Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 1

चतुर्थी कोटिरुद्रसंहिता ४.३४. चतुस्त्रिंशोऽध्यायः ।

विष्णुसुदर्शनचक्रलाभवर्णनम् ।

व्यास उवाच ।

इति श्रुत्वा वचस्तस्य सूतस्य च मुनीश्वराः ।

समूचुस्तं सुप्रशस्य लोकानां हितकाम्यया ॥ १॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 2

ऋषय ऊचुः ।

सूत सर्वं विजानासि ततः पृच्छामहे वयम् ।

हरीश्वरस्य लिङ्गस्य महिमानं वद प्रभो ॥ २॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 3

चक्रं सुदर्शनं प्राप्तं विष्णुनेति श्रुतं पुरा ।

तदाराधनतस्तात तत्कथां च विशेषतः ॥ ३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 4

सूत उवाच ।

श्रूयतां च ऋषिश्रेष्ठा हरीश्वरकथा शुभा ।

यतः सुदर्शनं लब्धं विष्णुना शङ्करात्पुरा ॥ ४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 5

कस्मिंश्चित्समये दैत्याः सञ्जाता बलवत्तराः ।

लोकांस्ते पीडयामासुर्धर्मलोपं च चक्रिरे ॥ ५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 6

ते देवाः पीडिता दैत्यैर्महाबलपराक्रमैः ।

स्वं दुःखं कथयामासुर्विष्णुं निर्जररक्षकम् ॥ ६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 7

देवा ऊचुः ।

कृपां कुरु प्रभो त्वं च दैत्यैः सम्पीडिता भृशम् ।

कुत्र यामश्च किं कुर्मः शरण्यं त्वां समाश्रिताः ॥ ७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 8

सूत उवाच ।

इत्येवं वचनं श्रुत्वा देवानां दुःखितात्मनाम् ।

स्मृत्वा शिवपदाम्भोजं विष्णुर्वचनमब्रवीत् ॥ ८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 9

विष्णुरुवाच ।

करिष्यामि च वः कार्यमाराध्य गिरिशं सुराः ।

बलिष्ठाः शत्रवो ह्येते विजेतव्याः प्रयत्नतः ॥ ९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 10

सूत उवाच ।

इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना ।

मत्वा दैत्यान्हतान्दुष्टान्ययुर्धाम स्वकं स्वकम् ॥ १०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 11

विष्णुरप्यमराणां तु जयार्थमभजच्छिवम् ।

सर्वामराणामधिपं सर्वसाक्षिणमव्ययम् ॥ ११॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 12

गत्वा कैलासनिकटे तपस्तेपे हरिः स्वयम् ।

कृत्वा कुण्डं च संस्थाप्य जातवेदसमग्रतः ॥ १२॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 13

पार्थिवेन विधानेन मन्त्रैर्नानाविधैरपि ।

स्तोत्रैश्चैवाप्यनेकैश्च गिरिशं चाभजन्मुदा ॥ १३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 14

कमलैः सरसो जातैर्मानसाख्यान्मुनीश्वराः ।

बद्ध्वा चैवासनं तत्र न चचाल हरिः स्वयम् ॥ १४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 15

प्रसादावधि चैवात्र स्थेयं वै सर्वथा मया ।

इत्येवं निश्चयं कृत्वा समानर्च शिवं हरिः ॥ १५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 16

यदा नैव हरस्तुष्टो बभूव हरये द्विजाः ।

तदा स भगवान्विष्णुर्विचारे तत्परोऽभवत् ॥ १६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 17

विचार्यैवं स्वमनसि सेवनं बहुधा कृतम् ।

तथापि न हरस्तुष्टो बभूवोतिकरः प्रभुः ॥ १७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 18

ततः सुविस्मितो विष्णुर्भक्त्या परमयान्वितः ।

सहस्रैर्नामभिः प्रीत्या तुष्टाव परमेश्वरम् ॥ १८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 19

प्रत्येकं कमलं तस्मै नाममन्त्रमुदीर्य च ।

पूजयामास वै शम्भुं शरणागतवत्सलम् ॥ १९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 20

परीक्षार्थं विष्णुभक्तेस्तदा वै शङ्करेण ह ।

कमलानां सहस्रात्तु हृतमेकं च नीरजम् ॥ २०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 21

न ज्ञातं विष्णुना तच्च मायाकारणमद्भुतम् ।

न्यूनं तच्चापि संज्ञाय तदन्वेषणतत्परः ॥ २१॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 22

बभ्राम सकलां पृथ्वीं तत्प्रीत्यै सुदृढव्रतः ।

तदप्राप्य विशुद्धात्मा नेत्रमेकमुदाहरत् ॥ २२॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 23

तं दृष्ट्वा स प्रसन्नोऽभूच्छङ्करः सर्वदुःखहा ।

आविर्बभूव तत्रैव जगाद वचनं हरिम् ॥ २३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 24

शिव उवाच ।

प्रसन्नोऽस्मि हरे तुभ्यं वरं ब्रूहि यथेप्सितम् ।

मनोऽभिलषितं दद्मि नादेयं विद्यते तव ॥ २४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 25

सूत उवाच ।

तच्छ्रुत्वा शम्भुवचनं केशवः प्रीतमानसः ।

महाहर्षसमापन्नो ह्यब्रवीत्साञ्जलिः शिवम् ॥ २५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 26

विष्णुरुवाच ।

वाच्यं किं मे त्वदग्रे वै ह्यन्तर्यामी त्वमास्थितः ।

तथापि कथ्यते नाथ तव शासनगौरवात् ॥ २६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 25: कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं, Verse 27

दैत्यैश्च पीडितं विश्वं सुखं नो नः सदाशिव ।

दैत्यान् हन्तुं मम स्वामिन्स्वायुधं न प्रवर्तते ॥ २७॥