Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं

Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 1

श्रीशिवमहापुराणम् १ विद्येश्वरसंहिता ॥

श्रीगणेशाय नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 1

१.१. प्रथमोऽध्यायः ।

मुनिप्रश्नोत्तरवर्णनम् ।

आद्यन्तमङ्गलमजातसमानभाव- मार्यं तमीशमजरामरमात्मदेवम् ।

पञ्चाननं प्रबलपञ्चविनोदशीलं सम्भावये मनसि शङ्करमम्बिकेशम् ॥ १॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 1

व्यास उवाच ।

धर्मक्षेत्रे महाक्षेत्रे गङ्गाकालिन्दिसङ्गमे ।

प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि ॥ १॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 2

मुनयः शंसितात्मानः सत्यव्रतपरायणाः ।

महौजसो महाभागा महासत्रं वितेनिरे ॥ २॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

विद्येश्वरसंहिता

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 3

तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः ।

आजगाम मुनीन् द्रष्टुं सूतः पौराणिकोत्तमः ॥ ३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 4

तं दृष्ट्वा सूतमायान्तं हर्षिता मुनयस्तदा ।

चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि ॥ ४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 5

ततो विनयसंयुक्ताः प्रोचुः साञ्जलयश्च ते ।

सुप्रसन्ना महात्मानः स्तुतिं कृत्वा यथाविधि ॥ ५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 6

रोमहर्षण सर्वज्ञ भवान् वै भाग्यगौरवात् ।

पुराणविद्यामखिलां व्यासात् प्रत्यर्थमीयिवान् ॥ ६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 7

तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ।

रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ ७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 8

यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते ।

न त्वयाविदितं किञ्चित् त्रिषु लोकेषु विद्यते ॥ ८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 9

त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः ।

कुर्वन् किमपि नः श्रेयो न वृथागन्तुमर्हसि ॥ ९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 10

तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् ।

न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः ॥ १०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 11

इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते ।

तद्रहस्यमपि ब्रूहि यदि तेऽनुग्रहो भवेत् ॥ ११॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 12

प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः ।

दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः ॥ १२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 13

परापवादनिरताः परद्रव्याभिलाषिणः ।

परस्त्रीसक्तमनसः परहिंसापरायणाः ॥ १३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 14

देहात्मदृष्टयो मूढा नास्तिकाः पशुबुद्धयः ।

मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिङ्कराः ॥ १४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 15

विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः ।

धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः ॥ १५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 16

त्यक्तस्वजातिकर्माणः प्रायशः परवञ्चकाः ।

त्रिकालसन्ध्यया हीना ब्रह्मबोधविवर्जिताः ॥ १६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 17

अदयाः पण्डितम्मन्याः स्वाचारव्रतलोपकाः ।

कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः ॥ १७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 18

क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः ।

असत्सङ्गाः पापरता व्यभिचारपरायणाः ॥ १८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 19

अशूरा अरणप्रीताः पलायनपरायणाः ।

कुचौरवृत्तयः शूद्राः कामकिङ्करचेतसः ॥ १९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 20

शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः ।

शरण्यावनहीनाश्च कामिन्यूतिमृगाः सदा ॥ २०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 21

प्रजापालनसद्धर्मविहीना भोगतत्पराः ।

प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा ॥ २१॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 22

वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः ।

कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः ॥ २२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 23

गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः ।

अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः ॥ २३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 24

कामिनीजारभावेषु सुरता मलिनाशयाः ।

लोभमोहविचेतस्काः पूर्तादिषु वृषोज्झिताः ॥ २४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 25

तद्वच्छूद्राश्च ये केचिद् ब्रह्मणाचारतत्पराः ।

उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः ॥ २५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 1: विद्येश्वरसंहितायां मुनिप्रश्नवर्णनं, Verse 26

कर्तारस्तपसां भूयो द्विजतेजोऽपहारकाः ।

शिश्वल्पमृत्युकाराश्च मन्त्रोच्चारपरायणाः ॥ २६॥