४ कोटिरुद्रसंहिता, अध्याय 17: कोटिरुद्रसंहितायां काशीविश्वेश्वरज्योतिर्लिङ्गमाहात्म्यवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
चतुर्थी कोटिरुद्रसंहिता ४.२३. त्रयोविंशोऽध्यायः ।
काशीविश्वेश्वरज्योतिर्लिङ्गमाहात्म्यवर्णनम् ।
ऋषय ऊचुः ।
एवं वाराणसी पुण्या यदि सूत महापुरी ।
तत्प्रभावं वदास्माकमविमुक्तस्य च प्रभो ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
सूत उवाच ।
वक्ष्ये सङ्क्षेपतः सम्यग्वाराणस्याः सुशोभनम् ।
विश्वेश्वरस्य माहात्म्यं श्रूयतां च मुनीश्वराः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
कदाचित्पार्वती देवी शङ्करं परया मुदा ।
लोककामनयापृच्छन्माहात्म्यमविमुक्तयोः ॥ ३॥
पार्वत्युवाच ।
अस्य क्षेत्रस्य माहात्म्यं वक्तुमर्हस्यशेषतः ।
ममोपरि कृपां कृत्वा लोकानां हितकाम्यया ॥ ४॥
सूत उवाच ।
देव्यास्तद्वचनं श्रुत्वा देवदेवो जगत्प्रभुः ।
प्रत्युवाच भवानीं तां जीवानां प्रियहेतवे ॥ ५॥
परमेश्वर उवाच ।
साधु पृष्टं त्वया भद्रे लोकानां सुखदं शुभम् ।
कथयामि यथार्थं वै माहात्म्यमविमुक्तयोः ॥ ६॥
इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम ।
सर्वेषामेव जन्तूना हेतुर्मोक्षस्य सर्वथा ॥ ७॥
अस्मिन्सिद्धाः सदा क्षेत्रे मदीयं व्रतमाश्रिताः ।
नानालिङ्गधरा नित्यं मम लोकाभिकाङ्क्षिणः ॥ ८॥
अभ्यस्यन्ति महायोगं जितात्मानो जितेन्द्रियाः ।
परं पाशुपतं श्रौतं भुक्तिमुक्तिफलप्रदम् ॥ ९॥
रोचते मे सदा वासो वाराणस्यां महेश्वरि ।
हेतुना येन सर्वाणि विहाय शृणु तद् ध्रुवम् ॥ १०॥
यो मे भक्तश्च विज्ञानी तावुभौ मुक्तिभागिनौ ।
तीर्थापेक्षा च न तयोर्विहिताविहिते समौ ॥ ११॥
जीवन्मुक्तौ तु तौ ज्ञेयौ यत्र कुत्रापि वै मृतौ ।
प्राप्नुतो मोक्षमाश्वेव मयोक्तं निश्चितं वचः ॥ १२॥
अत्र तीर्थे विशेषोऽस्त्यविमुक्ताख्ये परोत्तमे ।
श्रूयतां तत्त्वया देवि परशक्ते सुचित्तया ॥ १३॥
सर्वे वर्णा आश्रमाश्च बालयौवनवार्धकाः ।
अस्यां पुर्यां म्रुताश्चेत्स्युर्मुक्ता एव न संशयः ॥ १४॥
अशुचिश्च शुचिर्वापि कन्या परिणता तथा ।
विधवा वाथ वा वन्ध्या रजोदोषयुतापि वा ॥ १५॥
प्रसूतासंस्कृता कापि यादृशी तादृशी द्विजाः ।
अत्र क्षेत्रे मृता चेत्स्यान्मोक्षभाङ्नात्र संशयः ॥ १६॥
स्वेदजश्चाण्डजो वापि ह्युद्भिज्जोऽथ जरायुजः ।
मृतो मोक्षमवाप्नोति यथात्र न तथा क्वचित् ॥ १७॥
ज्ञानापेक्षा न चात्रैव भक्त्यपेक्षा न वै पुनः ।
कर्मापेक्षा न देव्यत्र दानापेक्षा न चैव हि ॥ १८॥
संस्कृत्यपेक्षा नैवात्र ध्यानापेक्षा न कर्हिचित् ।
नामापेक्षार्चनापेक्षा सुजातीनां तथात्र न ॥ १९॥
मम क्षेत्रे मोक्षदे हि यो वा वसति मानवः ।
यथा तथा मृतः स्याच्चेन्मोक्षमाप्नोति निश्चितम् ॥ २०॥
एतन्मम पुरं दिव्यं गुह्याद् गुह्यतरं प्रिये ।
ब्रह्मादयोऽपि जानन्ति माहात्म्यं नास्य पार्वति ॥ २१॥
महत्क्षेत्रमिदं तस्मादविमुक्तमिति स्मृतम् ।
सर्वेभ्यो नैमिषादिभ्यः परं मोक्षप्रदं मृते ॥ २२॥
धर्मस्योपनिषत्सत्यं मोक्षस्योपनिषत्समम् ।
क्षेत्रतीर्थोपनिषदमविमुक्तं विदुर्बुधाः ॥ २३॥
कामं भुञ्जन्स्वपन्क्रीडन्कुर्वन्हि विविधाः क्रियाः ।
अविमुक्ते त्यजन्प्राणाञ्जन्तुर्मोक्षाय कल्पते ॥ २४॥
कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम् ।
न च क्रतुसहस्रत्वं स्वर्गे काशीं पुरीं विना ॥ २५॥
तस्मात्सर्वप्रयत्नेन सेव्यते काशिका पुरी ।
अव्यक्तलिङ्गं मुनिभिर्ध्यायते च सदाशिवः ॥ २६॥
यद्यत्फलं समुद्दिश्य तपन्त्यत्र नराः प्रिये ।
तेभ्यश्चाहं प्रयच्छामि सम्यक्तत्तत्फलं ध्रुवम् ॥ २७॥