४ कोटिरुद्रसंहिता, अध्याय 10: कोटिरुद्रसंहितायां लिङ्गस्वरूपकारणवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 82 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
चतुर्थी कोटिरुद्रसंहिता ४.११. एकादशोऽध्यायः ।
चन्द्रभालपशुपतिनाथलिङ्गमाहात्म्यवर्णनम् ।
ऋषय ऊचुः ।
सूत सूत महाभाग धन्यस्त्वं शिवसक्तधीः ।
महाबलस्य लिङ्गस्य श्रावितेयं कथाद्भुता ॥ १॥
दधीचमूर्तिस्तत्रैव समर्च्या विधिपूर्वकम् ।
शिवप्रीत्यर्थमेवाशु तीर्थयात्राफलार्थिभिः ॥ १॥
चतुर्थी कोटिरुद्रसंहिता ४.१२. द्वादशोऽध्यायः ।
लिङ्गस्वरूपकारणवर्णनम् ।
ऋषय ऊचुः ।
सूत जानासि सकलं वस्तु व्यासप्रसादतः ।
तवाज्ञातं न विद्येत तस्मात्पृच्छामहे वयम् ॥ १॥
तं दृष्ट्वा ऋषिपत्न्यस्ताः परं त्रासमुपागताः ।
विह्वला विस्मिताश्चान्याः समाजग्मुस्तथा पुनः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
उत्तरस्यां दिशायां च शिवलिङ्गानि यानि च ।
तेषां माहात्म्यमनघं वद त्वं पापनाशकम् ॥ २॥
लिङ्गं च पूज्यते लोके तत्त्वया कथितं च यत् ।
तत्तथैव न चान्यद्वा कारणं विद्यते त्विह ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
सूत उवाच ।
शृणुतादरतो विप्रा औत्तराणां विशेषतः ।
माहात्म्यं शिवलिङ्गानां प्रवदामि समासतः ॥ ३॥
बाणरूपा श्रुता लोके पार्वती शिववल्लभा ।
एतत्किं कारणं सूत कथय त्वं यथाश्रुतम् ॥ ३॥
गोकर्णं क्षेत्रमपरं महापातकनाशनम् ।
महावनं च तत्रास्ति पवित्रमतिविस्तरम् ॥ ४॥
सूत उवाच ।
कल्पभेदकथा चैव श्रुता व्यासान्मया द्विजाः ।
तामेव कथयाम्यद्य श्रूयतामृषिसत्तमाः ॥ ४॥
तत्रास्ति चन्द्रभालाख्यं शिवलिङ्गमनुत्तमम् ।
रावणेन समानीतं सद्भक्त्या सर्वसिद्धिदम् ॥ ५॥
पुरा दारुवने जातं यद् वृत्तं तु द्विजन्मनाम् ।
तदेव श्रूयतां सम्यक् कथयामि यथाश्रुतम् ॥ ५॥
तस्य तत्र स्थितिर्वैद्यनाथस्येव मुनीश्वराः ।
सर्वलोकहितार्थाय करुणासागरस्य च ॥ ६॥
दारुनाम वनं श्रेष्ठं तत्रासन् ऋषिसत्तमाः ।
शिवभक्ताः सदा नित्यं शिवध्यानपरायणाः ॥ ६॥
स्नानं कृत्वा तु गोकर्णे चन्द्रभालं समर्च्य च ।
शिवलोकमवाप्नोति सत्यं सत्यं न संशयः ॥ ७॥
त्रिकालं शिवपूजां च कुर्वन्ति स्म निरन्तरम् ।
नानाविधैः स्तवैर्दिव्यैस्तुष्टुवुस्ते मुनीश्वराः ॥ ७॥
चन्द्रभालस्य लिङ्गस्य महिमा परमाद्भुतः ।
न शक्यो वर्णितुं व्यासाद्भक्तिस्नेहरतस्य हि ॥ ८॥
ते कदाचिद्वने याताः समिधाहरणाय च ।
सर्वे द्विजर्षभाः शैवाः शिवध्यानपरायणाः ॥ ८॥
चन्द्रभालमहादेवलिङ्गस्य महिमा महान् ।
यथाकथञ्चित्सम्प्रोक्तः परलिङ्गस्य वै शृणु ॥ ९॥
एतस्मिन्नन्तरे साक्षाच्छङ्करो नीललोहितः ।
विरूपं च समास्थाय परीक्षार्थं समागतः ॥ ९॥
दाधीचं शिवलिङ्गं तु मिश्रर्षिवरतीर्थके ।
दधीचिना मुनीशेन सुप्रीत्या च प्रतिष्ठितम् ॥ १०॥
दिगम्बरोऽतितेजस्वी भूतिभूषणभूषितः ।
स चेष्टामकरोद्दुष्टां हस्ते लिङ्गं विधारयन् ॥ १०॥
तत्र गत्वा च तत्तीर्थे स्नात्वा सम्यग्विधानतः ।
शिवलिङ्गं समर्चेद्वै दाधीचेश्वरमादरात् ॥ ११॥
मनसा च प्रियं तेषां कर्तुं वै वनवासिनाम् ।
जगाम तद्वनं प्रीत्या भक्तप्रीतो हरः स्वयम् ॥ ११॥
एवं कृते मुनिश्रेष्ठाः कृतकृत्यो भवेन्नरः ।
इह सर्वसुखं भुक्त्वा परत्र गतिमाप्नुयात् ॥ १३॥
आलिलिङ्गुस्तथा चान्याः करं धृत्वा तथापराः ।
परस्परं तु सङ्घर्षात्सम्मग्नास्ताः स्त्रियस्तदा ॥ १३॥
नैमिषारण्यतीर्थे तु निखिलर्षिप्रतिष्ठितम् ।
ऋषीश्वरमिति ख्यातं शिवलिङ्गं सुखप्रदम् ॥ १४॥