Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं

Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 1

चतुर्थी कोटिरुद्रसंहिता ४.३३. त्रयस्त्रिंशोऽध्यायः ।

धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनम् ।

सूत उवाच ।

पुत्रं दृष्ट्वा कनिष्ठाया ज्येष्ठा दुःखमुपागता ।

विरोधं सा चकाराशु न सहन्ती च तत्सुखम् ॥ १॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 2

सर्वे पुत्रप्रसूतिं तां प्रशसंसुर्निरन्तरम् ।

तया तत्सह्यते न स्म शिशो रूपादिकं तथा ॥ २॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 3

सुप्रियं तनयं तं च पित्रोः सद्गुणभाजनम् ।

दृष्ट्वाभवत्तदा तस्या हृदयं तप्तमग्निवत् ॥ ३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 4

एतस्मिन्नन्तरे विप्राः कन्यां दातुं समागताः ।

विवाहं तस्य तत्रैव चकार विधिवच्च सः ॥ ४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 5

सुधर्मा घुश्मया सार्धमानन्दं परं गतः ।

सर्वे सम्बन्धिनस्तस्यां घुश्मायां मानमादधुः ॥ ५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 6

तं दृष्ट्वा सा सुदेहा हि मनसि ज्वलिता तदा ।

अत्यन्तं दुःखमापन्ना हा हतास्मीति वादिनी ॥ ६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 7

सुधर्मा गृहमागत्य वधूं पुत्रं विवाहितम् ।

उत्साहं दर्शयामास प्रियाभ्यां हर्षयन्निव ॥ ७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 8

अभवद् हर्षिता घुश्मा सुदेहा दुःखमागता ।

न सहन्ती सुखं तच्च दुःखं कृत्वापतद्भुवि ॥ ८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 9

घुश्मावदद्वधूपुत्रौ त्वदीयौ न मदीयकौ ।

वधूः पुत्रश्च तां प्रीत्या प्रसूं श्वश्रूममन्यत ॥ ९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 10

भर्ता प्रियां तां ज्येष्ठां च मेने नैव कनिष्ठिकाम् ।

तथापि सा तदा ज्येष्ठा स्वान्तर्मलवती ह्यभूत् ॥ १०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 11

एकस्मिन्दिवसे ज्येष्ठा सा सुदेहा च दुःखिनी ।

हृदये सञ्चिचिन्तेति दुःखशान्तिः कथं भवेत् ॥ ११॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 12

सुदेहोवाच ।

मदीयो हृदयाग्निश्च घुश्मानेत्रजलेन वै ।

भविष्यति ध्रुवं शान्तो नान्यथा दुःखजेन हि ॥ १२॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 13

अतोऽहं मारयाम्यद्य तत्पुत्रं प्रियवादिनम् ।

अग्रे भावि भवेदेवं निश्चयः परमो मम ॥ १३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 14

सूत उवाच ।

कदर्याणां विचारश्च कृत्याकृत्ये भवेन्नहि ।

कठोरः प्रायशो विप्राः सापत्नो भाव आत्महा ॥ १४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 15

एकस्मिन्दिवसे ज्येष्ठा सुप्तं पुत्रं वधूयुतम् ।

चिच्छिदे निशि चाङ्गेषु गृहीत्वा छुरिकां च सा ॥ १५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 16

सर्वाङ्गं खण्डयामास रात्रौ घुश्मासुतस्य सा ।

नीत्वा सरसि तत्रैवाक्षिपद् दृप्ता महाबला ॥ १६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 17

यत्र क्षिप्तानि लिङ्गानि घुश्मया नित्यमेव हि ।

तत्र क्षिप्त्वा समायाता सुष्वाप सुखमागता ॥ १७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 18

प्रातश्चैव समुत्थाय घुश्मा नित्यं तथाकरोत् ।

सुधर्मा च स्वयं श्रेष्ठो नित्यकर्म समाचरत् ॥ १८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 19

एतस्मिन्नन्तरे सा च ज्येष्ठा कार्यं गृहस्य वै ।

चकारानन्दसंयुक्ता सुशान्तहृदयानला ॥ १९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 20

प्रातःकाले समुत्थाय वधूः शय्यां विलोक्य सा ।

रुधिरार्द्रां देहखण्डैर्युक्तां दुःखमुपागता ॥ २०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 21

श्वश्रूं निवेदयामास पुत्रस्ते च कुतो गतः ।

शय्या च रुधिरार्द्रा वै दृश्यन्ते देहखण्डकाः ॥ २१॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 22

हा हतास्मि कृतं केन दुष्टं कर्म शुचिव्रते ।

इत्युच्चार्य रुरोदाति विविधं तत्प्रिया च सा ॥ २२॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 23

ज्येष्ठा दुःखं तदापन्ना हा हतास्मि किलेति च ।

बहिर्दुःखं चकारासौ मनसा हर्षसंयुता ॥ २३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 24

घुश्मा चापि तदा तस्या वध्वा दुःखं निशम्य सा ।

न चचाल व्रतात्तस्मान्नित्यपार्थिवपूजनात् ॥ २४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 25

मनश्चैवोत्सुकं नैव जातं तस्या मनागपि ।

भर्तापि च तथैवासीद्यावद् व्रतविधिर्भवेत् ॥ २५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 26

मध्याह्ने पूजनान्ते च दृष्ट्वा शय्यां भयावहाम् ।

तथापि न तदा किञ्चित्कृतं दुःखं हि घुश्मया ॥ २६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 24: कोटिरुद्रसंहितायां धुश्मेशज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं, Verse 27

येनैव चार्पितश्चायं स वै रक्षां करिष्यति ।

भक्तप्रियः स विख्यातः कालकालः सतां गतिः ॥ २७॥