५ उमासंहिता, अध्याय 3: कृष्णादिशिवभक्तोद्धारण शिवमाहात्म्यवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 82 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.३. तृतीयोऽध्यायः ।
कृष्णादिशिवभक्तोद्धारण शिवमाहात्म्यवर्णनम् ।
सनत्कुमार उवाच ।
एतच्छ्रुत्वा वचस्तस्य सोऽब्रवीत्तं महामुनिम् ।
विस्मयं परमं गत्वोपमन्युं शान्तमानसम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
वासुदेव उवाच ।
धन्यस्त्वमसि विप्रेन्द्र कस्त्वां स्तोतुमलं कृती ।
यस्य देवादिदेवस्ते सान्निध्यं कुरुते श्रमे ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
दर्शनं मुनिशार्दूल दद्यात्स भगवान् शिवः ।
अपि तावन्ममाप्येवं प्रसादं वा करोत्वसौ ॥ ३॥
उपमन्युरुवाच ।
अचिरेणैव कालेन महादेवं न संशयः ।
तस्यैव कृपया त्वं वै द्रक्ष्यसे पुरुषोत्तम ॥ ४॥
षोडशे मासि सुवरान् प्राप्स्यसि त्वं महेश्वरात् ।
सपत्नीकात्कथं नो दास्यते देवो वरान्हरे ॥ ५॥
पूज्योऽसि दैवतैः सर्वैः श्लाघनीयः सदा गुणैः ।
जाप्यं तेऽहं प्रवक्ष्यामि श्रद्दधानाय चाच्युत ॥ ६॥
तेन जपप्रभावेण सत्यं द्रक्ष्यसि शङ्करम् ।
आत्मतुल्यबलं पुत्रं लभिष्यसि महेश्वरात् ॥ ७॥
जपो नमः शिवायेति मन्त्रराजमिमं हरे ।
सर्वकामप्रदं दिव्यं भुक्तिमुक्तिप्रदायकम् ॥ ८॥
सनत्कुमार उवाच ।
एवं कथयतस्तस्य महादेवाश्रिताः कथाः ।
दिनान्यष्टौ प्रयातानि मुहूर्तमिव तापस ॥ ९॥
नवमे तु दिने प्राप्ते मुनिना स च दीक्षितः ।
मन्त्रमध्यापितं शार्वमाथर्वशिरसं महत् ॥ १०॥
दण्डी मुण्डी च सद्योऽसौ बभूव सुसमाहितः ।
पादाङ्गुष्ठोद्धृततनुस्तेपे चोर्ध्वभुजस्तथा ॥ ११॥
सम्प्राप्ते षोडशे मासि सन्तुष्टः परमेश्वरः ।
पार्वत्या सहितः शम्भुर्ददौ कृष्णाय दर्शनम् ॥ १२॥
पार्वत्या सहितं देवं त्रिनेत्रं चन्द्रशेखरम् ।
ब्रह्माद्यैः स्तूयमानं तु पूजितं सिद्धकोटिभिः ॥ १३॥
दिव्यमाल्याम्बरधरं भक्तिनम्रैः सुरासुरैः ।
प्रणतं च विशेषेण नानाभूषणभूषितम् ॥ १४॥
सर्वाश्चर्यमयं कान्तं महेशमजमव्ययम् ।
नानागणान्वितं तुष्टं पुत्राभ्यां संयुतं प्रभुम् ॥ १५॥
श्रीकृष्णः प्राञ्जलिर्दृष्ट्वा विस्मयोत्फुल्ललोचनः ।
ईदृशं शङ्करं प्रीतः प्रणनाम महोत्सवः ॥ १६॥
नानाविधैः स्तुतिपदैर्वाङ्मयेनार्चयत्तदा ।
सहस्रनाम्ना देवेशं तुष्टाव नतकन्धरः ॥ १७॥
ततो देवाः सगन्धर्वा विद्याधरमहोरगाः ।
मुमुचुः पुष्पवृष्टिं च साधुवादान् मनोनुगान् ॥ १८॥
पार्वत्याश्च मुखं दृष्ट्वा भगवान् भक्तवत्सलः ।
उवाच केशवं तुष्टो रुद्रश्चाथ महेश्वरः ॥ १९॥
श्रीमहादेव उवाच ।
कृष्ण जानामि भक्तं त्वां मयि नित्यं दृढव्रतम् ।
वृणीष्व त्वं वरान् मत्तः पुण्यांस्त्रैलोक्यदुर्लभान् ॥ २०॥
सनत्कुमार उवाच ।
तस्य तद्वचनं श्रुत्वा कृष्णः प्राञ्जलिरादरात् ।
प्राह सर्वेश्वरं शम्भुं सुप्रणम्य पुनः पुनः ॥ २१॥
श्रीकृष्ण उवाच ।
देवदेव महादेव याचेऽहं ह्युत्तमान् वरान् ।
त्वत्तोऽष्टप्रमितान्नाथ त्वयोद्दिष्टान् महेश्वर ॥ २२॥
तव धर्मे मतिर्नित्यं यशश्चाप्रचलं महत् ।
त्वत्सामीप्यं स्थिरा भक्तिस्त्वयि नित्यं ममास्त्विति ॥ २३॥
स्त्रीणां मम दशाद्यानां पुत्राः शम्भो भवन्तु वै ।
वध्याश्च रिपवः सर्वे सङ्ग्रामे बलदर्पिताः ॥ २४॥
अपमानो भवेन्नैव क्वचिन्मे शत्रुतः प्रभो ।
योगिनामपि सर्वेषां भवेयमतिवल्लभः ॥ २५॥
इत्यष्टौ सुवरान्देहि देवदेव नमोऽस्तु ते ।
सर्वेश्वरस्त्वमेवासि मत्प्रभुश्च विशेषतः ॥ २६॥
सनत्कुमार उवाच ।
तस्य तद्वचनं श्रुत्वा तमाह भगवान् भवः ।
सर्वं भविष्यतीत्येवं पुनः तं प्राह शूलधृक् ॥ २७॥