Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं

Containing 97 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 1

विद्येश्वरसंहिता १.२५. पञ्चविंशोऽध्यायः ।

रुद्राक्षमाहात्म्यम् ।

सूत उवाच ।

शौनकर्षे महाप्राज्ञ शिवरूप महापते ।

श‍ृणु रुद्राक्षमाहात्म्यं समासात् कथयाम्यहम् ॥ १॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 2

शिवप्रियतमो ज्ञेयो रुद्राक्षः परपावनः ।

दर्शनात् स्पर्शनाज्जाप्यात् सर्वपापहरः स्मृतः ॥ २॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 3

पुरा रुद्राक्षमहिमा देव्यग्रे कथितो मुने ।

लोकोपकरणार्थाय शिवेन परमात्मना ॥ ३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 4

शिव उवाच ।

श्रूयतां तु महेशानि रुद्राक्षमहिमा शिवे ।

कथयामि तव प्रीत्या भक्तानां हितकाम्यया ॥ ४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 5

दिव्यवर्षसहस्राणि महेशानि पुनः पुरा ।

तपः प्रकुर्वतस्त्रस्तं मनः संयम्य वै मम ॥ ५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 6

स्वतन्त्रेण परेशेन लोकोपकृतिकारिणा ।

लीलया परमेशानि चक्षुरुन्मीलितं मया ॥ ६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 7

पुटाभ्यां चारुचक्षुर्भ्यां पतिता जलबिन्दवः ।

तत्राश्रुबिन्दुतो जाता वृक्षा रुद्राक्षसंज्ञकाः ॥ ७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 8

स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ।

ते दत्ता विष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च ॥ ८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 9

भूमौ गौडोद्भवांश्चक्रे रुद्राक्षाञ्छिववल्लभान् ।

मथुरायामयोध्यायां लङ्कायां मलये तथा ॥ ९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 10

सह्याद्रौ च तथा काश्यां देशेष्वन्येषु वा तथा ।

परानसह्यपापौघभेदनाञ्छ्रुतिनोदनान् ॥ १०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 11

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा जाता ममाज्ञया ।

रुद्राक्षास्ते पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ ११॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 12

श्वेतरक्ताः पीतकृष्णा वर्णा ज्ञेयाः क्रमाद् बुधैः ।

स्वजातीयं नृभिर्धार्यं रुद्राक्षं वर्णतः क्रमात् ॥ १२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 13

वर्णैस्तु तत्फलं धार्यं भुक्तिमुक्तिफलेप्सुभिः ।

शिवभक्तैर्विशेषेण शिवयोः प्रीतये सदा ॥ १३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 14

धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ।

बदरीफलमात्रं तु मध्यमं सम्प्रकीर्तितम् ॥ १४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 15

अधमं चणमात्रं स्यात् प्रक्रियैषा परोच्यते ।

श‍ृणु पार्वति सुप्रीत्या भक्तानां हितकाम्यया ॥ १५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 16

बदरीफलमात्रं च यत् स्यात् किल महेश्वरि ।

तथापि फलदं लोके सुखसौभाग्यवर्धनम् ॥ १६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 17

धात्रीफलसमं यत् स्यात् सर्वारिष्टविनाशनम् ।

गुञ्जया सदृशं यत् स्यात् सर्वार्थफलसाधनम् ॥ १७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 18

यथा यथा लघुः स्याद्वै तथाधिकफलप्रदः ।

एकैकतः फलं प्रोक्तं दशांशैरधिकं बुधैः ॥ १८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 19

रुद्राक्षधारणं प्रोक्तं पापनाशनहेतवे ।

तस्माच्च धारणीयो वै सर्वार्थसाधनो ध्रुवम् ॥ १९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 20

यथा च दृश्यते लोके रुद्राक्षः फलदः शुभः ।

न तथा दृश्यतेऽन्या च मालिका परमेश्वरि ॥ २०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 21

समाः स्निग्धा दृढाः स्थूलाः कण्टकैः संयुताः शुभाः ।

रुद्राक्षाः कामदा देवि भुक्तिमुक्तिप्रदाः सदा ॥ २१॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 22

कृमिदुष्टं छिन्नभिन्नं कण्टकैर्हीनमेव च ।

व्रणयुक्तमवृत्तं च रुद्राक्षान् षड् विवर्जयेत् ॥ २२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 23

स्वयमेव कृतद्वारं रुद्राक्षं स्यादिहोत्तमम् ।

यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥ २३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 24

रुद्राक्षधारणं प्रोक्तं महापातकनाशनम् ।

रुद्रसङ्ख्याशतं धृत्वा रुद्ररूपो भवेन्नरः ॥ २४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 25

एकादशशतानीह धृत्वा यत्फलमाप्यते ।

तत्फलं शक्यते नैव वक्तुं वर्षशतैरपि ॥ २५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 26

शतार्धेन युतैः पञ्चशतैर्वै मुकुटं मतम् ।

रुद्राक्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः ॥ २६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 27

त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः ।

रुद्राक्षैरुपवीतं च निर्मीयाद्भक्तितत्परः ॥ २७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 19: विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनं, Verse 28

शिखायां च त्रयं प्रोक्तं रुद्रक्षाणां महेश्वरि ।

कर्णयोः षट् च षट् चैव वामदक्षिणयोस्तथा ॥ २८॥