Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 1

चतुर्थी कोटिरुद्रसंहिता ४.२४. चतुर्विंशोऽध्यायः ।

गौतमप्रभाववर्णनम् ।

सूत उवाच ।

श्रूयतामृषयः श्रेष्ठाः कथां पापप्रणाशिनीम् ।

कथयामि यथा व्यासात्सद्गुरोश्च श्रुता मया ॥ १॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 2

पुरा ऋषिवरश्चासीद्गौतमो नाम विश्रुतः ।

अहल्या नाम तस्यासीत्पत्नी परमधार्मिकी ॥ २॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 3

दक्षिणस्यां दिशि हि यो गिरिर्ब्रह्मेति संज्ञकः ।

तत्र तेन तपस्तप्तं वर्षाणामयुतं तथा ॥ ३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 4

कदाचिच्च ह्यनावृष्टिरभवत्तत्र सुव्रताः ।

वर्षाणां च शतं रौद्री लोका दुःखमुपागताः ॥ ४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 5

आर्द्रं च पल्लवं न स्म दृश्यते पृथिवीतले ।

कुतो जलं विदृश्येत जीवानां प्राणधारकम् ॥ ५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 6

तदा ते मुनयश्चैव मनुष्याः पशवस्तथा ।

पक्षिणश्च मृगास्तत्र गताश्चैव दिशो दश ॥ ६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 7

तां दृष्ट्वा चर्षयो विप्राः प्राणायामपरायणाः ।

ध्यानेन च तदा केचित्कालं निन्युः सुदारुणम् ॥ ७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 8

गौतमोऽपि स्वयं तत्र वरुणार्थे तपः शुभम् ।

चकार चैव षण्मासं प्राणायामपरायणः ॥ ८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 9

ततश्च वरुणस्तस्मै वरं दातुं समागतः ।

प्रसन्नोऽस्मि वरं ब्रूहि ददामि च वचोऽब्रवीत् ॥ ९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 10

ततश्च गौतमस्तं वै वृष्टिं च प्रार्थयत्तदा ।

ततः स वरुणस्तं वै प्रत्युवाच मुनिं द्विजाः ॥ १०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 11

वरुण उवाच ।

देवाज्ञां च समुल्लङ्घ्य कथं कुर्यामहं च ताम् ।

अन्यत्प्रार्थय सुज्ञोऽसि यदहं करवाणि ते ॥ ११॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 12

सूत उवाच ।

इत्येतद्वचनं तस्य वरुणस्य महात्मनः ।

परोपकारी तच्छ्रुत्वा गौतमो वाक्यमब्रवीत् ॥ १२॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 13

गौतम उवाच ।

यदि प्रसन्नो देवेश यदि देयो वरो मम ।

यदहं प्रार्थयाम्यद्य कर्तव्यं हि त्वया तथा ॥ १३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 14

यतस्त्वं जलराशीशस्तस्माद्देयं जलं मम ।

अक्षयं सर्वदेवेश दिव्यं नित्यफलप्रदम् ॥ १४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 15

सूत उवाच ।

इति सम्प्रार्थितस्तेन वरुणो गौतमेन वै ।

उवाच वचनं तस्मै गर्तश्च क्रियतां त्वया ॥ १५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 16

इत्युक्ते च कृतस्तेन गर्तो हस्तप्रमाणतः ।

जलेन पूरितस्तेन दिव्येन वरुणेन सः ॥ १६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 17

अथोवाच मुनिं देवो वरुणो हि जलाधिपः ।

गौतमं मुनिशार्दूलं परोपकृतिशालिनम् ॥ १७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 18

वरुण उवाच ।

अक्षयं च जलं तेऽस्तु तीर्थभूतं महामुने ।

तव नाम्ना च विख्यातं क्षितावेतद्भविष्यति ॥ १८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 19

अत्र दत्तं हुतं तप्तं सुराणां यजनं कृतम् ।

पितॄणां च कृतं श्राद्धं सर्वमेवाक्षयं भवेत् ॥ १९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 20

सूत उवाच ।

इत्युक्तान्तर्दधे देवः स्तुतस्तेन महर्षिणा ।

गौतमोऽपि सुखं प्राप कृत्वान्योपकृतिं मुनिः ॥ २०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 21

महतो ह्याश्रयः पुंसां महत्त्वायोपजायते ।

महान्तस्तत्स्वरूपं च पश्यन्ति नेतरेऽशुभाः ॥ २१॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 22

यादृङ्नरं च सेवेत तादृशं फलमश्नुते ।

महतः सेवयोच्चत्वं क्षुद्रस्य क्षुद्रतां तथा ॥ २२॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 23

सिंहस्य मन्दिरे सेवा मुक्ताफलकरी मता ।

श‍ृगालमन्दिरे सेवा त्वस्थिलाभकरी स्मृता ॥ २३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 24

उत्तमानां स्वभावोऽयं परदुःखासहिष्णुता ।

स्वयं दुःखं च सम्प्राप्तं मन्यतेऽन्यस्य वार्यते ॥ २४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 25

वृक्षाश्च हाटकं चैव चन्दनं चेक्षुकस्तथा ।

एते भुवि परार्थे च दक्षा एवं न केचन ॥ २५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 26

दयालुरमदस्पर्श उपकारी जितेन्द्रियः ।

एतैश्च पुण्यस्तम्भैस्तु चतुर्भिर्धार्यते मही ॥ २६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 18: कोटिरुद्रसंहितायां त्र्यम्बकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं, Verse 27

ततश्च गौतमस्तत्र जलं प्राप्य सुदुर्लभम् ।

नित्यनैमित्तिकं कर्म चकार विधिवत्तदा ॥ २७॥