Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं

Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 1

चतुर्थी कोटिरुद्रसंहिता ४.२५. पञ्चविंशोऽध्यायः ।

गौतमव्यवस्थावर्णनम् ।

सूत उवाच ।

कदाचिद्गौतमेनैव जलार्थं प्रेषिता निजाः ।

शिष्यास्तत्र गता भक्त्या कमण्डलुकरा द्विजाः ॥ १॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 2

शिष्यान् जलसमीपे तु गतान्दृष्ट्वा न्यषेधयन् ।

जलार्थमागतास्तत्र चर्षिपत्न्योऽप्यनेकशः ॥ २॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 3

ऋषिपत्न्यो वयं पूर्वं ग्रहीष्यामो विदूरतः ।

पश्चाच्चैव जलं ग्राह्यमित्येवं पर्यभर्त्सयन् ॥ ३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 4

परावृत्य तदा तैश्च ऋषिपत्न्यै निवेदितम् ।

सा चापि तान्समादाय समाश्वास्य च तैः स्वयम् ॥ ४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 5

जलं नीत्वा ददौ तस्मै गौतमाय तपस्विनी ।

नित्यं निर्वाहयामास जलेन ऋषिसत्तमः ॥ ५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 6

ताश्चैवमृषिपत्न्यस्तु क्रुद्धास्तां पर्यभर्त्सयन् ।

परावृत्य गताः सर्वास्तूटजान्कुटिलाशयाः ॥ ६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 7

स्वाम्यग्रे विपरीतं च तद्वृत्तं निखिलं ततः ।

दुष्टाशयाभिः स्त्रीभिश्च ताभिर्वै विनिवेदितम् ॥ ७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 8

अथ तासां वचः श्रुत्वा भाविकर्मवशात्तदा ।

गौतमाय च सङ्क्रुद्धाश्चासंस्ते परमर्षयः ॥ ८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 9

विघ्नार्थं गौतमस्यैव नानापूजोपहारकैः ।

गणेशं पूजयामासुः सङ्क्रुद्धास्ते कुबुद्धयः ॥ ९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 10

आविर्बभूव च तदा प्रसन्नो हि गणेश्वरः ।

उवाच वचनं तत्र भक्ताधीनः फलप्रदः ॥ १०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 11

गणेश उवाच ।

प्रसन्नोऽस्मि वरं ब्रूत यूयं किं करवाण्यहम् ।

तदीयं तद्वचः श्रुत्वा ऋषयस्तेऽब्रुवंस्तदा ॥ ११॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 12

ऋषय ऊचुः ।

त्वया यदि वरो देयो गौतमः स्वाश्रमाद बहिः ।

निष्काश्यमानो ऋषिभिः परिभर्त्स्य तथा कुरु ॥ १२॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 13

सूत उवाच ।

स एवं प्रार्थितस्तैस्तु विहस्य वचनं पुनः ।

प्रोवाचेभमुखः प्रीत्या बोधयंस्तान्सतां गतिः ॥ १३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 14

गणेश उवाच ।

श्रूयतामृषयः सर्वे युक्तं न क्रियतेऽधुना ।

अपराधं विना तस्मै क्रुध्यतां हानिरेव च ॥ १४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 15

उपस्कृतं पुरा यैस्तु तेभ्यो दुःखं हितं न हि ।

यदा च दीयते दुःखं तदा नाशो भवेदिह ॥ १५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 16

ईदृशं च तपः कृत्वा साध्यते फलमुत्तमम् ।

शुभं फलं स्वयं हित्वा साध्यते नाहितं पुनः ॥ १६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 17

सूत उवाच ।

इत्येवं वचनं श्रुत्वा तस्य ते मुनिसत्तमाः ।

बुद्धिमोहं तदा प्राप्ता इदमेव वचोऽब्रुवन् ॥ १७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 18

ऋषय ऊचुः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 18

कर्तव्यं हि त्वया स्वामिन्निदमेव न चान्यथा ।

इत्युक्तस्तु तदा देवो गणेशो वाक्यमब्रवीत् ॥ १८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 19

गणेश उवाच ।

असाधुः साधुतां चैव साधुश्चासाधुतां तथा ।

कदाचिदपि नाप्नोति ब्रह्मोक्तमिति निश्चितम् ॥ १९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 20

यदा च भवतां दुःखं जातं चानशनात्पुरा ।

तदा सुखं प्रदत्तं वै गौतमेन महर्षिणा ॥ २०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 21

इदानीं वै भवद्भिश्च तस्मै दुःखं प्रदीयते ।

नैतद्युक्ततमं लोके सर्वथा सुविचार्यताम् ॥ २१॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 22

स्त्रीबलान्मोहिता यूयं न मे वाक्यं करिष्यथ ।

एतद्धिततमं तस्य भविष्यति न संशयः ॥ २२॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 23

पुनश्चायमृषिश्रेष्ठो दास्यते वः सुखं ध्रुवम् ।

तारणं न च युक्तं स्याद्वरमन्यं वृणीत वै ॥ २३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 24

सूत उवाच ।

इत्येवं वचनं तेन गणेशेन महात्मना ।

यद्यप्युक्तमृषिभ्यश्च तदप्येते न मेनिरे ॥ २४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 25

भक्ताधीनतया सोऽथ शिवपुत्रोऽब्रवीत्तदा ।

उदासीनेन मनसा तानृषीन्दुष्टशेमुषीन् ॥ २५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 19: कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं, Verse 26

गणेश उवाच ।

भवद्भिः प्रार्थ्यते यच्च करिष्येऽहं तथा खलु ।

पश्चाद्भावि भवेदेव इत्युक्त्वान्तर्दधे पुनः ॥ २६॥