५ उमासंहिता, अध्याय 2: सनत्कुमारव्याससंवादे उपमन्यूपदेशो, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.२. द्वितीयोऽध्यायः ।
सनत्कुमारव्याससंवादे उपमन्यूपदेशः ।
सनत्कुमार उवाच ।
इत्याकर्ण्य मुनेर्वाक्यमुपमन्योर्महात्मनः ।
जातभक्तिर्महादेवे कृष्णः प्रोवाच तं मुनिम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
श्रीकृष्ण उवाच ।
उपमन्यो मुने तात कृपां कुरु ममोपरि ।
ये ये शिवं समाराध्य कामानापुश्च तान्वद ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
सनत्कुमार उवाच ।
इत्याकर्ण्योपमन्युः स मुनिः शैववरो महान् ।
कृष्णवाक्यं सुप्रशस्य प्रत्युवाच कृपानिधिः ॥ ३॥
उपमन्युरुवाच ।
यैर्यैर्भवाराधनतः प्राप्तो हृत्काम एव हि ।
तांस्तान् भक्तान् प्रवक्ष्यामि शृणु त्वं वै यदूद्वह ॥ ४॥
शर्वात्सर्वामरैश्वर्यं हिरण्यकशिपुः पुरा ।
वर्षाणां दशलक्षाणि सोऽलभच्चन्द्रशेखरात् ॥ ५॥
तस्याथ पुत्रप्रवरो नन्दनो नाम विश्रुतः ।
स च शर्ववरादिन्द्रं वर्षायुतमयोधयत् ॥ ६॥
विष्णुचक्रं च तद् घोरं वज्रमाखण्डलस्य च ।
शीर्णं पुराभवत्कृष्ण तदङ्गेषु महाहवे ॥ ७॥
न शस्त्राणि वहन्त्यङ्गे धर्मतस्तस्य धीमतः ।
ग्रहस्यातिबलस्याजौ चक्रवज्रमुखान्यपि ॥ ८॥
अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा ।
देवदत्तवरा जघ्नुरसुरेन्द्रान् सुरा भृशम् ॥ ९॥
तुष्टो विद्युत्प्रभस्यापि त्रैलोक्येश्वरतामदात् ।
शतवर्षसहस्राणि सर्वलोकेश्वरो भवः ॥ १०॥
तथा पुत्रसहस्राणामयुतं च ददौ शिवः ।
मम चानुचरो नित्यं भविष्यस्यब्रवीदिति ॥ ११॥
कुशद्वीपे शुभं राज्यमददाद्भगवान् भवः ।
स तस्मै शङ्करः प्रीत्या वासुदेव प्रहृष्टधीः ॥ १२॥
धात्रा सृष्टः शतमखो दैत्यो वर्षशतं पुरा ।
तपः कृत्वा सहस्रं तु पुत्राणामलभद्भवात् ॥ १३॥
याज्ञवल्क्य इति ख्यातो गीतो वेदेषु वै मुनिः ।
आराध्य स महादेवं प्राप्तवान् ज्ञानमुत्तमम् ॥ १४॥
वेदव्यासस्तु यो नाम्ना प्राप्तवानतुलं यशः ।
सोऽपि शङ्करमाराध्य त्रिकालज्ञानमाप्तवान् ॥ १५॥
इन्द्रेण वालखिल्यास्ते परिभूतास्तु शङ्करात् ।
लेभिरे सोमहर्तारं गरुडं सर्वदुर्जयम् ॥ १६॥
आपः प्रनष्टाः सर्वाश्च पूर्वरोषात्कपर्दिनः ।
शर्वं समकपालेन देवैरिष्ट्वाः प्रवर्तिताः ॥ १७॥
अत्रेर्भार्या चानसूया त्रीणि वर्षशतानि च ।
मुशलेषु निराहारा सुप्त्वा शर्वात्ततः सुतान् ॥ १८॥
दत्तात्रेयं मुनिं लेभे चन्द्रं दुर्वाससं तथा ।
गङ्गां प्रवर्तयामास चित्रकूटे पतिव्रता ॥ १९॥
विकर्णश्च महादेवं तथा भक्तसुखावहम् ।
प्रसाद्य महतीं सिद्धिमाप्तवान् मधुसूदन ॥ २०॥
चित्रसेनो नृपः शम्भुं प्रसाद्य दृढभक्तिमान् ।
समस्तनृपभीतिभ्योऽभयं प्रापातुलं च कम् ॥ २१॥
श्रीकरो गोपिकासूनुर्नृपपूजाविलोकनात् ।
जातभक्तिर्महादेवे परमां सिद्धिमाप्तवान् ॥ २२॥
चित्राङ्गदो नृपसुतः सीमन्तिन्याः पतिर्हरे ।
शिवानुग्रहतो मग्नो यमुनायां मृतो न हि ॥ २३॥
स च तक्षालयं गत्वा तन्मैत्रीं प्राप्य सुव्रतः ।
आयातः स्वगृहं प्रीतो नानाधनसमन्वितः ॥ २४॥
सीमन्तिनी प्रिया तस्य सोमव्रतपरायणा ।
शिवानुग्रहतः कृष्ण लेभे सौभाग्यमुत्तमम् ॥ २५॥
तत्प्रभावाद् व्रते तस्मिन्नेको द्विजसुतः पुरा ।
कश्चित्स्त्रीत्वं गतो लोभात्कृतदाराकृतिश्छलात् ॥ २६॥
चञ्चुका पुंश्चली दुष्टा गोकर्णे द्विजतः पुरा ।
श्रुत्वा धर्मकथां शम्भोर्भक्त्या प्राप परां गतिम् ॥ २७॥