४ कोटिरुद्रसंहिता, अध्याय 21: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरज्योतिर्लिङ्गमाहात्म्यवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
चतुर्थी कोटिरुद्रसंहिता ४.२७. सप्तविंशोऽध्यायः ।
त्र्यम्बकेश्वरज्योतिर्लिङ्गमाहात्म्यवर्णनम् ।
ऋषय ऊचुः ।
गङ्गा च जलरूपेण कुतो जाता वद प्रभो ।
तन्माहात्म्यं विशेषेण कुतो जातं वद प्रभो ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
यैर्विप्रैर्गौतमायैव दुःखं दत्तं दुरात्मभिः ।
तेषां किं च ततो जातमुच्यतां व्याससद्गुरो ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
सूत उवाच ।
एवं सम्प्रार्थिता गङ्गा गौतमेन तदा स्वयम् ।
ब्रह्मणश्च गिरेर्विप्रा द्रुतं तस्मादवातरत् ॥ ३॥
औदुम्बरस्य शाखायास्तत्प्रवाहो विनिःसृतः ।
तत्र स्नानं मुदा चक्रे गौतमो विश्रुतो मुनिः ॥ ४॥
गौतमस्य च ये शिष्या अन्ये चैव महर्षयः ।
समागताश्च ते तत्र स्नानं चक्रुर्मुदान्विताः ॥ ५॥
गङ्गाद्वारं च तन्नाम प्रसिद्धमभवत्तदा ।
सर्वपापहरं रम्यं दर्शनान्मुनिसत्तमाः ॥ ६॥
गौतमस्पर्द्धिनस्ते च ऋषयस्तत्र चागताः ।
स्नानार्थं तांश्च सा दृष्ट्वा ह्यन्तर्धानं गता द्रुतम् ॥ ७॥
मा मेति गौतमस्तत्र व्याजहार वचो द्रुतम् ।
मुहुर्मुहुः स्तुवन् गङ्गां साञ्जलिर्नतमस्तकः ॥ ८॥
गौतम उवाच ।
इमे च श्रीमदान्धाश्च साधवो वाप्यसाधवः ।
एतत्पुण्यप्रभावेण दर्शनं दीयतां त्वया ॥ ९॥
सूत उवाच ।
ततो वाणी समुत्पन्ना गङ्गाया व्योममण्डलात् ।
तच्छृणुध्वमृषिश्रेष्ठा गङ्गावचनमुत्तमम् ॥ १०॥
एते दुष्टतमाश्चैव कृतघ्नाः स्वामिद्रोहिणः ।
जाल्माः पाखण्डिनश्चैव द्रष्टुं वर्ज्याश्च सर्वदा ॥ ११॥
गौतम उवाच ।
मातश्च श्रूयतामेतन्महतां गिर एव च ।
तस्मात्त्वया च कर्त्तव्यं सत्यं च भगवद् वचः ॥ १२॥
अपकारिषु यो लोक उपकारं करोति वै ।
तेन पूतो भवाम्यत्र भगवद्वचनं त्विदम् ॥ १३॥
सूत उवाच ।
इति श्रुत्वा मुनेर्वाक्यं गौतमस्य महात्मनः ।
पुनर्वाणी समुत्पन्ना गङ्गाया व्योममण्डलात् ॥ १४॥
कथ्यते हि त्वया सत्यं गौतमर्षे शिवं वचः ।
तथापि सङ्ग्रहार्थं च प्रायश्चित्तं चरन्तु वै ॥ १५॥
शतमेकोत्तरं चात्र कार्यं प्रक्रमणं गिरेः ।
भवच्छासनतस्त्वेतैस्त्वदधीनैर्विशेषतः ॥ १६॥
ततश्चैवाधिकारश्च जायते दुष्टकारिणाम् ।
मद्दर्शने विशेषेण सत्यमुक्तं मया मुने ॥ १७॥
इति श्रुत्वा वचस्तस्याश्चक्रुर्वै ते तथाखिलाः ।
सम्प्रार्थ्य गौतमं दीनाः क्षन्तव्यो नोऽपराधकः ॥ १८॥
एवं कृते तदा तेन गौतमेन तदाज्ञया ।
कुशावर्तं नाम चक्रे गङ्गाद्वारादधोगतम् ॥ १९॥
ततः प्रादुरभूत्तत्र सा तस्य प्रीतये पुनः ।
कुशावर्तं च विख्यातं तीर्थमासीदनुत्तमम् ॥ २०॥
तत्र स्नातो नरो यस्तु मोक्षाय परिकल्पते ।
त्यक्त्वा सर्वानघान्सद्यो विज्ञानं प्राप्य दुर्लभम् ॥ २१॥
गौतमो ऋषयश्चान्ये मिलिताश्च परस्परम् ।
लज्जितास्ते तदा ये च कृतघ्ना ह्यभवन्पुरा ॥ २२॥
ऋषय ऊचुः ॥
अस्माभिरन्यथा सूत श्रुतं तद्वर्णयामहे ।
गौतमस्तान्द्विजान् क्रुद्धः शशापेति प्रबुध्यताम् ॥ २३॥
सूत उवाच ।
द्विजास्तदपि सत्यं वै कल्पभेदसमाश्रयात् ।
वर्णयामि विशेषेण तां कथामपि सुव्रताः ॥ २४॥
गौतमोऽपि ऋषीन्दृष्ट्वा तदा दुर्भिक्षपीडितान् ।
तपश्चकार सुमहद्वरुणस्य महात्मनः ॥ २५॥
अक्षय्यं कल्पयामास जलं वरुणदायया ।
ततो व्रीहीन् यवांश्चैव वापयामास भूरिशः ॥ २६॥