४ कोटिरुद्रसंहिता, अध्याय 9: कोटिरुद्रसंहितायां महाबलाह्वशिवलिङ्ग- माहात्म्यवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
चतुर्थी कोटिरुद्रसंहिता ४.१०. दशमोऽध्यायः ।
महाबलाह्वशिवलिङ्गमाहात्म्यवर्णनम् ।
सूत उवाच ।
श्रीमतीक्ष्वाकुवंशे हि राजा परमधार्मिकः ।
आसीन्मित्रसहो नाम श्रेष्ठः सर्वधनुष्मताम् ॥ १॥
स राजानुचितं शापं विज्ञाय क्रोधमूर्छितः ।
जलाञ्जलिं समादाय गुरुं शप्तुं समुद्यतः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
तस्य राज्ञः सुधर्मिष्ठा मदयन्ती प्रिया शुभा ।
दमयन्ती नलस्येव बभूव विदिता सती ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
स एकदा हि मृगयास्नेही मित्रसहो नृपः ।
महद्बलेन संयुक्तो जगाम गहनं वनम् ॥ ३॥
अभिसृत्य स राजेन्द्रो गौतमं विमलाशयम् ।
तद्दर्शनाप्तकिञ्चित्कः प्रणनाम मुहुर्मुहुः ॥ ३॥
विहरंस्तत्र स नृपः कमठाह्वं निशाचरम् ।
निजघान महादुष्टं साधुपीडाकरं खलम् ॥ ४॥
अथ तस्यानुजः पापी जयेयं छद्मनैव तम् ।
मत्वा जगाम नृपतेरन्तिकं छद्मकारकः ॥ ५॥
तं विनम्राकृतिं दृष्ट्वा भृत्यतां कर्तुमागतम् ।
चक्रे महानसाध्यक्षमज्ञानात्स महीपतिः ॥ ६॥
अथ तस्मिन्वने राजा कियत्कालं विहृत्य सः ।
निवृत्तो मृगयां हित्वा स्वपुरीमाययौ मुदा ॥ ७॥
पितुः क्षयाहे सम्प्राप्ते निमन्त्र्य स्वगुरुं नृपः ।
वसिष्ठं गृहमानिन्ये भोजयामास भक्तितः ॥ ८॥
रक्षसा सूदरूपेण सम्मिश्रितनरामिषम् ।
शाकामिषं पुरः क्षिप्तं दृष्ट्वा गुरुरथाब्रवीत् ॥ ९॥
गुरुरुवाच ।
धिक् त्वां नरामिषं राजंस्त्वयैतच्छद्मकारिणा ।
खलेनोपहृतं मह्यं ततो रक्षो भविष्यसि ॥ १०॥
रक्षःकृतं च विज्ञाय तदैवं स गुरुस्तदा ।
पुनर्विमृश्य तं शापं चकार द्वादशाब्दिकम् ॥ ११॥
तदा च तत्प्रिया साध्वी मदयन्ती सुधर्मिणी ।
पतित्वा पादयोस्तस्य शापं तं हि न्यवारयत् ॥ १३॥
ततो निवृत्तशापस्तु तस्या वचनगौरवात् ।
तत्याज पादयोरम्भः पादौ कल्मषतां गतौ ॥ १४॥
ततःप्रभृति राजा भूत्स लोकेऽस्मिन्मुनीश्वराः ।
कल्मषाङ्घ्रिरिति ख्यातः प्रभावात्तज्जलस्य हि ॥ १५॥
राजा मित्रसहः शापाद् गुरोरॄषिवरस्य हि ।
बभूव राक्षसो घोरो हिंसको वनगोचरः ॥ १६॥
स बिभ्रद्राक्षसं रूपं कालान्तकयमोपमम् ।
चखाद विविधाञ्जन्तून् मानुषादीन्वनेचरः ॥ १७॥
स कदाचिद्वने क्वापि रममाणौ किशोरकौ ।
अपश्यदन्तकाकारो नवोढौ मुनिदम्पती ॥ १८॥
राक्षसः स नराहारः किशोरं मुनिनन्दनम् ।
जग्धुं जग्राह शापार्त्तो व्याघ्रो मृगशिशुं यथा ॥ १९॥
कक्षे गृहीतं भर्तारं दृष्ट्वा भीता च तत्प्रिया ।
सा चक्रे प्रार्थनां तस्मै वदती करुणं वचः ॥ २०॥
प्रार्थ्यमानोऽपि बहुशः पुरुषादः स निर्घृणः ।
चखाद शिर उत्कृत्य विप्रसूनोर्दुराशयः ॥ २१॥
अथ साध्वी च सा दीना विलप्य भृशदुःखिता ।
आहृत्य भर्तुरस्थीनि चितां चक्रे किलोल्बणाम् ॥ २२॥
भर्तारमनुगच्छन्ती संविशन्ती हुताशनम् ।
राजानं राक्षसाकारं सा शशाप द्विजाङ्गना ॥ २३॥
अद्यप्रभृति नारीषु यदा त्वं सङ्गतो भवेः ।
तदा मृतिस्तवेत्युक्त्वा विवेश ज्वलनं सती ॥ २४॥
सोऽपि राजा गुरोः शापमनुभूय कृतावधिम् ।
पुनः स्वरूपमास्थाय स्वगृहं मुदितो ययौ ॥ २५॥
ज्ञात्वा विप्रसतीशापं मदयन्ती रतिप्रियम् ।
पतिं निवारयामास वैधव्यादतिबिभ्यती ॥ २६॥