४ कोटिरुद्रसंहिता, अध्याय 14: कोटिरुद्रसंहितायां महाकालज्योतिर्लिङ्गमाहात्म्यवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 81 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
चतुर्थी कोटिरुद्रसंहिता ४.१७. सप्तदशोऽध्यायः ।
महाकालज्योतिर्लिङ्गमाहात्म्यवर्णनम् २ ।
ऋषय ऊचुः ।
महाकालसमाह्वस्थज्योतिर्लिङ्गस्य रक्षिणः ।
भक्तानां महिमानं च पुनर्ब्रूहि महामते ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
सूत उवाच ।
शृणुतादरतो विप्रा भक्तरक्षाविधायिनः ।
महाकालस्य लिङ्गस्य माहात्म्यं भक्तिवर्धनम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
उज्जयिन्यामभूद्राजा चन्द्रसेनाह्वयो महान् ।
सर्वशास्त्रार्थतत्त्वज्ञः शिवभक्तो जितेन्द्रियः ॥ ३॥
तस्याभवत्सखा राज्ञो मणिभद्रो गणो द्विजाः ।
गिरीशगणमुख्यश्च सर्वलोकनमस्कृतः ॥ ४॥
एकदा स गणेन्द्रो हि प्रसन्नास्यो महामणिम् ।
मणिभद्रो ददौ तस्मै चिन्तामणिमुदारधीः ॥ ५॥
स वै मणिः कौस्तुभवद् द्योतमानोऽर्कसन्निभः ।
ध्यातो दृष्टः श्रुतो वापि मङ्गलं यच्छति ध्रुवम् ॥ ६॥
तस्य कान्तितलस्पृष्टं कांस्यं ताम्रमयस्त्रपु ।
पाषाणादिकमन्यद्वा द्रुतं भवति हाटकम् ॥ ७॥
स तु चिन्तामणिं कण्ठे बिभ्रद् राजा शिवाश्रयः ।
चन्द्रसेनो रराजाति देवमध्येव भानुमान् ॥ ८॥
श्रुत्वा चिन्तामणिग्रीवं चन्द्रसेनं नृपोत्तमम् ।
निखिलाः क्षितिराजानस्तृष्णाक्षुब्धहृदोऽभवन् ॥ ९॥
नृपा मत्सरिणः सर्वे तं मणिं चन्द्रसेनतः ।
नानोपायैरयाचन्त देवलब्धमबुद्धयः ॥ १०॥
सर्वेषां भूभृतां याञ्चा चन्द्रसेनेन तेन वै ।
व्यर्थीकृता महाकालदृढभक्तेन भूसुराः ॥ ११॥
ते कदर्थीकृताः सर्वे चन्द्रसेनेन भूभृता ।
राजानः सर्वदेशानां संरम्भं चक्रिरे तदा ॥ १२॥
अथ ते सर्वराजानश्चतुरङ्गबलान्विताः ।
चन्द्रसेनं रणे जेतुं सम्बभूवुः किलोद्यताः ॥ १३॥
ते तु सर्वे समेता वै कृतसङ्केतसंविदः ।
उज्जयिन्याश्चतुर्द्वारं रुरुधुर्बहुसैनिकाः ॥ १४॥
संरुध्यमानां स्वपुरीं दृष्ट्वा निखिलराजभिः ।
तमेव शरणं राजा महाकालेश्वरं ययौ ॥ १५॥
निर्विकल्पो निराहारः स नृपो दृढनिश्चयः ।
समानर्च महाकालं दिवानक्तमनन्यधीः ॥ १६॥
ततः स भगवाञ्छम्भुर्महाकालः प्रसन्नधीः ।
तं रक्षितुमुपायं वै चक्रे तं शृणुतादरात् ॥ १७॥
तदैव समये गोपी काचित्तत्र पुरोत्तमे ।
चरन्ती सशिशुर्विप्रा महाकालान्तिकं ययौ ॥ १८॥
पञ्चाब्दवयसं बालं वहन्ती गतभर्तृका ।
राज्ञा कृतां महाकालपूजां सापश्यदादरात् ॥ १९॥
सा दृष्ट्वा सुमहाश्चर्यां शिवपूजां च तत्कृताम् ।
प्रणिपत्य स्वशिविरं पुनरेवाभ्यपद्यत ॥ २०॥
एतत्सर्वमशेषेण स दृष्ट्वा वल्लवीसुतः ।
कुतूहलेन तां कर्तुं शिवपूजां मनो दधे ॥ २१॥
आनीय हृद्यं पाषाणं शून्ये तु शिविरान्तरे ।
अविदूरे स्वशिविराच्छिवलिङ्गं स भक्तितः ॥ २२॥
गन्धालङ्कारवासोभिर्धूपदीपाक्षतादिभिः ।
विधाय कृत्रिमैर्द्रव्यैर्नैवेद्यं चाप्यकल्पयत् ॥ २३॥
भूयो भूयः समभ्यर्च्य पत्रैः पुष्पैर्मनोरमैः ।
नृत्यं च विविधं कृत्वा प्रणनाम पुनः पुनः ॥ २४॥
एतस्मिन्समये पुत्रं शिवासक्तसुचेतसम् ।
प्रणयाद्गोपिका सा तं भोजनाय समाह्वयत् ॥ २५॥
यदाहूतोऽपि बहुश; शिवपूजाक्तमानसः ।
बालश्च भोजनं नैच्छत्तदा तत्र ययौ प्रसूः ॥ २६॥
तं विलोक्य शिवस्याग्रे निषण्णं मीलितेक्षणम् ।
चकर्ष पाणिं सङ्गृह्य कोपेन समताडयत् ॥ २७॥