Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं

Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 1

कोटिरुद्रसंहिता ४.४. चतुर्थोऽध्यायः ।

अत्रीश्वरमाहात्म्यवर्णनम् ।

सूत उवाच ।

कदाचित्स ऋषिश्रेष्ठो ह्यत्रिर्ब्रह्मविदां वरः ।

जागृतश्च जलं देहि प्रत्युवाच प्रियामिति ॥ १॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 2

सापि साध्वी त्ववश्यं च गृहीत्वाथ कमण्डलुम् ।

जगाम विपिने तत्र जलं मे नीयते कुतः ॥ २॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 3

किं करोमि क्व गच्छामि कुतो नीयेत वै जलम् ।

इति विस्मयमापन्ना तां गङ्गां हि ददर्श सा ॥ ३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 4

तामनुव्रजती यावत् साब्रवीच्च तदा हि ताम् ।

गङ्गा सरिद्वरा देवी बिभ्रती सुन्दरां तनुम् ॥ ४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 5

गङ्गोवाच ।

प्रसन्नास्मि च ते देवि कुत्र यासि वदाधुना ।

धन्या त्वं सुभगे सत्यं तवाज्ञां च करोम्यहम् ॥ ५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 6

सूत उवाच ।

तद्वचश्च तदा श्रुत्वा ऋषिपत्नी तपस्विनी ।

प्रत्युवाच वचः प्रीत्या स्वयं सुचकिता द्विजाः ॥ ६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 7

अनसूयोवाच ।

का त्वं कमलपत्राक्षि कुतो वा त्वं समागता ।

तथ्यं ब्रूहि कृपां कृत्वा साध्वी सुप्रवदा सती ॥ ७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 7

सूत उवाच ।

एवं वचस्तदा श्रुत्वा मुनिर्विस्मयमानसः ।

प्रियामुवाच सुप्रीत्या शङ्करं मनसा स्मरन् ॥ ७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 8

सूत उवाच ।

इत्युक्ते च तया तत्र मुनिपत्न्या मुनीश्वराः ।

सरिद्वरा दिव्यरूपा गङ्गा वाक्यमथाब्रवीत् ॥ ८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 9

गङ्गोवाच ।

स्वामिनः सेवनं दृष्ट्वा शिवस्य च परात्मनः ।

साध्वि धर्मं च ते दृष्ट्वा स्थितास्मि तव सन्निधौ ॥ ९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 10

अहं गङ्गा समायाता भजनात्ते शुचिस्मिते ।

वशीभूता ह्यहं जाता यदिच्छसि वृणीष्व तत् ॥ १०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 11

सूत उवाच ।

इत्युक्ते गङ्गया साध्वी नमस्कृत्य पुरः स्थिता ।

उवाचेति जलं देहि चेत्प्रसन्ना ममाधुना ॥ ११॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 12

इत्येतद्वचनं श्रुत्वा गर्तं कुर्विति साब्रवीत् ।

शीघ्रं चायाच्च तत्कृत्वा स्थिता तत्क्षणमात्रतः ॥ १२॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 13

तत्र सा च प्रविष्टा च जलरूपमभूत्तदा ।

आश्चर्यं परमं गत्वा गृहीतं च जलं तया ॥ १३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 14

उवाच वचनं चैतल्लोकानां सुखहेतवे ।

अनसूया मुनेः पत्नी दिव्यरूपां सरिद्वराम् ॥ १४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 15

अनसूयोवाच ।

यदि त्वं सुप्रसन्ना मे वर्तसे च कृपा मयि ।

स्थातव्यं च त्वया तावत् मत्स्वामी यावदाव्रजेत् ॥ १५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 16

सूत उवाच ।

इति श्रुत्वानसूयाया वचनं सुखदं सताम् ।

गङ्गोवाच प्रसन्नाति ह्यत्रेर्दास्यसि मेऽनघे ॥ १६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 17

इत्युक्ते च तया तत्र ह्यनयापि कृतं तथा ।

स्वामिने तज्जलं दिव्यं दत्त्वा तत्पुरतः स्थिता ॥ १७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 18

स ऋषिश्चापि सुप्रीत्या स्वाचम्य विधिपूर्वकम् ।

पपौ दिव्यं जलं तच्च पीत्वा सुखमवाप ह ॥ १८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 19

अहो नित्यं जलं यच्च पीयते तज्जलं न हि ।

विचार्येति च तेनाशु परितश्चावलोकितम् ॥ १९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 20

शुष्कान्वृक्षान्समालोक्य दिशो रूक्षतरास्तथा ।

उवाच तामृषिश्रेष्ठो न जातं वर्षणं पुनः ॥ २०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 21

तदुक्तं तत् समाकर्ण्य नेति नेति प्रियां तदा ।

तामुवाच पुनः सोऽपि जलं नीतं कुतस्त्वया ॥ २१॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 22

इत्युक्ते तु तदा तेन विस्मयं परमं गता ।

अनसूया स्वमनसि सचिन्ता तु मुनीश्वराः ॥ २२॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 23

निवेद्यते मया चेद्वै तदोत्कर्षो भवेन्मम ।

निवेद्यते यदा नैव व्रतभङ्गो भवेन्मम ॥ २३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 24

नोभयं च तथा स्याद्वै निवेद्यं तत्तथा मम ।

इति यावद्विचार्येत तावत्पृष्टा पुनः पुनः ॥ २४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 25

अथानुग्रहतः शम्भोः प्राप्तबुद्धिः पतिव्रता ।

उवाच श्रूयतां स्वामिन्यज्जातं कथयामि ते ॥ २५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 4: कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं, Verse 26

अनसूयोवाच ।

शङ्करस्य प्रतापाच्च तवैव सुकृतैस्तथा ।

गङ्गा समागतात्रैव तदीयं सलिलं त्विदम् ॥ २६॥