४ कोटिरुद्रसंहिता, अध्याय 12: कोटिरुद्रसंहितायां सोमनाथज्योतिर्लिङ्गोत्पत्तिवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
चतुर्थी कोटिरुद्रसंहिता ४.१४. चतुर्दशोऽध्यायः ।
सोमनाथज्योतिर्लिङ्गोत्पत्तिवर्णनम् ।
ऋषय ऊचुः ।
ज्योतिषां चैव लिङ्गानां माहात्म्यं कथयाधुना ।
उत्पत्तिं च तथा तेषां ब्रूहि सर्वं यथाश्रुतम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
सूत उवाच ।
शृण्वन्तु विप्रा वक्ष्यामि तन्माहात्म्यं जनिं तथा ।
सङ्क्षेपतो यथाबुद्धि सद्गुरोश्च मया श्रुतम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
एतेषां चैव माहात्म्यं वक्तुं वर्षशतैरपि ।
शक्यते न मुनिश्रेष्ठास्तथापि कथयामि वः ॥ ३॥
सोमनाथश्च तेषां वै प्रथमः परिकीर्तितः ।
तन्माहात्म्यं शृणु मुने प्रथमं सावधानतः ॥ ४॥
सप्तविंशन्मिताः कन्या दक्षेण च महात्मना ।
तेन चन्द्रमसे दत्ता अश्विन्याद्या मुनीश्वराः ॥ ५॥
चन्द्रं च स्वामिनं प्राप्य शोभमाना विशेषतः ।
चन्द्रोऽपि चैव ताः प्राप्य शोभते स्म निरन्तरम् ॥ ६॥
हेम्ना चैव मणिर्भाति मणिना हेम चैव हि ।
एवं च समये तस्य यज्जातं श्रूयतामिति ॥ ७॥
सर्वास्वपि च पत्नीषु रोहिणी नाम या स्मृता ।
यथैका सा प्रिया चासीत्तथान्या न कदाचन ॥ ८॥
अन्याश्च दुःखमापन्नाः पितरं शरणं ययुः ।
गत्वा तस्मै च यद्दुःखं तथा ताभिर्निवेदितम् ॥ ९॥
दक्षः स च तथा श्रुत्वा दुःखं च प्राप्तावांस्तदा ।
समागत्य द्विजाश्चन्द्रं शान्त्यावोचद् वचस्तदा ॥ १०॥
दक्ष उवाच ।
विमले च कुले त्वं हि समुत्पन्नः कलानिधे ।
आश्रितेषु च सर्वेषु न्यूनाधिक्यं कथं तव ॥ ११॥
कृतं चेत्तत्कृतं तच्च न कर्तव्यं त्वया पुनः ।
वर्तनं विषमत्वेन नरकप्रदमीरितम् ॥ १२॥
सूत उवाच ।
दक्षश्चैवं च सम्प्रार्थ्य चन्द्रं जामातरं स्वयम् ।
जगाम मन्दिरं स्वं वै निश्चयं परमं गतः ॥ १३॥
चन्द्रोऽपि वचनं तस्य न चकार विमोहितः ।
शिवमायाप्रभावेण यया सम्मोहितं जगत् ॥ १४॥
शुभं भावि यदा यस्य शुभं भवति तस्य वै ।
अशुभं च यदा भावि कथं तस्य शुभं भवेत् ॥ १५॥
चन्द्रोऽपि बलवद्भाविवशान्मेने न तद्वचः ।
रोहिण्यां च समासक्तो नान्यां मेने कदाचन ॥ १६॥
तच्छ्रुत्वा पुनरागत्य स्वयं दुःखसमन्वितः ।
प्रार्थयामास चन्द्रं स दक्षो दक्षः सुनीतितः ॥ १७॥
दक्ष उवाच ।
श्रूयतां चन्द्र यत्पूर्वं प्रार्थितो बहुधा मया ।
न मानितं त्वया यस्मात्तस्मात्त्वं च क्षयी भव ॥ १८॥
सूत उवाच ।
इत्युक्ते तेन चन्द्रो वै क्षयी जातः क्षणादिह ।
हाहाकारो महानासीत्तदेन्दौ क्षीणतां गते ॥ १९॥
देवर्षयस्तदा सर्वे किं कार्यं हा कथं भवेत् ।
इति दुःखं समापन्ना विह्वला ह्यभवन्मुने ॥ २०॥
विज्ञापिताश्च चन्द्रेण सर्वे शक्रादयः सुराः ।
ऋषयश्च वसिष्ठाद्या ब्रह्माणं शरणं ययुः ॥ २१॥
गत्वापि तु तदा प्रोचुस्तद् वृत्तं निखिलं मुने ।
ब्रह्मणे ऋषयो देवा नत्वा नुत्वातिविह्वलाः ॥ २२॥
ब्रह्मापि तद्वचः श्रुत्वा विस्मयं परमं ययौ ।
शिवमायां सुप्रशस्य श्रावयंस्तानुवाच ह ॥ २३॥
ब्रह्मोवाच ।
अहो कष्टं महज्जातं सर्वलोकस्य दुःखदम् ।
चन्द्रस्तु सर्वदा दुष्टो दक्षश्च शप्तवानमुम् ॥ २४॥
सर्वं दुष्टेन चन्द्रेण कृतं कर्माप्यनेकशः ।
श्रूयतामृषयो देवाश्चन्द्रकृत्यं पुरातनम् ॥ २५॥
बृहस्पतेर्गृहं गत्वा तारा दुष्टेन वै हृता ।
तस्य भार्या पुनश्चैव स दैत्यान्समुपस्थितः ॥ २६॥
समाश्रितस्तदा दैत्यान्युद्धं देवैश्चकार ह ।
मयात्रिणा निषिद्धश्च तस्मै तारां ददौ शशी ॥ २७॥