४ कोटिरुद्रसंहिता, अध्याय 6: कोटिरुद्रसंहितायां नन्दिकेश्वरलिङ्गमाहात्म्यवर्णने ब्राह्मणीस्वर्गतिवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
चतुर्थी कोटिरुद्रसंहिता ४.६. षष्ठोऽध्यायः ।
ब्राह्मणीस्वर्गतिवर्णनम् ।
सूत उवाच ।
गौश्चैकाप्यभवत्तत्र ह्यङ्गणे बन्धिता शुभा ।
तदैव ब्राह्मणो रात्रावाजगाम बहिर्गतः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
स उवाच प्रियां स्वीयां दृष्ट्वा गामङ्गणे स्थिताम् ।
अदुग्धां खेदनिर्विण्णो दोग्धुकामो मुनीश्वराः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
गौः प्रिये नैव दुग्धा ते सेत्युक्ता वत्समानयत् ।
दोहनार्थं समाहूय स्त्रियं शीघ्रतरं तदा ॥ ३॥
सूत उवाच ।
इत्येतद्वचनं श्रुत्वा स्वमातुर्गोर्द्विजोत्तमाः ।
मौनत्वं स्वीकृतं तत्र वत्सेनोक्तं न किञ्चन ॥ ३॥
वत्सं कीले स्वयं बद्धुं यत्नं चैवाकरोत्तदा ।
ब्राह्मणः स गृहस्वामी मुनयो दुग्धलालसः ॥ ४॥
वत्सोऽपि कर्षमाणश्च पादे वै पादपीडनम् ।
चकार ब्राह्मणश्चैव कष्टं प्राप्तश्च सुव्रताः ॥ ५॥
तेन पादप्रहारेण स द्विजः क्रोधमूर्छितः ।
वत्सं च ताडयामास कूपैर्दृढतरं तदा ॥ ६॥
वत्सोऽपि पीडितस्तेन श्रान्तश्चैवाभवत्तदा ।
दुग्धा गौर्मोचितो वत्सो न क्रोधेन द्विजन्मना ॥ ७॥
गौर्दोग्धुं च महत्प्रीत्या रोदनं चाकरोत्तदा ।
दृष्ट्वा च रोदनं तस्या वत्सो वाक्यमथाब्रवीत् ॥ ८॥
वत्स उवाच ।
कथं च रुद्यते मातः किं ते दुःखमुपस्थितम् ।
तन्निवेदय मे प्रीत्या तच्छ्रुत्वा गौरवोचत ॥ ९॥
एवं ज्ञात्वा त्वया मातर्दुःखं त्याज्यं सुयत्नतः ।
सुभगाचरणं कार्यं परलोकसुखेप्सया ॥ ९॥
श्रूयतां पुत्र मे दुःखं वक्तुं शक्नोम्यहं न हि ।
दुष्टेन ताडितस्त्वं च तेन दुःखं ममाप्यभूत् ॥ १०॥
सूत उवाच ।
स्वमातुर्वचनं श्रुत्वा स वत्सः प्रत्यबोधयत् ।
प्रत्युवाच स्वजननीं प्रारब्धपरिनिष्ठितः ॥ ११॥
किं कर्त्तव्यं क्व गन्तव्यं कर्मबद्धा वयं यतः ।
कृतं चैव यथा पूर्वं भुज्यते च तथाधुना ॥ १२॥
हसता क्रियते कर्म रुदता परिभुज्यते ।
दुःखदाता न कोऽप्यस्ति सुखदाता न कश्चन ॥ १३॥
सुखदुःखे परो दत्त इत्येषा कुमतिर्मता ।
अहं चापि करोम्यत्र मिथ्याज्ञानं तदोच्यते ॥ १४॥
स्वकर्मणा भवेद्दुःखं सुखं तेनैव कर्मणा ।
तस्माच्च पूज्यते कर्म सर्वं कर्मणि संस्थितम् ॥ १५॥
त्वं चैवाहं च जननी इमे जीवादयश्च ये ।
ते सर्वे कर्मणा बद्धा न शोच्याः कर्हिचित्त्वया ॥ १६॥
सूत उवाच ।
एवं श्रुत्वा स्वपुत्रस्य वचनं ज्ञानगर्भितम् ।
पुत्रशोकान्विता दीना सा च गौरब्रवीदिदम् ॥ १७॥
गौरुवाच ।
वत्स सर्वं विजानासि कर्माधीनाः प्रजा इति ।
तथापि मायया ग्रस्ता दुःखं प्राप्नोम्यहं पुनः ॥ १८॥
रोदनं च कृतं भूरि दुःखशान्तिर्भवेन्न हि ।
इत्येतद्वचनं श्रुत्वा प्रसूं वत्सोऽब्रवीदिदम् ॥ १९॥
वत्स उवाच ।
यद्येवं च विजानासि पुनश्च रुदनं कुतः ।
कृत्वा च साध्यते किञ्चित्तस्माद्दुःखं त्यजाधुना ॥ २०॥
सूत उवाच ।
एवं पुत्रवचः श्रुत्वा तन्माता दुःखसंयुता ।
निःश्वस्याति तदा धेनुर्वत्सं वचनमब्रवीत् ॥ २१॥
गौरुवाच ।
मम दुःखं तदा गच्छेद्यदा दुःखं तथाविधम् ।
भवेद्धि ब्राह्मणस्यापि सत्यमेतद्ब्रवीम्यहम् ॥ २२॥
प्रातश्चैव मया पुत्र शृङ्गाभ्यां हि हनिष्यते ।
हतस्य जीवितं सद्यो यास्यत्यस्य न संशयः ॥ २३॥
वत्स उवाच ।
प्रथमं यत्कृतं कर्म तत्फलं भुज्यतेऽधुना ।
अस्याश्च ब्रह्महत्याया मातः किं फलमाप्स्यसे ॥ २४॥
समाभ्यां पुण्यपापाभ्यां भवेज्जन्म च भारते ।
तयोः क्षये च भोगेन मातर्मुक्तिरवाप्यते ॥ २५॥