४ कोटिरुद्रसंहिता, अध्याय 27: कोटिरुद्रसंहितायां शिवसहस्रनामस्तोत्रफलवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
चतुर्थी कोटिरुद्रसंहिता ४.३६. षट्त्रिंशोऽध्यायः ।
शिवसहस्रनामस्तोत्रफलवर्णनम् ।
सूत उवाच ।
श्रुत्वा विष्णुकृतं दिव्यं परनामविभूषितम् ।
सहस्रनाम स्वस्तोत्रं प्रसन्नोऽभून्महेश्वरः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
परीक्षार्थं हरेरीशः कमलेषु महेश्वरः ।
गोपयामास कमलं तदैकं भुवनेश्वरः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
पङ्कजेषु तदा तेषु सहस्रेषु बभूव च ।
न्यूनमेकं तदा विष्णुर्विह्वलः शिवपूजने ॥ ३॥
हृदा विचारितं तेन कुतो वै कमलं गतम् ।
यातं यातु सुखेनैव मन्नेत्रं कमलं न किम् ॥ ४॥
ज्ञात्वेति नेत्रमुद्धृत्य सर्वसत्त्वावलम्बनात् ।
पूजयामास भावेन स्तवयामास तेन च ॥ ५॥
ततस्तुतमथो दृष्ट्वा तथाभूतं हरो हरिम् ।
मा मेति व्याहरन्नेव प्रादुरासीज्जगद्गुरुः ॥ ६॥
तस्मादवतताराशु मण्डलात्पार्थिवस्य च ।
प्रतिष्ठितस्य हरिणा स्वलिङ्गस्य महेश्वरः ॥ ७॥
यथोक्तरूपिणं शम्भुं तेजोराशिसमुत्थितम् ।
नमस्कृत्य पुरः स्थित्वा स तुष्टाव विशेषतः ॥ ८॥
तदा प्राह महादेवः प्रसन्नः प्रहसन्निव ।
सम्प्रेक्ष्य कृपया विष्णुं कृताञ्जलिपुटं स्थितम् ॥ ९॥
शङ्कर उवाच ।
ज्ञातं मयेदं सकलं तव चित्तेप्सितं हरे ।
देवकार्यं विशेषेण देवकार्यरतात्मनः ॥ १०॥
देवकार्यस्य सिद्ध्यर्थं दैत्यनाशाय चाश्रमम् ।
सुदर्शनाख्यं चक्रं च ददामि तव शोभनम् ॥ ११॥
यद्रूपं भवता दृष्टं सर्वलोकसुखावहम् ।
हिताय तव देवेश धृतं भावय तद्ध्रुवम् ॥ १२॥
रणाजिरे स्मृतं तद्वै देवानां दुःखनाशनम् ।
इदं चक्रमिदं रूपमिदं नामसहस्रकम् ॥ १३॥
ये शृण्वन्ति सदा भक्त्या सिद्धिः स्यादनपायिनी ।
कामानां सकलानां च प्रसादान्मम सुव्रत ॥ १४॥
सूत उवाच ।
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ।
सुदर्शनं स्वपादोत्थं सर्वशत्रुविनाशनम् ॥ १५॥
विष्णुश्चापि सुसंस्कृत्य जग्राहोदङ्मुखस्तदा ।
नमस्कृत्य महादेवं विष्णुर्वचनमब्रवीत् ॥ १६॥
विष्णुरुवाच ।
शृणु देव मया ध्येयं पठनीयं च किं प्रभो ।
दुःखानां नाशनार्थं हि वद त्वं लोकशङ्कर ॥ १७॥
सूत उवाच ।
इति पृष्टस्तदा तेन सन्तुष्टस्तु शिवोऽब्रवीत् ।
प्रसन्नमानसो भूत्वा विष्णुं देवसहायकम् ॥ १८॥
शिव उवाच ।
रूपं ध्येयं हरे मे हि सर्वानर्थप्रशान्तये ।
अनेकदुःखनाशार्थं पठ नामसहस्रकम् ॥ १९॥
धार्यं चक्रं सदा मे हि सर्वाभीष्टस्य सिद्धये ।
त्वया विष्णो प्रयत्नेन सर्वचक्रवरं त्विदम् ॥ २०॥
अन्ये च ये पठिष्यन्ति पाठयिष्यन्ति नित्यशः ।
तेषां दुःखं न स्वप्नेऽपि जायते नात्र संशयः ॥ २१॥
राज्ञां च सङ्कटे प्राप्ते शतावृत्तिं चरेद्यदा ।
साङ्गं च विधिसंयुक्तं कल्याणं लभते नरः ॥ २२॥
रोगनाशकरं ह्येतद्विद्यावित्तदमुत्तमम् ।
सर्वकामप्रदं पुण्यं शिवभक्तिप्रदं सदा ॥ २३॥
यदुद्दिश्य फलं श्रेष्ठं पठिष्यन्ति नरास्त्विह ।
लप्स्यन्ते नात्र सन्देहः फलं तत्सत्यमुत्तमम् ॥ २४॥
यश्च प्रातः समुत्थाय पूजां कृत्वा मदीयिकाम् ।
पठते मत्समक्षं वै नित्यं सिद्धिर्न दूरतः ॥ २५॥
ऐहिकीं सिद्धिमाप्नोति निखिलां सर्वकामिकाम् ।
अन्ते सायुज्यमुक्तिं वै प्राप्नोत्यत्र न संशयः ॥ २६॥
सूत उवाच ।
एवमुक्त्वा तदा विष्णुं शङ्करः प्रीतमानसः ।
उपस्पृश्य कराभ्यां तमुवाच गिरिशः पुनः ॥ २७॥