Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 1

चतुर्थी कोटिरुद्रसंहिता ४.७. सप्तमोऽध्यायः ।

नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनम् ।

ऋषय ऊचुः ।

कथं गङ्गा समायाता वैशाखे सप्तमीदिने ।

नर्मदायां विशेषेण सूतैतद्वर्णय प्रभो ॥ १॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 2

ईश्वरश्च कथं जातो नन्दिकेशो हि नामतः ।

वृत्तं तदपि सुप्रीत्या कथय त्वं महामते ॥ २॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 3

सूत उवाच ।

साधु पृष्टमृषिश्रेष्ठा नन्दिकेशाश्रितं वचः ।

तदहं कथयाम्यद्य श्रवणात्पुण्यवर्धनम् ॥ ३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 4

ब्राह्मणी ऋषिका नाम्नी कस्यचिच्च द्विजन्मनः ।

सुता विवाहिता कस्मैचिद् द्विजाय विधानतः ॥ ४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 5

पूर्वकर्मप्रभावेण पत्नी सा हि द्विजन्मनः ।

सुव्रतापि च विप्रेन्द्रा बालवैधव्यमागता ॥ ५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 6

अथ सा द्विजपत्नी हि ब्रह्मचर्यव्रतान्विता ।

पार्थिवार्चनपूर्वं हि तपस्तेपे सुदारुणम् ॥ ६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 7

तस्मिन्नवसरे दुष्टो मूढनामासुरो बली ।

ययौ तत्र महामायी कामबाणेन ताडितः ॥ ७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 8

तपन्तीं तां समालोक्य सुन्दरीमतिकामिनीम् ।

तया भोगं ययाचे स नानालोभं प्रदर्शयन् ॥ ८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 9

अथ सा सुव्रता नारी शिवध्यानपरायणा ।

तस्मिन्दृष्टिं दधौ नैव कामदृष्ट्या मुनीश्वराः ॥ ९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 10

न मानितवती तं च ब्राह्मणी सा तपोरता ।

अतीव हि तपोनिष्ठासीच्छिवध्यानमाश्रिता ॥ १०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 11

अथ मूढः स दैत्येन्द्रः तया तन्व्या तिरस्कृतः ।

चुक्रोध विकटं तस्यै पश्चाद्रूपमदर्शयत् ॥ ११॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 12

अथ प्रोवाच दुष्टात्मा दुर्वचो भयकारकम् ।

त्रासयामास बहुशस्तां च पत्नीं द्विजन्मनः ॥ १२॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 13

तदा सा भयसन्त्रस्ता बहुवारं शिवेति च ।

बभाषे स्नेहतस्तन्वी द्विजपत्नी शिवाश्रया ॥ १३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 14

विह्वलातीव सा नारी शिवनामप्रभाषिणी ।

जगाम शरणं शम्भोः स्वधर्मावनहेतवे ॥ १४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 15

शरणागतरक्षार्थं कर्तुं सद्वृत्तमाहितम् ।

आनन्दार्थं हि तस्यास्तु शिव आविर्बभूव ह ॥ १५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 16

अथ तं मूढनामानं दैत्येन्द्रं कामविह्वलम् ।

चकार भस्मसात्सद्यः शङ्करो भक्तवत्सलः ॥ १६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 17

ततश्च परमेशानो कृपादृष्ट्या विलोक्य ताम् ।

वरं ब्रूहीति चोवाच भक्तरक्षणदक्षधीः ॥ १७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 18

श्रुत्वा महेशवचनं सा साध्वी द्विजकामिनी ।

ददर्श शाङ्करं रूपमानन्दजनकं शुभम् ॥ १८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 19

ततः प्रणम्य तं शम्भुं परमेशं सुखावहम् ।

तुष्टाव साञ्जलिः साध्वी नतस्कन्धा शुभाशया ॥ १९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 20

ऋषिकोवाच ।

देवदेव महादेव शरणागतवत्सल ।

दीनबन्धुस्त्वमीशानो भक्तरक्षाकरः सदा ॥ २०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 21

त्वया मे रक्षितो धर्मो मूढनाम्नोऽसुरादिह ।

यदयं निहतो दुष्टो जगद्रक्षा कृता त्वया ॥ २१॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 22

स्वपादयोः परां भक्तिं देहि मे ह्यनपायिनीम् ।

अयमेव वरो नाथ किमन्यदधिकं ह्यतः ॥ २२॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 23

अन्यदाकर्णय विभो प्रार्थनां मे महेश्वर ।

लोकानामुपकारार्थमिह त्वं संस्थितो भव ॥ २३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 24

सूत उवाच ।

इति स्तुत्वा महादेवमृषिका सा शुभव्रता ।

तूष्णीमासाथ गिरिशः प्रोवाच करुणाकरः ॥ २४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 25

गिरिश उवाच ।

ऋषिके सुचरित्रा त्वं मम भक्ता विशेषतः ।

दत्ता वराश्च ते सर्वे तुभ्यं ये ये हि याचिताः ॥ २५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 26

एतस्मिन्नन्तरे तत्र हरिब्रह्मादयः सुराः ।

शिवाविर्भावमाज्ञाय ययुर्हर्षसमन्विताः ॥ २६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 7: कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिङ्गमाहात्म्यवर्णनं, Verse 27

शिवं प्रणम्य सुप्रीत्या समानर्चुश्च तेऽखिलाः ।

तुष्टुवुर्नतका विप्राः करौ बद्ध्वा सुचेतसः ॥ २७॥