Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं

Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 1

चतुर्थी कोटिरुद्रसंहिता ४.३. तृतीयोऽध्यायः ।

कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनम् ।

सूत उवाच ।

ब्रह्मपुर्यां चित्रकूटे लिङ्गं मत्तगजेन्द्रकम् ।

ब्रह्मणा स्थापितं पूर्वं सर्वकामसमृद्धिदम् ॥ १॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 2

तत्पूर्वदिशि कोटीशं लिङ्गं सर्ववरप्रदम् ।

गोदावर्याः पश्चिमे तल्लिङ्गं पशुपतिनामकम् ॥ २॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 3

दक्षिणस्यां दिशि कश्चिदत्रीश्वर इति स्वयम् ।

लोकानामुपकारार्थमनसूयासुखाय च ॥ ३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 4

प्रादुर्भूतः स्वयं देवो ह्यनावृष्ट्यामजीवयत् ।

स एव शङ्करः साक्षादंशेन स्वयमेव हि ॥ ४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 5

ऋषय ऊचुः ।

सूत सूत महाभाग कथमत्रीश्वरो हरः ।

उत्पन्नः परमो दिव्यस्तत्त्वं कथय सुव्रत ॥ ५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 6

सूत उवाच ।

साधु पृष्टमृषिश्रेष्ठाः कथयामि कथां शुभाम् ।

यां कथां सततं श्रुत्वा पातकैर्मुच्यते ध्रुवम् ॥ ६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 7

दक्षिणस्यां दिशि महत् कामदं नाम यद्वनम् ।

चित्रकूटसमीपेऽस्ति तपसां हितदं सताम् ॥ ७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 8

तत्र च ब्रह्मणः पुत्रो ह्यत्रिनामा ऋषिः स्वयम् ।

तपस्तेपेऽतिकठिनमनसूयासमन्वितः ॥ ८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 9

पूर्वं कदाचित्तत्रैव ह्यनावृष्टिरभून्मुने ।

दुःखदा प्राणिनां दैवाद्विकटा शतवार्षिकी ॥ ९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 10

वृक्षाः शुष्कास्तदा सर्वे पल्लवानि फलानि च ।

नित्यार्थं न जलं क्वापि दृष्टमासीन्मुनीश्वराः ॥ १०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 11

आर्द्रीभावो न लभ्येत खरा वाता दिशो दश ।

हाहाकारो महानासीत्पृथिव्यां दुःखदोऽति हि ॥ ११॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 12

संवर्तं चैव भूतानां दृष्ट्वात्रिगृहिणी प्रिया ।

साध्वी चैवाब्रवीदत्रिं मया दुःखं न सह्यते ॥ १२॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 13

समाधौ च विलीनोऽभूदासने संस्थितः स्वयम् ।

प्राणायामं त्रिरावृत्त्या कृत्वा मुनिवरस्तदा ॥ १३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 14

ध्यायति स्म परं ज्योतिरात्मस्थमात्मना च सः ।

अत्रिर्मुनिवरो ज्ञानी शङ्करं निर्विकारकम् ॥ १४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 15

स्वामिनि ध्यानलीने च शिष्यास्ते दूरतो गताः ।

अन्नं विना तदा ते तु मुक्त्वा तं स्वगुरुं मुनिम् ॥ १५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 16

एकाकिनी तदा जाता सानसूया पतिव्रता ।

सिषेवे सा च सततं तं मुदा मुनिसत्तमम् ॥ १६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 17

पार्थिवं सुन्दरं कृत्वा मन्त्रेण विधिपूर्वकम् ।

मानसैरुपचारैश्च पूजयामास शङ्करम् ॥ १७॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 18

तुष्टाव शङ्करं भक्त्या संसेवित्वा मुहुर्मुहुः ।

बद्धाञ्जलिपुटा भूत्वा प्रक्रम्य स्वामिनं शिवम् ॥ १८॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 19

दण्डवत्प्रणिपातेन प्रतिप्रक्रमणं तदा ।

चकार सुचरित्रा सानसूया मुनिकामिनी ॥ १९॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 20

दैत्याश्च दानवाः सर्वे दृष्ट्वा तु सुन्दरीं तदा ।

विह्वलाश्चाभवँस्तत्र तेजसा दूरतः स्थिताः ॥ २०॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 21

अग्निं दृष्ट्वा यथा दूरे वर्तन्ते तद्वदेव हि ।

तथैनां च तदा दृष्ट्वा नायान्तीह समीपगाः ॥ २१॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 22

अत्रेश्च तपसश्चैवानसूयाशिवसेवनम् ।

विशिष्यते स्म विप्रेन्द्रा मनोवाक्कायसंस्कृतम् ॥ २२॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 23

तावत्कालं तु सा देवी परिचर्यां चकार ह ।

यावत्कालं मुनिवरः प्राणायामपरायणः ॥ २३॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 24

तौ दम्पती तदा तत्र स्वस्वकार्यपरायणौ ।

संस्थितौ मुनिशार्दूल नान्यः कश्चित्परः स्थितः ॥ २४॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 25

एवं जाते तदा काले ह्यत्रिश्च ऋषिसत्तमः ।

ध्याने च परमे लीनो न व्यबुध्यत किञ्चन ॥ २५॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 26

अनसूयापि सा साध्वी स्वामिनं वै शिवं तथा ।

भेजे नान्यत्परं किञ्चिज्जानीते स्म च सा सती ॥ २६॥

Shiva Purana

४ कोटिरुद्रसंहिता, अध्याय 3: कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं, Verse 27

तस्यैव तपसा सर्वे तस्याश्च भजनेन च ।

देवाश्च ऋषयश्चैव गङ्गाद्याः सरितस्तथा ॥ २७॥