४ कोटिरुद्रसंहिता, अध्याय 28: कोटिरुद्रसंहितायां देवर्षिनृपशैवत्ववर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
चतुर्थी कोटिरुद्रसंहिता ४.३७. सप्तत्रिंशोऽध्यायः ।
देवर्षिनृपशैवत्ववर्णनम् ।
ऋषय ऊचुः ।
सूत सूत महाभाग ज्ञानवानसि सुव्रत ।
पुनरेव शिवस्यैव चरितं ब्रूहि विस्तरात् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
पुरातनाश्च राजान ऋषयो देवतास्तथा ।
आराधनं च तस्यैव चक्रुर्देववरस्य हि ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
सूत उवाच ।
साधु पृष्टमृषिश्रेष्ठाः श्रूयतां कथयामि वः ।
चरित्रं शाङ्करं रम्यं शृण्वतां भुक्तिमुक्तिदम् ॥ ३॥
एतदेव पुरा पृष्टो नारदेन पितामहः ।
प्रत्युवाच प्रसन्नात्मा नारदं मुनिसत्तमम् ॥ ४॥
ब्रह्मोवाच ।
शृणु नारद सुप्रीत्या शाङ्करं चरितं वरम् ।
प्रवक्ष्यामि भवत्स्नेहान्महापातकनाशनम् ॥ ५॥
रमया सहितो विष्णुः शिवपूजां चकार ह ।
कृपया परमेशस्य सर्वान्कामानवाप हि ॥ ६॥
अहं पितामहश्चापि शिवपूजनकारकः ।
तस्यैव कृपया तात विश्वसृष्टिकरः सदा ॥ ७॥
शिवपूजाकरा नित्यं मत्पुत्राः परमर्षयः ।
अन्ये च ऋषयो ये ते शिवपूजनकारकाः ॥ ८॥
नारद त्वं विशेषेण शिवपूजनकारकः ।
सप्तर्षयो वसिष्ठाद्याः शिवपूजनकारकाः ॥ ९॥
अरुन्धती महासाध्वी लोपामुद्रा तथैव च ।
अहल्या गौतमस्त्री च शिवपूजनकारिकाः ॥ १०॥
दुर्वासाः कौशिकः शक्तिर्दधीचो गौतमस्तथा ।
कणादो भार्गवो जीवो वैशम्पायन एव च ॥ ११॥
एते च मुनयः सर्वे शिवपूजाकरा मताः ।
तथा पराशरो व्यासः शिवपूजारतः सदा ॥ १२॥
उपमन्युर्महाभक्तः शिवस्य परमात्मनः ।
याज्ञवल्क्यो महाशैवो जैमिनिर्गर्ग एव च ॥ १३॥
शुकश्च शौनकाद्याश्च शङ्करस्य प्रपूजकाः ।
अन्येऽपि बहवः सन्ति मुनयो मुनिसत्तमाः ॥ १४॥
अदितिर्देवमाता च नित्यं प्रीत्या चकार ह ।
पार्थिवीं शैवपूजां वै सवधूः प्रेमतत्परा ॥ १५॥
शक्रादयो लोकपाला वसवश्च सुरास्तथा ।
महाराजिकदेवाश्च साध्याश्च शिवपूजकाः ॥ १६॥
गन्धर्वाः किन्नराद्याश्चोपसुराः शिवपूजकाः ।
तथासुरा महात्मानः शिवपूजाकरा मताः ॥ १७॥
हिरण्यकशिपुर्दैत्यः सानुजः ससुतो मुने ।
शिवपूजाकरो नित्यं विरोचनबली तथा ॥ १८॥
महाशैवः स्मृतो बाणो हिरण्याक्षसुतास्तथा ।
वृषपर्वा दनुस्तात दानवाः शिवपूजकाः ॥ १९॥
शेषश्च वासुकिश्चैव तक्षकश्च तथाऽपरे ।
शिवभक्ता महानागा गरुडाद्याश्च पक्षिणः ॥ २०॥
सूर्यचन्द्रावुभौ देवौ पृथ्व्यां वंशप्रवर्तकौ ।
शिवसेवारतौ नित्यं सवश्यौ तौ मुनीश्वर ॥ २१॥
मनवश्च तथा चक्रुः स्वायम्भुवपुरः सराः ।
शिवपूजां विशेषेण शिववेषधरा मुने ॥ २२॥
प्रियव्रतश्च तत्पुत्रास्तथा चोत्तानपात्सुतः ।
तद्वंशाश्चैव राजानः शिवपूजनकारकाः ॥ २३॥
ध्रुवश्च ऋषभश्चैव भरतो नवयोगिनः ।
तद्भ्रातरः परे चापि शिवपूजनकारकाः ॥ २४॥
वैवस्वतसुतास्तार्क्ष्य इक्ष्वाकुप्रमुखा नृपाः ।
शिवपूजारतात्मानः सर्वदा सुखभोगिनः ॥ २५॥
ककुत्स्थश्चापि मान्धाता सगरः शैवसत्तमः ।
मुचुकुन्दो हरिश्चन्द्रः कल्माषाङ्घ्रिस्तथैव च ॥ २६॥
भगीरथादयो भूपा बहवो नृपसत्तमाः ।
शिवपूजाकरा ज्ञेयाः शिववेषविधायिनः ॥ २७॥