं विवशाः सर्वदेहिनः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः ।
स्त्रीपुन्नपुंसकैर्जीवैर्ज्ञातव्यं सर्वजन्तुषु ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
शुभाशुभफलं चात्र देहिनां संविचार्यते ।
चित्रगुप्तादिभिः सर्वैः वसिष्ठप्रमुखैस्तथा ॥ ३॥
न केचित्प्राणिनः सन्ति ये न यान्ति यमक्षयम् ।
अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचार्यताम् ॥ ४॥
तत्र ये शुभकर्माणः सौम्यचित्ता दयान्विताः ।
ते नरा यान्ति सौम्येन पूर्वं यमनिकेतनम् ॥ ५॥
ये पुनः पापकर्माणः पापा दानविवर्जिताः ।
ते घोरेण पथा यान्ति दक्षिणेन यमालयम् ॥ ६॥
षडशीतिसहस्राणि योजनानामतीत्य तत् ।
वैवस्वतपुरं ज्ञेयं नानारूपमवस्थितम् ॥ ७॥
समीपस्थमिवाभाति नराणां पुण्यकर्मणाम् ।
पापिनामतिदूरस्थं यथा रौद्रेण गच्छताम् ॥ ८॥
तीक्ष्णकण्टकयुक्तेन शर्कराविचितेन च ।
क्षुरधारानिभैस्तीक्ष्णैः पाषाणै रचितेन च ॥ ९॥
क्वचित्पङ्केन महता जलौकाभिश्च सङ्कुलैः ।
लोहसूचीनिभैर्दर्भैः सम्पन्नेन पथा क्वचित् ॥ १०॥
तटप्रायातिविषमैः पर्वतैर्वृक्षसङ्कुलैः ।
प्रतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः ॥ ११॥
क्वचिद्विषमगर्तैश्च क्वचिल्लोष्ठैः सुदुष्करैः ।
सुतप्तबालुकाभिश्च तथा तीक्ष्णैश्च शङ्कुभिः ॥ १२॥
अनेकशाखाविततैर्व्याप्तं वंशवनैः क्वचित् ।
कष्टेन तमसा मार्गेणानालम्बेन कुत्रचित् ॥ १३॥
अयः शृङ्गाटकैस्तीक्ष्णैः क्वचिद्दावाग्निना पुनः ।
क्वचित्तप्तशिलाभिश्च क्वचिद्व्याप्तं हिमेन च ॥ १४॥
क्वचिद्वालुकया व्याप्तमाकण्ठान्तः प्रवेशया ।
क्वचिद्दुष्टाम्बुना व्याप्तं क्वचिच्च करिषाग्निना ॥ १५॥
क्वचित् सिहैर्वृकैर्व्याघ्रैर्मशकैश्च सुदारुणैः ।
क्वचिन्महाजलौकाभिः क्वचिच्चाजगरैस्तथा ॥ १६॥
मक्षिकाभिश्च रौद्राभिः क्वचित् सर्पैर्विषोल्बणैः ।
मत्तमातङ्गयूथैश्च बलोन्मत्तैः प्रमाथिभिः ॥ १७॥
पन्थानमुल्लिखद्भिश्च सूकरैस्तीक्ष्णदंष्ट्रिभिः ।
तीक्ष्णशृङ्गैश्च महिषैः सर्वभूतैश्च श्वापदैः ॥ १८॥
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ।
व्याधिभिश्च महाघोरैः पीड्यमाना व्रजन्ति हि ॥ १९॥
महाधूलिविमिश्रेण महाचण्डेन वायुना ।
महापाषाणवर्षेण हन्यमाना निराश्रयाः ॥ २०॥
क्वचिद्विद्युत्प्रपातेन दह्यमाना व्रजन्ति च ।
महता बाणवर्षेण विध्यमानाश्च सर्वतः ॥ २१॥
पतद्भिर्वज्रपातैश्च उल्कापातैश्च दारुणैः ।
प्रदीप्ताङ्गारवर्षेण दह्यमानाश्च सन्ति हि ॥ २२॥
महता पांसुवर्षेण पूर्यमाणा रुदन्ति च ।
महामेघरवैर्घोरैस्त्रस्यन्ते च मुहुर्मुहुः ॥ २३॥
निशितायुधवर्षेण भिद्यमानाश्च सर्वतः ।
महाक्षाराम्बुधाराभिः सिच्यमाना व्रजन्ति च ॥ २४॥
महीशीतेन मरुता रूक्षेण परुषेण च ।
समन्ताद् बाध्यमानाश्च शुष्यन्ते सङ्कुचन्ति च ॥ २५॥
इत्थं मार्गेण रौद्रेण पाथेयरहितेन च ।
निरालम्बेन दुर्गेण निर्जलेन समन्ततः ॥ २६॥
विषमेणैव महता निर्जनापाश्रयेण च ।
तमोरूपेण कष्टेन सर्वदुष्टाश्रयेण च ॥ २७॥