५ उमासंहिता, अध्याय 5: महापातकवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.५. पञ्चमोऽध्यायः ।
महापातकवर्णनम् ।
व्यास उवाच ।
ये पापनिरता जीवा महानरकहेतवः ।
भगवंस्तान् समाचक्ष्व ब्रह्मपुत्र नमोऽस्तु ते ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
सनत्कुमार उवाच ।
ये पापनिरता जीवा महानरकहेतवः ।
ते समासेन कथ्यन्ते सावधानतया शृणु ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
परस्त्रीद्रव्यसङ्कल्पश्चेतसानिष्टचिन्तनम् ।
अकार्याभिनिवेशश्च चतुर्धा कर्म मानसम् ॥ ३॥
अविबद्धप्रलापत्वमसत्यं चाप्रियं च यत् ।
परोक्षतश्च पैशुन्यं चतुर्धा कर्म वाचिकम् ॥ ४॥
अभक्ष्यभक्षणं हिंसा मिथ्याकार्यनिवेशनम् ।
परस्वानामुपादानं चतुर्धा कर्म कायिकम् ॥ ५॥
इत्येतद् द्वादशविधं कर्म प्रोक्तं त्रिसाधनम् ।
अस्य भेदान् पुनर्वक्ष्ये येषां फलमनन्तकम् ॥ ६॥
ये द्विषन्ति महादेवं संसारार्णवतारकम् ।
सुमहत्पातकं तेषां निरयार्णवगामिनाम् ॥ ७॥
ये शिवज्ञानवक्तारं निन्दन्ति च तपस्विनम् ।
गुरून् पितॄनथोन्मत्तास्ते यान्ति निरयार्णवम् ॥ ८॥
शिवनिन्दा गुरोर्निन्दा शिवज्ञानस्य दूषणम् ।
देवद्रव्यापहरणं द्विजद्रव्यविनाशनम् ॥ ९॥
हरन्ति ये च सम्मूढाश्शिवज्ञानस्य पुस्तकम् ।
महान्ति पातकान्याहुरनन्तफलदानि षट् ॥ १०॥
नाभिनन्दन्ति ये दृष्ट्वा शिवपूजां प्रकल्पिताम् ।
न नमन्त्यर्चितं दृष्ट्वा शिवलिङ्गं स्तुवन्ति न ॥ ११॥
यथेष्टचेष्टा निःशङ्काः सन्तिष्ठन्ते रमन्ति च ।
उपचारविनिर्मुक्ताः शिवाग्रे गुरुसन्निधौ ॥ १२॥
स्थानसंस्कारपूजां च ये न कुर्वन्ति पर्वसु ।
विधिवद्वा गुरूणां च कर्मयोगव्यवस्थिताः ॥ १३॥
ये त्यजन्ति शिवाचारं शिवभक्तान्द्विषन्ति च ।
असम्पूज्य शिवज्ञानं येऽधीयन्ते लिखन्ति च ॥ १४॥
अन्यायतः प्रयच्छन्ति शृण्वन्त्युच्चारयन्ति च ।
विक्रीडन्ति च लोभेन कुज्ञाननियमेन च ॥ १५॥
असंस्कृतप्रदेशेषु यथेष्टं स्वापयन्ति च ।
शिवज्ञानकथाक्षेपं यः कृत्वान्यत्प्रभाषते ॥ १६॥
न ब्रवीति च यः सत्यं न प्रदानं करोति च ।
अशुचिर्वाऽशुचिस्थाने यः प्रवक्ति शृणोति च ॥ १७॥
गुरुपूजामकृत्वैव यः शास्त्रं श्रोतुमिच्छति ।
न करोति च शुश्रूषामाज्ञां च भक्तिभावतः ॥ १८॥
नाभिनन्दति तद्वाक्यमुत्तरं च प्रयच्छति ।
गुरुकर्मण्यसाध्यं यत्तदुपेक्षां करोति च ॥ १९॥
गुरुमार्तमशक्तं च विदेशं प्रस्थितं तथा ।
वैरिभिः परिभूतं वा यः सन्त्यजति पापकृत् ॥ २०॥
तद्भार्यापुत्रमित्रेषु यश्चावज्ञां करोति च ।
एवं सुवाचकस्यापि गुरोर्धर्मानुदर्शिनः ॥ २१॥
एतानि खलु सर्वाणि कर्माणि मुनिसत्तम ।
सुमहत्पातकान्याहुः शिवनिन्दासमानि च ॥ २२॥
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।
महापातकिनस्त्वेते तत्संयोगी च पञ्चमः ॥ २३॥
क्रोधाल्लोभाद्भयाद् द्वेषाद्ब्राह्मणस्य वधे तु यः ।
मर्मान्तिकं महादोषमुक्त्वा स ब्रह्महा भवेत् ॥ २४॥
ब्राह्मणं यः समाहूय दत्त्वा यश्चाददाति च ।
निर्दोषं दूषयेद्यस्तु स नरो ब्रह्महा भवेत् ॥ २५॥
यश्च विद्याभिमानेन निस्तेजयति सुद्विजम् ।
उदासीनं सभामध्ये ब्रह्महा स प्रकीर्तितः ॥ २६॥
मिथ्यागुणैर्य आत्मानं नयत्युत्कर्षतां बलात् ।
गुणानपि निरुद्वास्य स च वै ब्रह्महा भवेत् ॥ २७॥