Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं

Containing 82 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 1

चतुर्थी कोटिरुद्रसंहिता ४.१३. त्रयोदशोऽध्यायः ।

बटुकोत्पत्तिवर्णनम् ।

सूत उवाच ।

यथाभवल्लिङ्गरूपः सम्पूज्यस्त्रिभवे शिवः ।

तथोक्तं वा द्विजाः प्रीत्या किमन्यच्छ्रोतुमिच्छथ ॥ १॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 2

ऋषय ऊचुः ।

अन्धकेश्वरलिङ्गस्य महिमानं वद प्रभो ।

तथान्यच्छिवलिङ्गानां प्रीत्या वक्तुमिहार्हसि ॥ २॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 3

सूत उवाच ।

पुराब्धिगर्तमाश्रित्य वसन् दैत्योऽन्धकासुरः ।

स्ववशं कारयामास त्रैलोक्यं सुरसूदनः ॥ ३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 4

तस्माद्गर्ताच्च निःसृत्य पीडयित्वा पुनः प्रजाः ।

प्राविशच्च तदा दैत्यस्तं गर्तं सुपराक्रमः ॥ ४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 5

देवाश्च दुःखिताः सर्वे शिवं प्रार्थ्य पुनःपुनः ।

सर्वं निवेदयामासुः स्वदुःखं च मुनीश्वराः ॥ ५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 6

सूत उवाच ।

तदाकर्ण्य वचस्तेषां देवानां परमेश्वरः ।

प्रत्युवाच प्रसन्नात्मा दुष्टहन्ता सतां गतिः ॥ ६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 7

शिव उवाच ।

घातयिष्यामि तं दैत्यमन्धकं सुरसूदनम् ।

सैन्यं च नीयतान्देवा ह्यायामि च गणैः सह ॥ ७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 8

तस्माद्गर्तादन्धके हि देवर्षिद्रुहि भीकरे ।

निःसृते च तदा तस्मिन्देवा गर्तमुपाश्रिताः ॥ ८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 9

दैत्याश्च देवताश्चैव युद्धं चक्रुः सुदारुणम् ।

शिवानुग्रहतो देवाः प्रबलाश्चाभवँस्तदा ॥ ९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 10

देवैश्च पीडितः सोऽपि यावद्गर्तमुपागतः ।

तावच्छूलेन सम्प्रोतः शिवेन परमात्मना ॥ १०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 11

तत्रत्यश्च तदा शम्भुं ध्यात्वा सम्प्रार्थयत्तदा ।

अन्तकाले च त्वां दृष्ट्वा तादृशो भवति क्षणात् ॥ ११॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 12

इत्येवं संस्तुतः सोऽपि प्रसन्नः शङ्करस्तदा ।

उवाच वचनं तत्र वरं ब्रूहि ददामि ते ॥ १२॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 13

इत्येवं वचनं श्रुत्वा स दैत्यः पुनरब्रवीत् ।

सुप्रणम्य शिवं स्तुत्वा सत्त्वभावमुपाश्रितः ॥ १३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 14

अन्धक उवाच ।

यदि प्रसन्नो देवेश स्वभक्तिं देहि मे शुभाम् ।

कृपां कृत्वा विशेषेण संस्थितो भव चेह वै ॥ १४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 15

सूत उवाच ।

इत्युक्तस्तेन दैत्यं तं तद्गर्ते चाक्षिपद्धरः ।

स्वयं तत्र स्थितो लिङ्गरूपोऽसौ लोककाम्यया ॥ १५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 16

अन्धकेशं च तल्लिङ्गं नित्यं यः पूजयेन्नरः ।

षण्मासाज्जायते तस्य वाञ्छासिद्धिर्न संशयः ॥ १६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 17

वृत्त्यर्थं पूजयेल्लिङ्गं लोकस्य हितकारकम् ।

षण्मासं यो द्विजश्चैव स वै देवलकः स्मृतः ॥ १७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 18

यथा देवलकश्चैव स भवेदिह वै तदा ।

देवलकश्च यः प्रोक्तो नाधिकारो द्विजस्य हि ॥ १८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 19

॥

ऋषय ऊचुः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 19

देवलकश्च कः प्रोक्तः किं कार्यं तस्य विद्यते ।

तत्त्वं वद महाप्राज्ञ लोकानां हितहेतवे ॥ १९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 20

सूत उवाच ।

दधीचिर्नाम विप्रो यो धर्मिष्ठो वेदपारगः ।

शिवभक्तिरतो नित्यं शिवशास्त्रपरायणः ॥ २०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 21

तस्य पुत्रस्तथा ह्यासीत्स्मृतो नाम्ना सुदर्शनः ।

तस्य भार्या दुकूला च नाम्ना दुष्टकुलोद्भवा ॥ २१॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 22

तद्वशे स च भर्तासीत्तस्य पुत्रचतुष्टयम् ।

सोऽपि नित्यं शिवस्यैव पूजां च स्म करोत्यसौ ॥ २२॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 23

दधीचेस्तु तदा ह्यासीद् ग्रामान्तरनिवेशनम् ।

ज्ञातिसंयोगतश्चैव ज्ञातिभिर्न स मोचितः ॥ २३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 24

कथयित्वा च पुत्रं स शिवभक्तिरतो भव ।

इत्युक्त्वा स गतो मुक्तो दधीचिः शैवसत्तमः ॥ २४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 25

सुदर्शनस्तत्पुत्रोऽपि शिवपूजां चकार ह ।

एवं चिरतरः कालो व्यतीयाय मुनीश्वराः ॥ २५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 11: कोटिरुद्रसंहितायां बटुकोत्पत्तिवर्णनं, Verse 26

एवं च शिवरात्रिश्च समायाता कदाचन ।

तस्यां चोपोषिताः सर्वे स्वयं संयोगतस्तदा ॥ २६॥