५ उमासंहिता, अध्याय 1: कृष्णोपमन्युसंवादे स्वगतिवर्णनं, Verse 1
श्रीशिवमहापुराणम् ५ उमासंहिता ॥
श्रीगणेशाय नमः ॥
Containing 74 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रीशिवमहापुराणम् ५ उमासंहिता ॥
श्रीगणेशाय नमः ॥
५.१. प्रथमोऽध्यायः ।
ऋष्णोपमन्युसंवादे स्वगतिवर्णनम् ।
यो धत्ते भुवनानि सत्त्वगुणवान्स्रष्टा रजःसंश्रयः संहर्त्ता तमसान्वितो गुणवतीं मायामतीत्य स्थितः ।
सत्यानन्दमनन्तबोधममलं ब्रह्मादिसंज्ञास्पदं नित्यं सत्त्वसमन्वयादधिगतं पूर्णं शिवं धीमहि ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
ऋषय ऊचुः ।
सूत सूत महाप्राज्ञ व्यासशिष्य नमोऽस्तु ते ।
चतुर्थी कोटिरुद्राख्या श्राविता संहिता त्वया ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
पञ्चमी उमासंहिता
अथोमासंहितान्तःस्थनानाख्यानसमन्वितम् ।
ब्रूहि शम्भोश्चरित्रं वै साम्बस्य परमात्मनः ॥ ३॥
सूत उवाच ।
महर्षयः शौनकाद्याः शृणुत प्रेमतः शुभम् ।
शाङ्करं चरितं दिव्यं भुक्तिमुक्तिप्रदं परम् ॥ ४॥
इतीदृशं पुण्यप्रश्नं पृष्टवान् मुनिसत्तमः ।
व्यासः सनत्कुमारं वै शैवं सच्चरितं जगौ ॥ ५॥
सनत्कुमार उवाच ।
वासुदेवाय यत्प्रोक्तमुपमन्युमहर्षिणा ।
तदुच्यते मया व्यास चरितं हि महेशितुः ॥ ६॥
पुरा पुत्रार्थमगमत्कैलासं शङ्करालयम् ।
वसुदेवसुतः कृष्णस्तपस्तप्तुं शिवस्य हि ॥ ७॥
अत्रोपमन्युं सन्दृष्ट्वा तपन्तं शृङ्ग उत्तमे ।
प्रणम्य भक्त्या स मुनिं पर्यपृच्छत्कृताञ्जलिः ॥ ८॥
श्रीकृष्ण उवाच ।
उपमन्यो महाप्राज्ञ शैवप्रवर सन्मते ।
पुत्रार्थमगमं तप्तुं तपोऽत्र गिरिशस्य हि ॥ ९॥
ब्रूहि शङ्करमाहात्म्यं सदानन्दकरं मुने ।
यच्छ्रुत्वा भक्तितः कुर्यां तप ऐश्वरमुत्तमम् ॥ १०॥
सनत्कुमार उवाच ।
इति श्रुत्वा वचस्तस्य वासुदेवस्य धीमतः ।
प्रत्युवाच प्रसन्नात्मा ह्युपमन्युः स्मरन् शिवम् ॥ ११॥
उपमन्युरुवाच ।
शृणु कृष्ण महाशैव महिमानं महेशितुः ।
यमद्राक्षमहं शम्भोर्भक्तिवर्धनमुत्तमम् ॥ १२॥
तपःस्थोऽहं समद्राक्षं शङ्करं च तदायुधान् ।
परिवारं समस्तं च विष्ण्वादीनमरादिकान् ॥ १३॥
त्रिभिरंशैः शोभमानमजस्रसुखमव्ययम् ।
एकपादं महादंष्ट्रं सज्वालकवलैर्मुखैः ॥ १४॥
द्विसहस्रमयूखानां ज्योतिषातिविराजितम् ।
सर्वास्त्रप्रवराबाधमनेकाक्षं सहस्रपात् ॥ १५॥
यश्च कल्पान्तसमये विश्वं संहरति ध्रुवम् ।
नावध्यो यस्य च भवेत्त्रैलौक्ये सचराचरे ॥ १६॥
महेश्वरभुजोत्सृष्टं त्रैलोक्यं सचराचरम् ।
निर्ददाह द्रुतं कृत्स्नं निमेषार्द्धान्न संशयः ॥ १७॥
तपःस्थो रुद्रपार्श्वस्थं दृष्टवानहमव्ययम् ।
गुह्यमस्त्रं परं चास्य न तुल्यमधिकं क्वचित् ॥ १८॥
यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः ।
विजयाभिधमत्युग्रं सर्वशस्त्रास्त्रनाशकम् ॥ १९॥
दारयेद्यन्महीं कृत्स्नां शोषयेद्यन्महोदधिम् ।
पातयेदखिलं ज्योतिश्चक्रं यन्नात्र संशयः ॥ २०॥
यौवनाश्वो हतो येन मान्धाता सबलः पुरा ।
चक्रवर्ती महातेजास्त्रैलोक्यविजयो नृपः ॥ २१॥
दर्पाविष्टो हैहयश्च निःक्षिप्तो लवणासुरः ।
शत्रुघ्नं नृपतिं युद्धे समाहूय समन्ततः ॥ २२॥
तस्मिन्दैत्ये विनष्टे तु रुद्रहस्ते गतं तु यत् ।
तच्छूलमिति तीक्ष्णाग्रं सन्त्रासजननं महत् ॥ २३॥
त्रिशिखां भृकुटीं कृत्वा तर्जयन्तमिव स्थितम् ।
विधूम्रानलसङ्काशं बालसूर्यमिवोदितम् ॥ २४॥
सर्पहस्तमनिर्देश्यं पाशहस्तमिवान्तकम् ।
परशुं तीक्ष्णधारं च सर्पाद्यैश्च विभूषितम् ॥ २५॥
कल्पान्तदहनाकारं तथा पुरुषविग्रहम् ।
यत्तद्भार्गवरामस्य क्षत्रियान्तकरं रणे ॥ २६॥
रामो यद्बलमाश्रित्य शिवदत्तश्च वै पुरा ।
त्रिःसप्तकृत्वो स क्षत्रं ददाह हृषितो मुनिः ॥ २७॥