२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 1: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने मुनिप्रश्नवर्णनं, Verse 1
श्रीशिवमहापुराणम् २१ रुद्रसंहितायां सृष्टिखण्डः ॥
श्रीगणेशाय नमः ॥
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रीशिवमहापुराणम् २१ रुद्रसंहितायां सृष्टिखण्डः ॥
श्रीगणेशाय नमः ॥
प्रथमः सृष्टिखण्डः २.१.१. प्रथमोऽध्यायः ।
मुनिप्रश्नवर्णनम् ।
विश्वोद्भवस्थितिलयादिषु हेतुमेकं गौरीपतिं विदिततत्त्वमनन्तकीर्तिम् ।
मायाश्रयं विगतमायमचिन्त्यरूपं बोधस्वरूपममलं हि शिवं नमामि ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
वन्दे शिवं तं प्रकृतेरनादिं प्रशान्तमेकं पुरुषोत्तमं हि ।
स्वमायया कृत्स्नमिदं हि सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
द्वितीयायां रुद्रसंहिता
वन्देऽन्तरस्थं निजगूढरूपं शिवं स्वतः स्रष्टुमिदं विचष्टे ।
जगन्ति नित्यं परितो भ्रमन्ति यत्सन्निधौ चुम्बकलोहवत्तम् ॥ ३॥
व्यास उवाच ।
जगतः पितरं शम्भुं जगतो मातरं शिवाम् ।
तत्पुत्रश्च गणाधीशं नत्वैतद्वर्णयामहे ॥ ४॥
एकदा मुनयः सर्वे नैमिषारण्यवासिनः ।
पप्रच्छुर्वरया भक्त्या सूतं ते शौनकादयः ॥ ५॥
ऋषय ऊचुः ।
विद्येश्वरसंहितायाः श्रुता सा सत्कथा शुभा ।
साध्यसाधनखण्डाख्या रम्याद्या भक्तवत्सला ॥ ६॥
सूत सूत महाभाग चिरञ्जीव सुखी भव ।
यच्छ्रावयसि नस्तात शाङ्करीं परमां कथाम् ॥ ७॥
पिबन्तस्त्वन्मुखाम्भोजच्युतं ज्ञानामृतं वयम् ।
अवितृप्ताः पुनः किञ्चित्प्रष्टुमिच्छामहेऽनघ ॥ ८॥
व्यासप्रसादात्सर्वज्ञो प्राप्तोऽसि कृतकृत्यताम् ।
नाज्ञातं विद्यते किञ्चिद्भूतं भव्यं भवच्च यत् ॥ ९॥
गुरोर्व्यासस्य सद्भक्त्या समासाद्य कृपां पराम् ।
सर्वं ज्ञातं विशेषेण सर्वं सार्थं कृतं जनुः ॥ १०॥
इदानीं कथय प्राज्ञ शिवरूपमनुत्तमम् ।
दिव्यानि वै चरित्राणि शिवयोरप्यशेषतः ॥ ११॥
अगुणो गुणतां याति कथं लोके महेश्वरः ।
शिवतत्त्वं वयं सर्वे न जानीमो विचारतः ॥ १२॥
सृष्टेः पूर्वं कथं शम्भुः स्वरूपेणावतिष्ठते ।
सृष्टिमध्ये स हि कथं क्रीडन्संवर्तते प्रभुः ॥ १३॥
तदन्ते च कथं देवः स तिष्ठति महेश्वरः ।
कथं प्रसन्नतां याति शङ्करो लोकशङ्करः ॥ १४॥
स प्रसन्नो महेशानः किं प्रयच्छति सत्फलम् ।
स्वभक्तेभ्यः परेभ्यश्च तत्सर्वं कथयस्व नः ॥ १५॥
सद्यः प्रसन्नो भगवान्भवतीत्यनुशुश्रुम ।
भक्तप्रयासं स महान्न पश्यति दयापरः ॥ १६॥
ब्रह्मा विष्णुर्महेशश्च त्रयो देवाः शिवाङ्गजाः ।
महेशस्तत्र पूर्णांशः स्वयमेव शिवोऽपरः ॥ १७॥
तस्याविर्भावमाख्याहि चरितानि विशेषतः ।
उमाविर्भावमाख्याहि तद्विवाहं तथा प्रभो ॥ १८॥
तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि ।
एतत्सर्वं तदन्यच्च कथनीयं त्वयानघ ॥ १९॥
व्यास उवाच ।
इति पृष्टस्तदा तैस्तु सूतो हर्षसमन्वितः ।
स्मृत्वा शम्भुपदाम्भोजं प्रत्युवाच मुनीश्वरान् ॥ २०॥
सूत उवाच ।
सम्यक् पृष्टं भवद्भिश्च धन्या यूयं मुनीश्वराः ।
सदाशिवकथायां वो यज्जाता नैष्ठिकी मतिः ॥ २१॥
सदाशिवकथाप्रश्नः पुरुषांस्त्रीन्पुनाति हि ।
वक्तारं पृच्छकं श्रोतॄञ्जाह्नवीसलिलं यथा ॥ २२॥
शम्भोर्गुणानुवादात्को विरज्येत पुमान्द्विजाः ।
विना पशुघ्नं त्रिविधजनानन्दकरात्सदा । २३॥
गीयमानो वितृष्णैश्च भवरोगौषधोऽपि हि ।
मनःश्रोत्राभिरामश्च यतः सर्वार्थदः स वै ॥ २४॥
कथयामि यथाबुद्धि भवत्प्रश्नानुसारतः ।
शिवलीलां प्रयत्नेन द्विजास्तां शृणुतादरात् ॥ २५॥
भवद्भिः पृच्छ्यते यद्वत्तत्तथा नारदेन वै ।
पृष्टं पित्रे प्रेरितेन हरिणा शिवरूपिणा ॥ २६॥
ब्रह्मा श्रुत्वा सुतवचः शिवभक्तः प्रसन्नधीः ।
जगौ शिवयशः प्रीत्या हर्षयन्मुनिसत्तमम् ॥ २७॥