५ उमासंहिता, अध्याय 6: पापभेदवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.६. षष्ठोऽध्यायः ।
पापभेदवर्णनम् ।
सनत्कुमार उवाच ।
द्विजद्रव्यापहरणमपि दायव्यतिक्रमः ।
अतिमानोऽतिकोपश्च दाम्भिकत्वं कृतघ्नता ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
अत्यन्तविषयासक्तिः कार्पण्यं साधुमत्सरम् ।
परदाराभिगमनं साधुकन्यासु दूषणम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
परिवित्तिः परिवेत्ता यया च परिविद्यते ।
तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥ ३॥
शिवाश्रमतरूणां च पुष्पारामविनाशनम् ।
यः पीडामाश्रमस्थानामाचरेदल्पिकामपि ॥ ४॥
सभृत्यपरिवारस्य पशुधान्यधनस्य च ।
कुप्यधान्यपशुस्तेयमपां व्यापावनं तथा ॥ ५॥
यज्ञारामतडागानां दारापत्यस्य विक्रयम् ।
तीर्थयात्रोपवासानां व्रतोपनयकर्मिणाम् ॥ ६॥
स्त्रीधनान्युपजीवन्ति स्त्रीभिरत्यन्तनिर्जिताः ।
अरक्षणं च नारीणां मायया स्त्रीनिषेवणम् ॥ ७॥
कालागताप्रदानं च धान्यवृद्ध्युपसेवनम् ।
निन्दिताच्च धनादानं पण्यानां कूटजीवनम् ॥ ८॥
विषमारणमन्त्राणां सततं वृषवाहनम् ।
उच्चाटनाभिचारं च धान्यादानं भिषक्क्रिया ॥ ९॥
जिह्वाकामोपभोगार्थं यस्यारम्भः सुकर्मसु ।
मूलेनाध्यापको नित्यं वेदज्ञानादिकं च यत् ॥ १०॥
ब्राह्म्यादिव्रतसन्त्यागश्चान्याचारनिषेवणम् ।
असच्छास्त्राधिगमनं शुष्कतर्कावलम्बनम् ॥ ११॥
देवाग्निगुरुसाधूनां निन्दा या ब्राह्मणस्य च ।
प्रत्यक्षं वा परोक्षं वा राज्ञां मण्डलिनामपि ॥ १२॥
उत्सन्नपितृदेवेज्याः स्वकर्मत्यागिनश्च ये ।
दुःशीला नास्तिकाः पापाः सदा वासत्यवादिनः ॥ १३॥
पर्वकाले दिवा वाप्सु वियोनौ पशुयोनिषु ।
रजस्वलाया योनौ च मैथुनं यः समाचरेत् ॥ १४॥
स्त्रीपुत्रमित्रसम्प्राप्ते आशाच्छेदकराश्च ये ।
जनस्याप्रियवक्तारः क्रूराः समयभेदिनः ॥ १५॥
भेत्ता तडागकूपानां विक्रतारो रसस्य च ।
एकपङ्क्तिस्थितानां च पाकभेदं करोति यः ॥ १६॥
इत्येतैः स्त्रीनराः पापैरुपपातकिनः स्मृताः ।
युक्ता एभिस्तथान्येऽपि शृणु तांस्तु ब्रवीमि ते ॥ १७॥
ये गोब्राह्मणकन्यानां स्वामिमित्रतपस्विनाम् ।
विनाशयन्ति कार्याणि ते नरा नारकाः स्मृताः ॥ १८॥
परस्त्रियाभितप्यन्ते ये परद्रव्यसूचकाः ।
परद्रव्यहरा नित्यं तौलमिथ्यानुसारकाः ॥ १९॥
द्विजदुःखकरा ये च प्रहारं चोद्धरन्ति ये ।
सेवन्ते तु द्विजाः शूद्रां सुरां बध्नन्ति कामतः ॥ २०॥
ये पापनिरताः क्रूराः येऽपि हिंसाप्रिया नराः ।
वृत्त्यर्थं येऽपि कुर्वन्ति दानयज्ञादिकाः क्रियाः ॥ २१॥
गोष्ठाग्निजलरथ्यासु तरुच्छायानगेषु च ।
त्यजन्ति ये पुरीषाद्यानारामायतनेषु च ॥ २२॥
लज्जाश्रमप्रासादेषु मद्यपानरताश्च ये ।
कृतकेलिभुजङ्गाश्च रन्ध्रान्वेषणतत्पराः ॥ २३॥
वंशेष्टकाशिलाकाष्ठैः शृङ्गैः शङ्कुभिरेव च ।
ये मार्गमनुरुन्धन्ति परसीमां हरन्ति ये ॥ २४॥
कूटशासनकर्तारः कूटकर्मक्रियारताः ।
कूटपाकान्नवस्त्राणां कूटसंव्यवहारिणः ॥ २५॥
धनुषः शस्त्रशल्यानां कर्ता यः क्रयविक्रयी ।
निर्दयोऽतीव भृत्येषु पशूनां दमनश्च यः ॥ २६॥
मिथ्या प्रवदतो वाच आकर्णयति यः शनैः ।
स्वामिमित्रगुरुद्रोही मायावी चपलः शठः ॥ २७॥