Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं

Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 1

२.१.२. द्वितीयोऽध्यायः ।

नारदतपोवर्णनम् ।

सूत उवाच ।

एकस्मिन्समये विप्रा नारदो मुनिसत्तमः ।

ब्रह्मपुत्रो विनीतात्मा तपोऽर्थं मन आदधे ॥ १॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 2

हिमशैलगुहा काचिदेका परमशोभना ।

यत्समीपे सुरनदी सदा वहति वेगतः ॥ २॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 3

तत्राश्रमो महादिव्यो नानाशोभासमन्वितः ।

तपोऽर्थं स ययौ तत्र नारदो दिव्यदर्शनः ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 4

॥

द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 4

तां दृष्ट्वा मुनिशार्दूलस्तेपे स सुचिरं तपः ।

बध्वासनं दृढं मौनी प्राणानायम्य शुद्धधीः ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 5

चक्रे मुनिः समाधिं तमहम्ब्रह्मेति यत्र ह ।

विज्ञानं भवति ब्रह्मसाक्षात्कारकरं द्विजाः ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 6

इत्थं तपति तस्मिन्वै नारदे मुनिसत्तमे ।

चकम्पेऽथ शुनासीरो मनस्सन्तापविह्वलः ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 7

मनसीति विचिन्त्यासौ मुनिर्मे राज्यमिच्छति ।

तद्विघ्नकरणार्थं हि हरिर्यत्नमियेष सः ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 8

सस्मार स स्मरं शक्रश्चेतसा देवनायकः ।

आजगाम द्रुतं कामः समधीर्महिषीयुतः ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 9

अथागतं स्मरं दृष्ट्वा सम्बोध्य सुरराट् प्रभुः ।

उवाच तं प्रपश्याशु स्वार्थे कुटिलशेमुषिः ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 10

इन्द्र उवाच ।

मित्रवर्य महावीर सर्वदा हितकारक ।

श‍ृणु प्रीत्या वचो मे त्वं कुरु साहाय्यमात्मना ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 11

त्वद्बलान्मे बहूनाञ्च तपोगर्वो विनाशितः ।

मद्राज्यस्थिरता मित्र त्वदनुग्रहतः सदा ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 12

हिमशैलगुहायां हि मुनिस्तपति नारदः ।

मनसोद्दिश्य विश्वेशं महासंयमवान्दृढः ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 13

याचेन्न विधितो राज्यं स ममेति विशङ्कितः ।

अद्यैव गच्छ तत्र त्वं तत्तपोविघ्नमाचर ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 14

इत्याज्ञप्तो महेन्द्रेण स कामः समधुप्रियः ।

जगाम तत्स्थलं गर्वादुपायं स्वं चकार ह ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 15

रचयामास तत्राशु स्वकलाः सकला अपि ।

वसन्तोऽपि स्वप्रभावं चकार विविधं मदात् ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 16

न बभूव मुनेश्चेतो विकृतं मुनिसत्तमाः ।

भ्रष्टो बभूव तद्गर्वो महेशानुग्रहेण ह ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 17

श‍ृणुतादरतस्तत्र कारणं शौनकादयः ।

ईश्वरानुग्रहेणात्र न प्रभावः स्मरस्य हि ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 18

अत्रैव शम्भुनाकारि सुतपश्च स्मरारिणा ।

अत्रैव दग्धस्तेनाशु कामो मुनितपोपहः ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 19

कामजीवनहेतोर्हि रत्या सम्प्रार्थितैः सुरैः ।

सम्प्रार्थित उवाचेदं शङ्करो लोकशङ्करः ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 20

कञ्चित्समयमासाद्य जीविष्यति सुराः स्मरः ।

परन्त्विह स्मरोपायश्चलिष्यति न कश्चन ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 21

इह यावद्दृष्यते भूर्जनैः स्थित्वामराः सदा ।

कामबाणप्रभावोऽत्र न चलिष्यत्यसंशयम् ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 22

इति शम्भूक्तितः कामो मिथ्यात्मगतिकस्तदा ।

नारदे स जगामाशु दिवमिन्द्रसमीपतः ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 23

आचख्यौ सर्ववृत्तान्तं प्रभावं च मुनेः स्मरः ।

तदाज्ञया ययौ स्थानं स्वकीयं समधुप्रियः ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 24

विस्मितोऽभूत्सुराधीशः प्रशशंसाथ नारदम् ।

तद्वृत्तान्तानभिज्ञो हि मोहितः शिवमायया ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 25

दुर्ज्ञेया शाम्भवी माया सर्वेषां प्राणिनामिह ।

भक्तं विनार्पितात्मानं तया सम्मोह्यते जगत् ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 2: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं, Verse 26

नारदोऽपि चिरं तस्थौ तत्रेशानुग्रहेण ह ।

पूर्णं मत्वा तपस्तत्स्वं विरराम ततो मुनिः ॥ २६॥