४ कोटिरुद्रसंहिता, अध्याय 31: कोटिरुद्रसंहितायां ज्ञाननिरूपणं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
चतुर्थी कोटिरुद्रसंहिता ४.४३. त्रिचत्वारिंशोऽध्यायः ।
ज्ञाननिरूपणम् ।
सूत उवाच ।
श्रूयतामृषयः सर्वे शिवज्ञानं यथा श्रुतम् ।
कथयामि महागुह्यं परमुक्तिस्वरूपकम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
कनारदकुमाराणां व्यासस्य कपिलस्य च ।
एतेषां च समाजे तैर्निश्चित्य समुदाहृतम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
इति ज्ञानं सदा ज्ञेयं सर्वं शिवमयं जगत् ।
शिवः सर्वमयो ज्ञेयः सर्वज्ञेन विपश्चिता ॥ ३॥
आब्रह्मतृणपर्यन्तं यत्किञ्चिद् दृश्यते जगत् ।
तत्सर्वं शिव एवास्ति स देवः शिव उच्यते ॥ ४॥
यदेच्छा तस्य जायेत तदा च क्रियते त्विदम् ।
सर्वं स एव जानाति तं न जानाति कश्चन ॥ ५॥
रचयित्वा स्वयं तच्च प्रविश्य दूरतः स्थितः ।
न तत्र च प्रविष्टोऽसौ निर्लिप्तश्चित्स्वरूपवान् ॥ ६॥
यथा च ज्योतिषश्चैव जलादौ प्रतिबिम्बता ।
वस्तुतो न प्रवेशो वै तथैव च शिवः स्वयम् ॥ ७॥
वस्तुतस्तु स्वयं सर्वं क्रमो हि भासते शुभः ।
अज्ञानं च मतेर्भेदो नास्त्यन्यच्च द्वयं पुनः ॥ ८॥
दर्शनेषु च सर्वेषु मतिभेदः प्रदर्श्यते ।
परं वेदान्तिनो नित्यमद्वैतं प्रतिचक्षते ॥ ९॥
स्वस्याप्यंशस्य जीवांऽशो ह्यविद्यामोहितोऽवशः ।
अन्योऽहमिति जानाति तया मुक्तो भवेच्छिवः ॥ १०॥
सर्वं व्याप्य शिवः साक्षाद् व्यापकः सर्वजन्तुषु ।
चेतनाचेतनेशोऽपि सर्वत्र शङ्करः स्वयम् ॥ ११॥
उपायं यः करोत्यस्य दर्शनार्थं विचक्षणः ।
वेदान्तमार्गमाश्रित्य तद्दर्शनफलं लभेत् ॥ १२॥
यथाग्निर्व्यापकश्चैव काष्ठे काष्ठे च तिष्ठति ।
यो वै मन्थति तत्काष्ठं स वै पश्यत्यसंशयम् ॥ १३॥
भक्त्यादिसाधनानीह यः करोति विचक्षणः ।
स वै पश्यत्यवश्यं हि तं शिवं नात्र संशयः ॥ १४॥
शिवःशिवःशिवश्चैव नान्यदस्तीति किञ्चन ।
भ्रान्त्या नानास्वरूपो हि भासते शङ्करः सदा ॥ १५॥
यथा समुद्रो मृच्चैव सुवर्णमथवा पुनः ।
उपाधितो हि नानात्वं लभते शङ्करस्तथा ॥ १६॥
कार्यकारणयोर्भेदो वस्तुतो न प्रवर्तते ।
केवलं भ्रान्तिबुद्ध्यैव तदभावे स नश्यति ॥ १७॥
यदा बीजात्प्ररोहश्च नानात्वं हि प्रकाशयेत् ।
अन्ते च बीजमेव स्यात्तत्प्ररोहश्च नश्यति ॥ १८॥
ज्ञानी च बीजमेव स्यात्प्ररोहो विकृतीर्मता ।
तन्निवृत्तौ पुनर्ज्ञानी नात्र कार्या विचारणा ॥ १९॥
सर्वं शिवः शिवः सर्वो नास्ति भेदश्च कश्चन ।
कथं च विविधं पश्यत्येकत्वं च कथं पुनः ॥ २०॥
यथैकं चैव सूर्याख्यं ज्योतिर्नानाविधं जनैः ।
जलादौ च विशेषेण दृश्यते तत्तथैव सः ॥ २१॥
सर्वत्र व्यापकश्चैव स्पर्शत्वं न विबध्यते ।
तथैव व्यापको देवो बध्यते न क्वचित्स वै ॥ २२॥
साहङ्कारस्तथा जीवस्तन्मुक्तः शङ्करः स्वयम् ।
जीवस्तुच्छः कर्मभोगी निर्लिप्तः शङ्करो महान् ॥ २३॥
यथैकं च सुवर्णादि मिलितं रजतादिना ।
अल्पमूल्यं प्रजायेत तथा जीवोऽप्यहंयुतः ॥ २४॥
यथैव हि सुवर्णादि क्षारादेः शोधितं शुभम् ।
पूर्ववन्मूल्यतां याति तथा जीवोऽपि संस्कृतेः ॥ २५॥
प्रथमं सद्गुरुं प्राप्य भक्तिभावसमन्वितः ।
शिवबुद्ध्या करोत्युच्चैः पूजनं स्मरणादिकम् ॥ २६॥
तद्बुध्या देहतो याति सर्वपापादिको मलः ।
तदाज्ञानं च नश्येत ज्ञानवाञ्जायते यदा ॥ २७॥