५ उमासंहिता, अध्याय 4: शिवमायाप्रभाववर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.४. चतुर्थोऽध्यायः ।
शिवमायाप्रभाववर्णनम् ।
मुनय ऊचुः ।
तात तात महाभाग धन्यस्त्वं हि महामते ।
अद्भुतेयं कथा शम्भोः श्राविता परभक्तिदा ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
पुनर्ब्रूहि कथां शम्भोर्व्यासप्रश्नानुसारतः ।
सर्वज्ञस्त्वं व्यासशिष्यः शिवतत्त्वविचक्षणः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
सूत उवाच ।
एवमेव गुरुर्व्यासः पृष्टवान् मेऽजसम्भवम् ।
सनत्कुमारं सर्वज्ञं शिवभक्तं मुनीश्वरम् ॥ ३॥
व्यास उवाच ।
सनत्कुमार सर्वज्ञ श्रावितेयं शुभा कथा ।
शङ्करस्य महेशस्य नानालीलाविहारिणः ॥ ४॥
पुनर्ब्रूहि महादेवमहिमानं विशेषतः ।
श्रद्धा च महती श्रोतुं मम तात प्रवर्धते ॥ ५॥
महिम्ना येन शम्भोस्तु ये ये लोके विमोहिताः ।
मायया ज्ञानमाहृत्य नानालीलाविहारिणः ॥ ६॥
सनत्कुमार उवाच ।
शृणु व्यास महाबुद्धे शाङ्करीं सुखदां कथाम् ।
यस्याः श्रवणमात्रेण शिवे भक्तिः प्रजायते ॥ ७॥
शिवः सर्वेश्वरो देवः सर्वात्मा सर्वदर्शनः ।
महिम्ना तस्य सर्वं हि व्याप्तं च सकलं जगत् ॥ ८॥
शिवस्यैव परा मूर्तिर्ब्रह्मविष्ण्वीश्वरात्मिका ।
सर्वभूतात्मभूताख्या त्रिलिङ्गालिङ्गरूपिणी ॥ ९॥
देवानां योनयश्चाष्टौ मानुषी नवमी च या ।
तिरश्चां योनयः पञ्च भवन्त्येवं चतुर्दश ॥ १०॥
भूता वा वर्तमाना वा भविष्याश्चैव सर्वशः ।
शिवात्सर्वे प्रवर्तन्ते लीयन्ते वृद्धिमागताः ॥ ११॥
ब्रह्मेन्द्रोपेन्द्रचन्द्राणां देवदानवभोगिनाम् ।
गन्धर्वाणां मनुष्याणामन्येषां वापि सर्वशः ॥ १२॥
बन्धुर्मित्रमथाचार्यो रक्षन्नेतार्थवान् गुरुः ।
कल्पद्रुमोऽथ वा भ्राता पिता माता शिवो मतः ॥ १३॥
शिवः सर्वमयः पुंसां स्वयं वेद्यः परात्परः ।
वक्तुं न शक्यते यश्च परं चानुपरं च यत् ॥ १४॥
तन्माया परमा दिव्या सर्वत्र व्यापिनी मुने ।
तदधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ १५॥
कामेन स्वसहायेन प्रबलेन मनोभुवा ।
सर्वः प्रधर्षितो वीरो विष्ण्वादिप्रबलोऽपि हि ॥ १६॥
शिवमायाप्रभावेणाभूद्धरिः काममोहितः ।
परस्त्रीधर्षणं चक्रे बहुवारं मुनीश्वर ॥ १७॥
इन्द्रस्त्रिदशपो भूत्वा गौतमस्त्रीविमोहितः ।
पापं चकार दुष्टात्मा शापं प्राप मुनेस्तदा ॥ १८॥
पावकोऽपि जगच्छ्रेष्ठो मोहितः शिवमायया ।
कामाधीनः कृतो गर्वात्ततस्तेनैव चोद्धृतः ॥ १९॥
जगत्प्राणोऽपि गर्वेण मोहितः शिवमायया ।
कामेन निर्जितो व्यास चक्रेऽन्यस्त्रीरतिं पुरा ॥ २०॥
चण्डरश्मिस्तु मार्तण्डो मोहितः शिवमायया ।
कामाकुलो बभूवाशु दृष्ट्वाश्वीं हयरूपधृक् ॥ २१॥
चन्द्रश्च मोहितः शम्भोर्मायया कामसङ्कुलः ।
गुरुपत्नीं जहाराथ युतस्तेनैव चोद्धृतः ॥ २२॥
पूर्वं तु मित्रावरुणौ घोरे तपसि संस्थितौ ।
मोहितौ तावपि मुनी शिवमायाविमोहितौ ॥ २३॥
उर्वशीं तरुणीं दृष्ट्वा कामुकौ सम्बभूवतुः ।
मित्रः कुम्भे जहौ रेतो वरुणोऽपि तथा जले ॥ २४॥
ततः कुम्भात्समुत्पन्नो वसिष्ठो मित्रसम्भवः ।
अगस्त्यो वरुणाज्जातो वडवाग्निसमद्युतिः ॥ २५॥
दक्षश्च मोहितः शम्भोर्मायया ब्रह्मणः सुतः ।
भ्रातृभिः स भगिन्यां वै भोक्तुकामोऽभवत्पुरा ॥ २६॥
ब्रह्मा च बहुवारं हि मोहितः शिवमायया ।
अभवद्भोक्तुकामश्च स्वसुतायां परासु च ॥ २७॥