Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं

Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 1

कोटिरुद्रसंहिता ४.५. पञ्चमोऽध्यायः ।

ब्राह्मणीमरणवर्णनम् ।

सूत उवाच ।

कालञ्जरे गिरौ दिव्ये नीलकण्ठो महेश्वरः ।

लिङ्गरूपः सदा चैव भक्तानन्दप्रदः सदा ॥ १॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 1

नन्दीकेशं च यश्चैव पूजयेत्परया मुदा ।

नित्यं तस्याखिला सिद्धिर्भविष्यति न संशयः ॥ १॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 2

महिमा तस्य दिव्योऽस्ति श्रुतिस्मृतिप्रकीर्तितः ।

तीर्थं तदाख्यया तत्र स्नानात्पातकनाशकृत् ॥ २॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 3

रेवातीरे यानि सन्ति शिवलिङ्गानि सुव्रताः ।

सर्वसौख्यकराणीह तेषां सङ्ख्या न विद्यते ॥ ३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 3

तस्याश्चैव तु यत्कृत्यं तत्सर्वं संविधाय सः ।

मासिकं कर्म कृत्वा तु गमनाय प्रचक्रमे ॥ ३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 4

सा च रुद्रस्वरूपा हि दर्शनात्पापहारिका ।

तस्यां स्थिताश्च ये केचित्पाषाणाः शिवरूपिणः ॥ ४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 5

तथापि च प्रवक्ष्यामि यथान्यानि मुनीश्वराः ।

प्रधानशिवलिङ्गानि भुक्तिमुक्तिप्रदानि च ॥ ५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 5

सूत उवाच ।

तच्छ्रुत्वोक्तं तया तत्र न्यूनं मे विद्यते बहु ।

तदेव क्रियते चेद्वै सुखेन मरणं भवेत् ॥ ५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 6

आर्तेश्वरसुनामा हि वर्तते पापहारकः ।

परमेश्वर इति ख्यातः सिंहेश्वर इति स्मृतः ॥ ६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 6

ज्येष्ठपुत्रश्च यस्तस्यास्तेनोक्तं कथ्यतां त्वया ।

करिष्यामि तदेतद्धि तया च कथितं तदा ॥ ६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 7

शर्मेशश्च तथा चात्र कुमारेश्वर एव च ।

पुण्डरीकेश्वरः ख्यातो मण्डपेश्वर एव च ॥ ७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 7

द्विजपत्न्युवाच ।

श‍ृणु पुत्र वचः प्रीत्या पुरासीन्मे मनःस्पृहा ।

काश्यां गन्तुं तथा नासीदिदानीं म्रियते पुनः ॥ ७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 8

तीक्ष्णेशनामा तत्रासीद्दर्शनात्पापहारकः ।

धुन्धुरेश्वरनामासीत्पापहा नर्मदातटे ॥ ८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 8

ममास्थीनि त्वया पुत्र क्षेपणीयान्यतन्द्रितम् ।

गङ्गाजले शुभं तेऽद्य भविष्यति न संशयः ॥ ८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 9

शूलेश्वर इति ख्यातस्तथा कुम्भेश्वरः स्मृतः ।

कुबेरेश्वरनामापि तथा सोमेश्वरः स्मृतः ॥ ९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 10

नीलकण्ठो मङ्गलेशो मङ्गलायतनो महान् ।

महाकपीश्वरो देवः स्थापितो हि हनूमता ॥ १०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 11

ततश्च नन्दिको देवो हत्याकोटिनिवारकः ।

सर्वकामार्थदश्चैव मोक्षदो हि प्रकीर्तितः ॥ ११॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 13

तत्र तीरे च यः स्नाति रेवायां मुनिसत्तमाः ।

तस्य कामाश्च सिध्यन्ति सर्वं पापं विनश्यति ॥ १३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 14

ऋषय ऊचुः ।

एवं तस्य च माहात्म्यं कथं तत्र महामते ।

नन्दिकेशस्य कृपया कथ्यतां च त्वयाधुना ॥ १४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 15

सूत उवाच ।

सम्यक् पृष्टं भवद्भिश्च कथयामि यथाश्रुतम् ।

शौनकाद्याश्च मुनयः सर्वे हि श‍ृणुतादरात् ॥ १५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 16

पुरा युधिष्ठिरेणैवं पृष्टश्च ऋषिसत्तमः ।

यथोवाच तथा वच्मि भवत्स्नेहानुसारतः ॥ १६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 17

रेवायाः पश्चिमे तीरे कर्णिकी नाम वै पुरी ।

विराजते सुशोभाढ्या चतुर्वर्णसमाकुला ॥ १७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 18

तत्र द्विजवरः कश्चिदुतथ्यकुलसम्भवः ।

काश्यां गतश्च पुत्राभ्यामर्पयित्वा स्वपत्निकाम् ॥ १८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 19

तत्रैव स मृतो विप्रः पुत्राभ्यां च श्रुतं तदा ।

तदीयं चैव तत्कृत्यं चक्राते पुत्रकावुभौ ॥ १९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 20

पत्नी च पालयामास पुत्रौ पुत्रहितैषिणी ।

किञ्चिच्च वर्जयित्वा च विभक्तं वै धनं तया ॥ २०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 21

स्वीयं च रक्षितं किञ्चिद्धनं मरणहेतवे ।

ततश्च द्विजपत्नी हि कियत्काले गते च सा ॥ २१॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 5: कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं, Verse 22

कदाचिन्म्रियमाणा सा विविधं पुण्यमाचरत् ।

न मृता दैवयोगेन द्विजपत्नी च सा द्विजाः ॥ २२॥