४ कोटिरुद्रसंहिता, अध्याय 26: कोटिरुद्रसंहितायां शिवसहस्रनामवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 137 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
चतुर्थी कोटिरुद्रसंहिता ४.३५. पञ्चत्रिंशोऽध्यायः ।
शिवसहस्रनामवर्णनम् ।
सूत उवाच ।
श्रूयतां भो ऋषिश्रेष्ठा येन तुष्टो महेश्वरः ।
तदहं कथयाम्यद्य शैवं नामसहस्रकम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
श्रीविष्णुरुवाच ।
शिवो हरो मृडो रुद्रः पुष्करः पुष्पलोचनः ।
अर्थिगम्यः सदाचारः शर्वः शम्भुर्महेश्वरः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
चन्द्रापीडश्चन्द्रमौलिर्विश्वं विश्वम्भरेश्वरः ।
वेदान्तसारसन्दोहः कपाली नीललोहितः ॥ ३॥
ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः ।
अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गस्वर्गसाधनः ॥ ४॥
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ।
वामदेवो महादेवः पटुः परिवृढो दृढः ॥ ५॥
विश्वरूपो विरूपाक्षो वागीशः शुचिसत्तमः ।
सर्वप्रमाणसंवादी वृषाङ्को वृषवाहनः ॥ ६॥
ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः ।
तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः ॥ ७॥
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ।
उन्नध्रः पुरुषो जुष्यो दुर्वासाः पुरशासनः ॥ ८॥
दिव्यायुधः स्कन्दगुरुः परमेष्ठी परात्परः ।
अनादिमध्यनिधनो गिरीशो गिरिजाधवः ॥ ९॥
कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमो मृदुः ।
समाधिवेद्यः कोदण्डी नीलकण्ठः परश्वधी ॥ १०॥
विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ।
धर्मधाम क्षमाक्षेत्रं भगवान् भगनेत्रभित् ॥ ११॥
उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः परन्तपः ।
दाता दयाकरो दक्षः कपर्दी कामशासनः ॥ १२॥
श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ।
लोककर्ता मृगपतिर्महाकर्ता महौषधिः ॥ १३॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुखी ॥ १४॥
सोमपोऽमृतपः सौम्यो महातेजा महाद्युतिः ।
तेजोमयोऽमृतमयोऽन्नमयश्च सुधापतिः ॥ १५॥
अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः ।
लोककरो वेदकरः सूत्रकारः सनातनः ॥ १६॥
महर्षिकपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ।
पिनाकपाणिर्भूदेवः स्वस्तिदः स्वस्तिकृत्सुधीः ॥ १७॥
धातृधामा धामकरः सर्वगः सर्वगोचरः ।
ब्रह्मसृग्विश्वसृक्सर्गः कर्णिकारप्रियः कविः ॥ १८॥
शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः ।
गङ्गाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थिरः ॥ १९॥
विजितात्मा विधेयात्मा भूतवाहनसारथिः ।
सगणो गणकायश्च सुकीर्तिशिछन्नसंशयः ॥ २०॥
कामदेवः कामपालो भस्मोद्धूलितविग्रहः ।
भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ॥ २१॥
समावर्तोऽनिवृत्तात्मा धर्मपुञ्जः सदाशिवः ।
अकल्मषश्चतुर्बाहुर्दुरावासो दुरासदः ॥ २२॥
दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ।
अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ॥ २३॥
शुभाङ्गो लोकसारङ्गो जगदीशो जनार्दनः ।
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥ २४॥
असाध्यः साधुसाध्यश्च भृत्यमर्कटरूपधृक् ।
हिरण्यरेताः पौराणो रिपुजीवहरो बली ॥ २५॥
महाह्रदो महागर्तः सिद्धवृन्दारवन्दितः ।
व्याघ्रचर्माम्बरो व्याली महाभूतो महानिधिः ॥ २६॥
अमृताशोऽमृतवपुः पाञ्चजन्यः प्रभञ्जनः ।
पञ्चविंशतितत्त्वस्थः पारिजातः परावरः ॥ २७॥